वातरक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातरक्तम्, क्ली, (वातदूषितं रक्तं यत्र ।) रोग- विशेषः । तस्य विप्रकृष्टं निदानमाह । “लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनैः । क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः ॥ कुलत्थमासनिष्पावशाकादिपललेक्षुभिः । दध्यारनालसौवीरशुक्ततक्रसरासवैः ॥ विरुद्धाध्यशनक्रोधदिवास्वप्नातिजागरैः । प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् । स्थूलानां सुखिनां चापि प्रकुप्येद्वातशोणितम् ॥ हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च विदाह्यन्नं संविदाहाशनस्य ॥ * ॥ क्षारो यवक्षारादिः । अजीर्णभोजनैः अजी- र्णाय भोजनैः । अतिमात्रभोजनैरित्यर्थः । क्लिन्नादीनि मांसस्य विशेषणानि । क्लिन्नं शटि- तम् । शुष्कमातपे शोषितम् । अम्बुजं मत्स्यादि- मांसम् । आनूपं गौडादिपूर्व्वदेशजं मांसम् । पिण्याकं तिलखलिः । मूलकं प्रसिद्धमेव । निष्पावः वोडाशाकम् । शाकं पत्रशाकम् । आदिशब्देन वृन्ताकादीनि फलशाकानि गृह्यन्ते । पललं शटितत्वादिदोषरहितमपि मांसं वात- शोणितं प्रकोपयेत् । शटितादि तु मांसं विशेषतो वातशोणितं प्रकोपयेत् । आरनालं सन्धानभेदः । शुक्तं सन्धानभेदः । सौवीरं सन्धानभेदः । तक्रं चतुर्थांशजलयुक्तं बस्त्रपूतं दधि । सुरा सन्धानभेदः । आसवः सन्धान- भेदः । विरुद्धं क्षीरमत्स्यादि । अध्यशनम् । अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते । अतिजागरो निशि । प्रायशः बाहुल्येन । सुकु- माराणां अल्पतरकायव्यापाराणाम् । अथवा मिथ्याहारविहारिणाम् । अयथाहारविहा- राभ्यां स्थूलानां सुखिनाञ्च रक्तवृद्ध्या । हस्त्य- श्वोष्ट्रैर्गच्छतः यतो वायुर्व्विवर्द्धते रुधिरञ्चाधो गच्छति । हस्त्यादय उपलक्षाणि । पद्भ्या- अथात्र पथ्यापथ्यविधिः । “द्वयोरस्रस्रुतिः सूचीजलौकाशृङ्ग्यलावुभिः । शतधौतघृताभ्यङ्गो मेषीदुग्धावसेचनम् ॥ यवषष्टीकनीवारकलमारुणशालयः । गोधूमाश्चणका मुद्गास्तुवर्य्योऽपि मुकुष्टकाः ॥ अजानां महिषीणाञ्च गवामपि पयांसि च । लावतित्तिरिसर्पद्विट्ताम्रचूडादिविष्किराः ॥ प्रतुदाः शुकदात्यूहकपोतकटकादयः । उपोदिकाकाकमाची वेत्राग्रं सुनिषण्णकम् ॥ वास्तुकं कारवेल्लञ्च तण्डुलीयः प्रसारणी । पत्तूरो वृद्धकुष्माण्डं सर्पिः शम्पाकपल्लवम् ॥ पटोलं रुवुतैलञ्च मृद्वीकाश्वेतशर्करा । नवनीतं सोमवल्ली कस्तूरी सितचन्दनम् ॥ शिंशपागुरुदेवाह्वसरलं स्नेहमर्द्दनम् । तिक्तञ्च पञ्चमुद्दिष्टं वातरक्तगदे नृणाम् ॥ दिवास्वप्नाग्निसन्तापव्यायामातपमैथुनम् । माषाः कुलत्था निष्पावाः कलायाः क्षारसेवनम् ॥ अम्बुजानूपमांसानि विरुद्धानि दधीनि च । इक्षवो मूलकं मद्यं पिण्याकोऽम्लानि काञ्जिकम् ॥ कटुञ्च गुर्व्वभिष्यन्दि लवणानि च शक्तवः । इत्यपथ्यं निगदितं वातरक्तगदे नृणाम् ॥” इति वैद्यकपथ्यापथ्यविधिग्रन्थे वातरक्ताधि- कारः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातरक्त¦ न॰ वातजं दुष्टं रक्तम् रुधिरं यत्र। रोगभेदे(
“लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनैः। क्लिन्न-{??}ष्काम्बुजानूपमांसपिण्{??}कमूलकैः। कुलत्थमाषान-[Page4875-a+ 38] ष्पावशाकादिपललेक्षुभिः। दध्यारनालभौवीरशुक्ततक्र-सुरासवैः। विरुद्धाध्यशनक्रौधदिवास्वप्नातिजागरैः। प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम्। स्थूलाना सुखिनां चापि प्रकुष्येद्वातशोणितम्। हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च विदाह्यन्नं संविदाहाशनस्य”। क्षारो यवक्षारादिः। अजीर्णभोजनैः अजीर्णाय भो-जनैः अतिमात्रभोजनैरित्यर्थः। क्लिन्नादीनि मांसस्यविशेषणानि। क्लिन्नं शटितम्। शुष्कमातपे शोषितम। अम्बुजं मत्स्यादिमांसम्। आनूपं गौडादिपूर्वदेशजंमासम्। पिण्याकं तिलखलिः। मूलकं प्रसिद्धमेव। निष्पावः (वोडा) शाकम्। शाकं पत्रशाकम्। आदिश-ब्देन वृन्ताकादीनि फलशाकानि गृह्यन्वे। पललंशटितत्वादिदोषरहितमपि मांसं वातशोणितंप्रकोपयेत्। शटितादि तु मांसं विशेषतो वातशोणितंप्रकोपयेत्। आरनालं सन्धानभेदः। शुक्तं सन्धान-भेदः। सौवीरं सन्धानभेदः। तक्रं चतुर्थांशजल-युक्तं वस्त्रपूतं दधि। सुरा सन्धानभेदः। आसवःसन्धानभेदः। विरुद्धं क्षीरमत्स्यादि। अध्यशनम्।
“अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते”। अतिजागरो-निशि। प्रायशः बाहुल्येन। सुकुमाराणाम् अल्पतर-कायव्यापाराणाम्। अथ वा। मिथ्याहारविहा-रिणाम् अयथाहारबिहाराभ्यां स्थूलानां सुखि-नाञ्च रक्तवृद्ध्या हस्ताश्वाष्ट्रैर्गच्छतः यतो वायुर्विव-र्द्धते रुधिरञ्चाधो गच्छति। हस्त्यादय उपलक्षणानि। पद्भ्यामप्यतिचलतः। अश्नतः विदाह्यन्नम्। विदाहिनिष्पावकुलत्थसर्षपशाकादि। मंविदाहाशनस्य। सविदाहेऽशनं यस्य भुक्ते विदग्धे तदुपरि भुञ्जा-नस्येत्यर्थः। अध्यशनमुक्त्वाप्येतद्वचनं विदन्धाजीर्ण-भोजनस्य विशेषतो हेतुत्वार्थम्। पश्चात् वातशो-णितं प्रकुप्येदित्यनेनान्वयः। एतेषां कारणानां मध्येकेनञ्चिद्वायः केनचिदुभयमपि प्रकुप्येत्। संप्राप्ति-माह
“कृत्स्नं रक्तं विदहत्याशु तच्च दुष्टं स्रस्तं पाद-योश्चीयते तु। तत् संपृक्तं वायुना दूषितेन तत् प्रा-वल्यादुच्यते वातरक्तम्”। पूर्वोक्तैर्हेतुमिः कृत्स्नं स-मस्तं रक्तं विदहति अत्र दहधातुरविवक्षितकर्मकः। तेन विदहति विदग्धं भवतीत्यर्थः तच्च दुदरक्तम्। स्रस्तम् अधोगतम् पादयोश्चीयते सञ्चित{??}। तद्रु-धिरं दूषितेन स्वहेतुना संपृक्तं मि{??}तं वातरक्तम्[Page4875-b+ 38] उच्यते। नमु चैतस्य संप्राप्तिरुक्ता सुश्रुतेन
“शीघ्रंरक्तं दुष्टिमायाति तच्च वायोर्मार्गं संरुणद्ध्याशु वातः। क्रुद्धोऽत्यर्थं मार्गरोधात् स वायुरत्युद्रिक्तं दूषयेद्रक्त-माशु”। अत्र प्रथमं रक्तस्य दुष्टिरतो रक्तवातमितिष्यपदेष्टुमुचितं भवत्यत आह तत्प्राबल्यादिति। तस्य वातस्य दोषत्वेन प्राधान्याद्वातरक्तमिति व्यप-दिश्यते। पूर्वरूपमाह
“स्वेदोऽत्यर्थं न वा कार्श्यंस्पर्शाज्ञत्वं क्षतेऽतिरुक्। सन्धिशैथिल्यमालस्यं सदनंपिडकोद्गमः। जानुजङ्घोरुकट्यंसहस्तवादाङ्गम-न्धिषु। निस्तोदस्फुरणं भेदो गुरुत्वं सुप्तिरेव च। कण्डूः सन्धिषु रुग्दाहो भूत्वा नश्यति चासकृत्। वैवर्ण्यं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम्”। आथाधिकृतवातस्य रक्तस्य लक्षणमाह
“वातेऽधिकेऽधिकं तत्रशूलस्फुरणतोदनम्। शोथस्य रौक्ष्यं कृष्णत्वं श्या-वतावृद्धिहानयः। धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्ग-ग्रहोऽतिरुक्। शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः”। तत्र पादयोः शूलादिकमधिकम् यत आह सुश्रुतः
“स्पर्शोद्विग्नौ तोदभेदप्रशोफौ स्वापोपेतौ वातरक्तेनपादाविति”। अत्र सुप्तिः स्पर्शाज्ञता। अधिकरक्तं वात-रक्तमाह
“रक्ते शोथोऽतिरुक् तोदस्ताम्रश्चिमिचि-भायते। सिग्धरूक्षैः समं नैति कण्डूतक्लेदसम-न्वितः”। अधिकपित्तं तदाह
“पित्ते विदाहः संमोहःस्वेदो मूर्च्छामदस्तथा। स्वर्शासहत्वं रुग्दाहः शोथपाकौभृशोष्णता”। विदाहश्च पादयोरेव वोद्धव्यः यत आहसुश्रुतः
“पित्तासृग्भ्यामुग्रदाहो भवेतामत्यर्थोष्णौ रक्त-शोथौ मृदू च”। पादाविति शेषः। अधिककफं त-दाह
“कफाधिक्ये तुं गुरुता सुप्तिः स्निग्धत्वशीतता”। गुरुतादयः पादयोरेव यत आह सुश्रुतः कण्डू-नन्तौ स्वेदशीतौ सशोथौ पीनस्तब्दौ श्ले{??}दुष्टे तुरक्ते”। अप्रतिक्रियमाणवातरक्तस्य उपद्रवानाह
“अस्वप्नारोचकश्वासमांसकोर्थाशरोग्रहाः। मूर्च्छा चमन्दरुग् तृष्णाज्वरमोहप्रकोपकाः। हिक्कामगुल्मवीसर्पपाकतोदभ्रभक्लमाः। अङ्गुलीवक्रतास्फोटदाहमर्मग्रहार्बुदाः” मांसकोथो मांसगलनम्। असाध्यत्वा-दिकमाह
“एतैरुपद्रवैर्वर्ज्यं मोहेनैकेन वापि यत्। अकृत्स्नोपद्रवं याप्यं साध्यं स्यान्निरुपद्रवम्। एक-{??}नुगं साध्यं नवं याप्यं द्विदोषजम्। त्रिदोषज-मसाध्यं स्याद्यस्य च ल्युरुपद्रवाः”। [Page4876-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातरक्त¦ n. (-क्तं) Acute gout or rheumatism. E. वात wind, and रक्त blood; ascribed to a vitiated state of the blood and the aerial humour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातरक्त/ वात--रक्त m. -wwind (in the body) and blood Sus3r.

वातरक्त/ वात--रक्त m. acute gout or rheumatism (ascribed to a vitiated state of -wwind and blood) ib. (See. -शोणित)

"https://sa.wiktionary.org/w/index.php?title=वातरक्त&oldid=247725" इत्यस्माद् प्रतिप्राप्तम्