वातः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातः, पुं, (वातीति । वा + क्तः ।) पञ्च- भूतान्तर्मतचतुर्थभूतः । वातास इति भाषा । तत्पर्य्यायः । गन्धवहः २ वायुः ३ पवमानः ४ महाबलः ५ पवनः ६ स्पर्शनः ७ गन्धवाहः ८ मरुत् ९ आशुगः १० श्वसनः ११ मातरिश्वा १२ नभस्वान् १३ मारुतः १४ अनिलः १५ समी- रणः १६ जगत्प्राणः १७ समीरः १८ सदागतिः १९ जीवनः २० पृषदश्वः २१ तरस्वी २२ प्रभ- ञ्जनः २३ प्रधावनः २४ अनवस्थानः २५ धूननः २६ मोटनः २७ खगः २८ । अस्य गुणाः ॥ स्वैरत्वम् । लघुत्वम् । शीतत्वम् । रूक्षत्वम् । सूक्ष्मत्वम् । संज्ञानकत्वम् । स्तोककारित्वञ्च । तस्य कोपकारणं यथा । माधुर्य्यान्नभक्षणम् ॥ साभ्रकालः । अपराह्णकालः । प्रत्यूषकालः ॥ अन्नजीर्णसमयश्च । इति राजनिर्घण्टः ॥ * ॥ रोगविशेषः । यथा । अथ वातव्याध्यधिकारः ॥ तत्र वातव्याधीनां सामान्यतो विप्रकृष्टनिदाना- न्याह । “कषायकटुतिक्तकप्रमितरूक्षलध्वन्नतः पुरःपवनजागरप्रतरणाभिघातश्रमैः । विवद्धमार्गं शुक्रन्तु दृष्ट्वा दद्याद्बिरेचनम् ॥ गर्भे शुष्के तु वातेन बालानाञ्चापि शुष्यताम् । सितामधुककाश्मर्य्यैर्हितमुत्थापने पयः ॥” इति वैद्यकचक्रपाणिसंग्रहे वातव्याध्यधिकारः ॥)

"https://sa.wiktionary.org/w/index.php?title=वातः&oldid=504231" इत्यस्माद् प्रतिप्राप्तम्