वारणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारणम्, क्ली, (वृ + णिच् + ल्युट् ।) प्रतिषेधः । इति मेदिनी । णे, ६६ ॥ (यथा, हरिवंशे । १८० । ४५ ॥ “अस्त्राणां वारणार्थाय वासुदेवोऽप्यमुञ्चत ॥”) हस्तवारणम् । इति जटाधरः ॥ * ॥ दानकाले वारणनिषेधो यथा, -- “न देवगुरुविप्राणां दीयमानन्तु वारयेत् । न चात्मानं प्रशंसेद्वा परनिन्दाञ्च वर्ज्जयेत् ॥” इति कौर्म्मे उपविभागे १६ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=वारणम्&oldid=165220" इत्यस्माद् प्रतिप्राप्तम्