वाद्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वाद्यम्, क्ली, (वद् + णिच् + यत् ।) वादयन्ति ध्वन- यन्ति यत् । वाज्ना इति भाषा । तत्पर्य्यायः । वादित्रम् २ आतोद्यम् ३ । तच्चतुर्विधं यथा, “ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंश्यादिकन्तु शुषिरं कांस्यतालादिकं घनम् ॥” इत्यमरः ॥ “इदं ततादि चतुर्विधं चतुःप्रकारं वाद्यादिशब्द- द्वयवाच्यम् । ‘इदं चतुर्विधं वाद्यं वादित्रादिद्विनामकम् ।’ वाद्यमितिसमस्तं प्रथमान्तं विशेष्यपदं इति कलिङ्गादयः । फलतो न विशेष्यः ।” इति तट्टी- कायां भरतः ॥ * ॥ अथ वाद्यानि । “तालेन राजते गीतं तालो वादित्रसम्भवः । गरीयस्तेन वादित्रं तच्चतुर्विधमुच्यते ॥ ततं शुषिरमानद्धं घनमित्थं चतुर्व्विधम् । ततं तन्त्रीगतं वाद्यं वंश्याद्यं शुषिरं तथा ॥ चर्म्मावनद्धमानद्धं घनं तालादिकं मतम् ॥” * ॥ तत्र ततं यथा, -- “अलावणी ब्रह्मवीणा किन्नरी लघुकिन्नरी । विपञ्ची वल्लकी ज्येष्ठा चित्रा ज्योषवती जया ॥ हस्तिका कुब्जिका कूर्म्मी शारङ्गी परिवादिनी । त्रिशवी शतचन्द्री च नकुलौष्ठी च ढंसवी ॥ औडम्बरी पिनाकी च निबन्धः शुष्कलस्तथा । गदावारणहस्तश्च रुद्रोऽथ शरमण्डलः । कपिलासो मधुस्यन्दी घोणेत्यादि ततं भवेत् ॥” अलावणी यथा, -- “कनिष्ठिका परिधर्द्धिमध्यच्छिद्रेण संयुतः । दशयष्टिमितो दण्डः खादिरो वैणवोऽथवा ॥ अधःकरभवानूर्द्ध्वे छत्रावल्याभिशोभितः । नवाङ्गुलादधश्छिद्रोपरि चन्द्रार्द्धसन्निभाम् ॥ निवेश्य चुम्बिकां भद्रालावुखण्डं निवेशयेत् । द्वादशाङ्गुलविस्तारं दृढपक्वं मनोहरम् ॥ तुम्बिकावेधमध्येन दण्डच्छिद्रे तु निर्म्मिताम् । अलावुमध्यगां डौवीं कृत्वा स्वल्पान्तु काष्ठि- काम् ॥ तथा संवेष्ट्य तन्मध्ये काष्ठिकां भ्रामयेत्ततः । यथा स्यान्निश्चलालाबुर्ब्बन्धश्च करभोपरि ॥ पञ्चाङ्गुलिषु संत्यज्यालावुं स्वल्पाञ्च बन्धयेत् । केशान्तनिर्म्मिता पट्टमयी सूत्रकृताथवा ॥ समाः सूक्ष्मा दृढा तत्र तन्त्री देया विचक्षणैः । एतल्लक्षणसंयोग्यान्यालावणी प्रकीर्त्तिता ॥ बिन्दुना न समुपेतं तुम्बं निःक्षिप्य वक्षसि ॥ मध्यमानामिकाभ्याञ्च वाद्या दक्षिणपाणिना ॥ तारे मद्रे च घोषे च त्रिस्थाने बिन्दुरिष्यते । तुम्बीमूलं समुत्पत्य वामाङ्गुष्ठेन धारयेत् ॥ ततस्ताभिस्तु सर्व्वाभिः स्वरव्यक्तिर्विधीयते । त्रिस्वरो दक्षिणः पाणिर्वामस्तत्र चतुःस्वरः ॥ अलावण्यां स्थिता ज्ञेयाः सप्तषड्जादयः स्वराः । रागव्यक्तिर्यथा रागे भवेत् षड्जादिभेदतः ॥ तोषितो भगवान् विष्णुर्ददात्यभिमतं फलम् ॥ देवकर्म्मणि सक्तानां तेषां संस्मृतिसंस्तवैः । तोषितोऽभिमतान् कामान् प्रयच्छति जना- र्द्दनः ॥” इति वह्निपुराणे क्रियायोगनामाध्यायः ॥ देवप्रतिष्ठायां वाद्यविधिर्यथा, -- “ततः प्रासादे स्थाप्योऽहं गीतवादित्रमङ्गलैः । सर्व्वगन्धांस्ततो गृह्य इमं मन्त्रमुदाहरेत् ॥” इति वाराहे शैलार्च्चास्थापनाध्यायः ॥ देवताविशेषगृहे वाद्यविशेषनिषेधो यथा । योगिनीतन्त्रे । “शिवागारे झल्लकञ्च सूर्य्यागारे च शङ्खकम् । दुर्गगारे वंशीवाद्यं माधुरीञ्च न वादयेत् ॥” झल्लकं कांस्यनिर्म्मितकरतालम् । मत्स्यपुराणे ॥ “गीतवादित्रनिर्घोषं देवस्याग्रे च कारयेत् । विरिञ्चेश्च गृहे ढक्कां घण्टां लक्ष्मीगृहे त्यजेत् ॥ घण्टा भवेदशक्तस्य सर्व्ववाद्यमयी यतः ॥” इति तिथ्यादितत्त्वम् ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वाद्य नपुं।
चतुर्वाद्याः
समानार्थक:वाद्य,वादित्र,आतोद्य
1।7।5।1।1
चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्. मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योर्ध्वकास्त्रयः॥
: वीणादिवाद्यम्, मुरजादिवाद्यम्, वंशादिवाद्यम्, कांस्यतालादिवाद्यम्
पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वाद्य¦ न॰ वद--णिच्--यत्। वादनीये मृदङ्गादौ अमरः। वंशशब्दे ततादिभेद उक्तस्तत्र( ततं यथा
“अलाबनी ब्रह्मवीणा किन्नरी लघुकिन्नरी। विपञ्ची वल्लकी ज्येष्ठा चित्रा ज्योषवतीजया। हस्तिका कुब्जिका कूर्म्मी शारङ्गी परिवादिनी। त्रिशवी शतचन्द्री च नकुलौष्ठी च ढंसवी। औडम्बरीपिनाकी च निवन्धः शुष्कलस्तथा। गदावारणहस्तश्चरुद्रोऽथ शरमण्डलः। कपिलासी मधुस्यन्दी घोणेत्यादिततं भवेत्”। अलावनी यथा
“कनिष्ठिकापरिध्यर्द्धिमध्यच्छिद्रेण संयुतः। दशयष्टिमितो दण्डः खादिरो-वैणवाऽथ वा। अधःकरमनानूर्द्धे छत्राबल्याभिशो-भितः। नवाङ्गुलादपश्छिद्रोपरिचन्द्रार्द्धसन्निभाम्। निवेश्य तुम्बिकां भद्रालातुखण्डं निवेशयेत्। द्वादशा-ङ्गुलविस्तारं दृढपक्वं मनोहरम्। तुम्बिकावेधमध्येनदण्डच्छिद्रे तु निर्मिताम्। अलाबुमध्यगां डोवीं कृत्वास्वल्पान्तु काष्ठिकाम्। तथा संवेष्ट्य{??}न्मध्ये काष्ठिकांभ्रामयेत्ततः। तथा{??}न्नश्चलालाबुर्वन्धश्च करभो-परि। पञ्चाङ्गुलिषु{??}लाबुं स्वल्पाञ्च बन्धयेत्। केशान्तनिर्मिता पट्टमथी सूत्रकृताथ वा। समा सूक्ष्मादृढा तत्र तन्त्रो देया विचलखैः। एतल्लक्षणसंयो-गिन्थलावनी प्रकीर्त्तिता। विन्दुना न समुपेतं तुम्बंनिःक्षिप्य वक्षास। मध्यमानामिकाभ्याञ्च वाढ्यादक्षिणपाणिना। तारे मन्द्रे च घोषे च त्रिस्थानेविन्दुरिव्यते। तुम्बीमूलं समुत्पत्य वामाङ्गुष्ठेन[Page4877-b+ 38] धारयेत्। ततस्ताभिस्तु सर्वाभिः स्वरव्यक्तिर्विधी-यते। त्रिस्वरो दक्षिणः पाणिर्वामस्तत्र चतुःस्वरः। अलाबन्यां स्थिता ज्ञेयाः सप्त षड्जादयः स्वराः। रागव्यक्तिर्यथा रागे भवेत् षड्जादिभेदतः। अंशन्यासविभेदाच्च तथात्रापि विधीयते। इयमलावनी प्रोक्ता मनः-श्रवणरञ्जनी। प्रत्यक्षा सारदा देवी वीणारूपेण सं-स्थिता”। शुषिरं वंशशब्दे उक्तम्। आनद्धं यथा(
“आनद्धे मर्द्दलः श्रेयान् इत्युक्तं भरतादिभिः। मुरजपटहढक्काविम्बकोदर्पवाद्यं पणवघनसरुञ्जाला-वजाह्वात्रवल्यः। करटकमठभेरी स्यात् कुढक्काहुडुक्का झनसमुरलिझल्लीढुक्कलीदौण्डिशाना। डनु-रुटमुकिमड्डु। कुण्डलीस्तङ्गुनामा रणमभिघटवाद्यंदुन्दभी च रजश्च। क्वचिदपि ठुढुकी स्वात् दर्दुरंचाप्युपाङ्गं प्रकटितमनुबन्धं वाद्यमित्थं जगत्याम्। त्रिपुरमथनकर्तुस्ताण्डवे तत् प्रयाणे ततमथ शुशि-रञ्चानद्धमित्थं षनञ्च। मर्दलः खादिरः श्रेष्ठो हीनःस्यादन्यदारुजः। रक्तचन्दनजी वाद्यो गभीरध्वनिरुच्चकैः। सार्द्धहस्तप्रमाणन्तु दैर्घ्यमस्य विधीयते। त्रयोदशाङ्गुलं वाममथ वा द्वादशाङ्गुल{??}। दक्षिणञ्चभवेद्धीनमेकेनार्द्धाङ्गुलेन वा। करणामद्धवदनो मध्येचैव पृथुर्भवेत्। षण्मासीयो भवेत् शस्तस्तच्चर्म करणंमतम्। मृत्तिकानिर्मितश्चैव मृरतः परिकीर्त्तितः। पातयेत् खरलिं वाद्ये वादनार्थञ्च मर्दले। विभूतिर्गै-रिकं भक्तं केन्दुकेन च संमतम्। यद्वा चिपीटकंदेयं जीवनीसत्त्वमिश्रितम्। सर्वमेकत्र पि{??}ल्लेपा। ख-रलिरुच्यते। वामास्ये पूरिकां कृत्वा लेपं दद्याच्च द-क्षिणे। एवं मर्दलकः प्रोक्तः सर्ववाद्यो{??} मतः। अस्य संयोगमासाद्य सर्वं वाद्यञ्च शोभते। एतदङ्गेवीजकाष्ठे दलमर्द्धाङ्गुलं चिदुः”।{??} त्र{??}दशाङ्गुलवाममुखो द्वादशाङ्गुलदखिणमुस्वः। मुरजस्त्व{??} शाङ्गुल{??}ममुखः सप्तदशाङ्गुलदक्षिणमुखः मर्दलङरजयारयंभेदः। पनं यथा।
“अनुरक्तं विरक्तञ्च द्विविधं घन-वाद्यकम्।{??}ता{??}गभनुरक्त पिरक्तं ता{??}स{??}यम्। करतालः कांस्यतालो जयघण्टोऽथ शुक्तिका। कम्बिकापञ्च वाद्यञ्च पट्टतोयं च पषेरम्। झ{??}कातालश्चमञ्जीरकर्त्तर्य्युङ्कर इत्यपि। हादशैते मुनीन्द्रे{??} कथिताधनसंज्ञकाः। त्रयोदशाङ्गुलव्यामौ शुद्धकांस्यविनि-{??}तौ। मध्यमुखौ स्तनाकारौ तन्मध्ये रज्जुगुम्फितौ। [Page4878-a+ 38] पद्मिनीपत्रसदृशौ कराभ्यां रज्जुयन्त्रितौ। कर-तालावुभौ वाद्यौ पाटैर्झनटकैरिति। यद्वा त्रयोदशयव-व्यामं वक्रयबोन्मितम्। यवपञ्चकगम्भीरं मध्ये चयवसप्तकम्। निभृतं वर्त्तुलं निम्नं यवत्रयमितंततः। पृष्ठतो मध्यदेशे च शिवलिङ्गसमाकृति। अ-त्थम्लपैष्टीनिर्दग्धशुद्धकांस्यविनिर्मितम्। संरक्ताङ्गुलिसुस्निग्धसुदीर्घमधुरध्वनिम्। घनानुसारि संरक्तंदृढं शुष्कं मनोहरम्। काश्मीरादिसमुद्भूतं ताल-माहुर्मनीषिणः। सुनादं दक्षिणं तालं ततो हीनञ्चवामकम्। कुर्वीत तद्द्वयं कार्य्यं तज्जन्त्यङ्गुष्ठयोर्गतम्। वाभहस्तस्थतालस्य मध्यमं सन्निनादितम्। तिर्य्यग्द-क्षिणतालस्य परिध्यशेन तालयेत्। तालादौ वाद-येच्चैव प्लुतदीर्घलघुद्रुतैः”। अन्येर्षा लक्षणंविस्तरभयान्नोक्तम्।
“रुक्मिण्याः सत्यभामायाः कालि-न्दीमित्रविन्दयोः। जाम्बवत्या नाग्नजित्या ल-क्ष्मणाभद्रयोरपि। कृष्णस्याष्टमहिषीणां पुरोद्वाह-महोत्सवे। ततं सुमिरमानद्धं घनञ्च युगपज्जनाः। अवादयन्नसंख्यातमिति पौराणिकी श्रुतिः। ततंवाद्यन्तु देवानां गन्धर्वाणाञ्च शौषिरम्। आनद्धं राक्ष-सानान्तु किन्नराक्षां घनं विदुः” सङ्गोतदा॰
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वाद्य¦ n. (-द्यं) Any musical instrument. E. वद् to sound, aff. ण्यत्; to be sounded or played.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वाद्यम् [vādyam], [वद्-णिच् यत्]
A musical instrument; ततं वाद्यं तु देवानां गन्धर्वाणां च शौषिरम् । आनद्धं राक्षसानां तु किंनराणा घनं विदुः ॥ Saṅgītadāmodara.
The sound of a musical instrument; श्रोत्रेषु संमूर्च्छति रक्तमासां गीतानुगं वारिमृदङ्ग- वाद्यम् R.16.64 (वाद्यध्वनिः Malli.). -द्यः, -द्यम् An instrumental music. -Comp. -करः, -धरः a musician.
भाण्डम् a band of music, a number of musical instruments.
a musical instrument.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वाद्य mfn. to be said or spoken or pronounced or uttered AitBr.
वाद्य mfn. to be sounded or played (as a musical instrument) Cat.
वाद्य n. a speech S3Br.
वाद्य n. instrumental music Ma1lav. Katha1s. etc.
वाद्य m. or n. a musical instrument R. Katha1s. Pan5cat.