वाटी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाटी, स्त्री, (वट्यते वेष्ट्यते इति । वट वेष्टने + घञ् । गौरादित्वात् ङीष् ।) वाट्यालकः । इति शब्दरत्नावली ॥ कुटी । वास्तु । इति मेदिनी । टे, २८ ॥ शेषस्य पर्य्यायः । “वास्त्वस्त्री वेश्म भूर्व्वाटी वाटिका गृहपोतकः ॥” इति शब्दरत्नावली ॥ तस्या लक्षणादिर्यथा, -- विश्वकारुरुवाच । “के ते वृक्षाः प्रशस्ताश्च निषिद्धाश्चापि केचन । भद्रा भद्रप्रदाश्चापि तान् वदस्व जगद्गुरो ॥ केषामन्तनियुक्तञ्च शिविरञ्च शुभाशुभम् । दिशि कुत्र जलं भद्रमशुभञ्च वद प्रभो ॥ द्वाराणाञ्च गृहाणाञ्च प्राकाराणां प्रमाणकम् । भद्रप्रदश्च को वृक्षो दिशि कुत्र प्रवर्त्तते ॥ किं प्रमाणं गृहाणाञ्च प्राङ्गणानां जगद्गुरो । मङ्गलं कुसुमोद्यानं दिशि कुत्र तरोस्तथा ॥ प्राकारं किंप्रमाणञ्च परिखाणां सुरेश्वर । द्वाराणाञ्च गृहाणाञ्च प्राकाराणां प्रमाणकम् ॥ कस्य कस्य तरोः काष्ठं प्रशस्तं शिविरे प्रभो । अमङ्गलं वा केषां वा सर्व्वं मां वक्तुमर्हसि ॥ * ॥ श्रीभगवानुवाच । आश्रमे नारिकेलश्च गृहिणाञ्च धनप्रदः । अभद्रदं सूर्य्यवेधं प्राज्ञाङ्गनं तथैव च ॥ * ॥ शिविराभ्यन्तरे भद्रा स्थापिता तुलसी नृणाम् । धनपुत्त्रप्रदात्री च पुण्यदा हरिभक्तिदा । प्रभाते तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् ॥ मालती यूथिका कुन्दमाधवी केतकी तथा । नागेश्वरं मल्लिका च काञ्चनं वकुलं शुभम् ॥ अपराजिता च शुभदा तेषामुद्यानमीप्सितम् । पूर्ब्बे च दक्षिणे चैव शुभदं नात्र संशयः ॥ ऊर्द्ध्वं षोडशहस्तेभ्यो नैवं कुर्य्याद्गृहं गृही । ऊर्द्ध्वं विंशतिहस्तेभ्यः प्राकारं न शुभप्रदम् ॥ * ॥ सूत्रधारं तैलकारं स्वर्णकारञ्च हीरकम् । वाटीमूले ग्राममध्ये न कुर्य्यात् स्थापनं बुधः ॥ ब्राह्मणं क्षत्त्रियं वैश्यं सच्छूद्रं गणकं शुभम् । भट्टं वैद्यं पुष्पकारं स्थापयेत् शिविरान्तिके ॥ * ॥ प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम् । परितः शिविराणाञ्च गम्भीरं दशहस्तकम् ॥ सङ्केतपूर्व्वकञ्चैव परिखाद्वारमीप्सितम् । शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च ॥ * ॥ शाल्मलीनां तिन्तिडीनां हिन्तालानां तथैव च । निम्बानां सिन्धुवाराणां उडुम्बराणामभद्रकम् ॥ धुस्तूराणां वटानाञ्चाप्येरण्डानामवाञ्छितम् । एतेषामतिरिक्तानां शिविरे काष्ठमीप्सितम् ॥ वृक्षञ्च वज्रहतकं दूरतो वर्ज्जयेद्बुधः । पुत्त्रदारधनं हन्यात् इत्याह कमलोद्भवः ॥ कथितं लोकशिक्षाथं कुरु काष्ठं विना पुरीम् । शुभक्षणं चाप्यधुना गच्छ वत्स यथासुखम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाटी [vāṭī], 1 The site of a house.

A house, dwelling.

A court, an enclosure.

A garden, park, orchard; वाटीभुवि क्षितिभुजाम् Āṣval.5; Bhāg.1.6.11.

A road.

The groin.

A kind of grain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाटी f. a piece of enclosed ground , garden Hariv. Sa1h. BhP.

वाटी f. the site of a house L.

वाटी f. a hut L.

"https://sa.wiktionary.org/w/index.php?title=वाटी&oldid=247120" इत्यस्माद् प्रतिप्राप्तम्