वारणः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारणः, पुं, (वारयति परबलमिति । वृ + ल्युः ।) हस्ती । इत्यमरः । २ । ८ । ३४ ॥ (यथा, कुमारे । ५ । ७० । “इयञ्च तेऽन्या पुरतो षिडम्बना यदूढया वारणराजहार्य्यया । विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥”) बाणवारः । इति शब्दरत्नावली ॥ (यथा, महाभारते । ४ । ४० । २ । “वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः ॥ सुपार्श्वं सुग्रहञ्चैव कस्यैतद्धनुरुत्तमम् ॥” वारि जले रणति चरतीति । वार् + रण् + अच् । जलजाते, त्रि । यथा, हरिवंशे । ३१ । ४८ । “ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम् । अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् ॥” “वारि जले रणति चरतीति वारणः समुद्रोद्भव इत्यर्थः ।” इति तट्टीकायां नीलकण्ठः ॥)

"https://sa.wiktionary.org/w/index.php?title=वारणः&oldid=165221" इत्यस्माद् प्रतिप्राप्तम्