वामा

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वामा, स्त्री, (वमति सौन्दर्य्यं इति । वम + ज्वला- दित्वात् अण् । टाप् । यद्वा, वमति प्रतिकूल- मेवार्थं कथयति । यद्वा, वामः कामोऽस्त्यस्या इति अर्श आदिभ्योऽच् इत्यच् ।) सामान्या स्त्री । इत्यमरः । २ । ६ । २ ॥ (यथा, गीत- गोविन्दे । १ । ४६ । “श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति वामाम् । पश्यति सस्मितचारुपरामपरामनुगछति रामाम् ॥”) दुर्गा । यथा, -- “वामं विरुद्धरूपन्तु विपरीतन्तु गीतये । वामेन सुखदा देवी वामा तेन मता बुधैः ॥” इति देवीपुराणे ४५ अध्यायः ॥ अपि च । “बालान्तु बाल्यदाक्षिण्यभावाभ्यामपि पूजयेत् । श्मशानभेरवीं देवीमुग्रतारां तथैव च ॥ उच्छिष्टभैरवीं चण्डीं तारां त्रिपुरभैरवीम् । एतास्तु वामभावेन यजेत्त्रिपुरभैरवीम् ॥ सर्व्वत्र पितृदेवादौ यस्माद्भवति दक्षिणः । देवी च दक्षिणा यस्मात्तस्मात् दाक्षिण्यमुच्यते ॥ या पुनः पूज्यमाना तु देवादीनान्तु पुर्ब्बतः । यज्ञभागं स्वयं धत्ते सा वामा तु प्रकीर्त्तिता ॥” इति कालिकापुराणे ७७ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वामा स्त्री।

स्त्री

समानार्थक:स्त्री,योषित्,अबला,योषा,नारी,सीमन्तिनी,वधू,प्रतीपदर्शिनी,वामा,वनिता,महिला,वासिता,वशा

2।6।2।2।2

स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः। प्रतीपदर्शिनी वामा वनिता महिला तथा॥

अवयव : आर्तवम्,स्त्रीस्तनम्

पति : पुरुषः

सम्बन्धि2 : स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,स्त्रीयोनिः

वैशिष्ट्यवत् : स्त्रीणाम्_श्रृङ्गारभावजाः_क्रिया

 : पत्नी, नर्तकी, स्त्रीविशेषः, कोपनस्त्री, अत्यन्तोत्कृष्टस्त्री, पट्टमहिषी, राजभार्या, पतिपुत्रातिमती, पतिव्रता, प्रथममूढा, स्वेच्छाकृतपतिवरणा, दोषवारणकृतकुलरक्षास्त्री, कन्या, अदृष्टरजस्का, प्रथमप्राप्तरजोयोगा, यौवनयुक्ता, पुत्रभार्या, प्राप्तयौवना_पितृगेहस्था, धनादीच्छायुक्ता, मैथुनेच्छावती, या_कान्तेच्छयारतिस्थानं_गच्छती_सा, स्वैरिणी, अपत्यरहिता, पतिपुत्ररहिता, विधवा, सखी, सुमङ्गली, पक्वकेशी, स्वयम्ज्ञात्री, प्रशस्तबुद्धी, शूद्रस्यभार्या, शूद्रजातीया, आभीरी, वैश्यजातीया, क्षत्रियजातीया, स्वयम्विद्योपदेशीनी, स्वयम्मन्त्रव्याख्यात्री, आचार्यभार्या, वैश्यपत्नी, क्षत्रियपत्नी, विद्योपदेष्टृभार्या, वीरस्य_भार्या, वीरस्य_माता, प्रसूता, नग्ना, दूती, अर्धवृद्धा_काषायवसना_अधवा_च_स्त्री, परवेश्मस्था_स्ववशा_शिल्पकारिका_च_स्त्री, कृष्णकेशी_प्रेष्यान्तःपुरचारिणी_च_स्त्री, वेश्या, जनैः_सत्कृतवेश्या, परनारीं_पुंसा_संयोजयित्री, शुभाशुभनिरूपिणी, रजस्वला, गर्भवशादभिलाषविशेषवती, रजोहीना, गर्भिणी, द्विवारमूढा, द्व्यूढाप्रधानभार्यः, जननी, भगिनी, भर्तृभगिनी, परस्परम्_भ्रातृभार्या, भ्रातृपत्निः, मातुलभार्या, पत्युर्वा_पत्न्याः_वा_माता, अतिबालिका, द्वारस्था_योषित्, नटी, परद्रोहकारी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वामा [vāmā], 1 A woman.

A lovely woman; मधु द्राक्षा साक्षादमृतमथ वामाधरसुधा Bv.4.39,42.

N. of Gaurī.

Of Lakṣmī.

Of Sarasvatī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वामा f. a beautiful woman , any woman or wife Pan5car. Sa1h.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शक्ति. Br. IV. १९. ७३; ४४. १४०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĀMĀ : An attendant of Subrahmaṇya. (M.B. Śalya Parva, Chapter 46, Stanza 12).


_______________________________
*2nd word in left half of page 823 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वामा&oldid=507462" इत्यस्माद् प्रतिप्राप्तम्