वारुणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारुणी, स्त्री, (वरुणस्येयम् । “तस्येदम् ।” ४ । ३ । १२० । इत्यण् । ङीप् ।) सुरा । (यथा, मनौ । ११ । १४७ । “अज्ञानाद्वारुणीं पीत्वा संस्कारेणैव शुध्यति । मतिपूर्ब्बमनिर्द्देश्यं प्राणान्तिकमिति स्थितिः ॥” मदिराधिष्ठात्री देवी । यथा, विष्णुपुराणे । १ । ९ । ९३ । “किमेतदिति सिद्धानां दिवि चिन्तयतां ततः । बभूव वारुणी देवी मदाघूर्णितलोचना ॥” “वारुणी मदिराधिष्ठात्री देवी ।” इति तट्टी- कायां श्रीधरस्वामी ॥ वरुणपत्नी । वारुणी- वल्लभशब्ददर्शनात् ॥ यथा, महाभारते । २ । ९ । ६ । “यस्यामास्ते स वरुणो वारुण्या च समन्वितः । दिव्यरत्नाम्बरधरो दिव्याभरणभूषितः ॥” नदीविशेषः । यथा, गो० रामायणे । २ । ७० । १२ । “पूर्ब्बेण वारुणीं तीर्त्वा कुरुक्षेत्रे सरस्वतीम् । सरांसि च प्रफुल्लानि नदीश्च विमलोदकाः ॥”) पश्चिमदिक् । इत्यमरः । १ । ३ । ५१ ॥ (यथा, नैषधचरिते । ४ । ६० । “वद विधुन्तुदमालि मदीरितै- स्त्यजसि किं द्विजराजधिया विधुम् । किमु दिवं पुनरेति यदीदृशः पतित एष निषेव्य हि वारुणीम् ॥” विद्याविशेषः । यथा, तैत्तिरीयोपनिषदि । ३ तृतीयवल्ल्याम् ६ षष्ठानुवाके । “आनन्देन जातानि जीवन्ति । आनन्दं प्रयत्यभिसंविश- न्तीति । सैषा भार्गवी वारुणी विद्या ॥” अश्वानां छायाविशेषः । यथा, अश्ववैद्यके । ३ । १७३ । “शुद्धस्फटिकसङ्काशा सुस्निग्धा चैव वारुणी ॥”) शतभिषानक्षत्रम् । इति हेमचन्द्रः ॥ गण्ड- दूर्व्वा । इति मेदिनी । णे, ६८ ॥ इन्द्रवारुणी । दूर्व्वा । इति राजनिर्घण्टः ॥ शतभिषानक्षत्र- युक्तचैत्रकृष्णत्रयोदशी । यथा, स्कन्दपुराणे । “वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी । गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा ॥” वारुणं शतभिषा । “शनिवारसमायुक्ता सा महावारुणी स्मृता । गङ्गायां यदि लभ्येत कोटिसूर्य्यग्रहैः समा ॥ शुभयोगसमायुक्ता शनौ शतभिषा यदि । महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ॥ अत्र संज्ञाविधेः सार्थकत्वाय निमित्तत्वेन मास- पक्षतिथ्युल्लेखानन्तरं महावारुणीमहामहा- वारुण्यावुल्लेखनीये । तेन चैत्रे मासि कृष्ण- पक्षे त्रयोदश्यां तिथौ महावारुण्यां महा- महावारुण्यां यथायथं प्रयोज्यम् । न चात्र । “स्नानं कुर्व्वन्ति या नार्य्यश्चन्द्रे शतभिषां गते । सप्तजन्म भवेयुस्ता दुर्भगा विधवा ध्रुवम् ॥” इति ॥ “त्रयोदश्यां तृतीयायां दशम्याञ्च विशेषतः । शूद्रविट्क्षत्त्रियाः स्नानं नाचरेयुः कथञ्चन ॥” इति प्रचेतोजावालिवचनाभ्यां स्त्रीणां शूद्रादी- नाञ्च स्नाननिषेध इति वाच्यम् । “भोगाय क्रियते यत्तु स्नानं यादृच्छिकं नरैः । तन्निषिद्धं दशम्यादौ नित्यनैमित्तिके न तु ॥” इति हेमाद्रिधृतवचनेन रागप्राप्तस्नान एव निषेधात् नक्षत्रेऽपि तथा कल्पनात् । अत्र त्रयोदश्यां पूर्णायां पूर्ब्बाह्णेतरकाले नक्षत्रादि- सत्त्वे परदिने पूर्ब्बाह्णे तिथिनक्षत्रलाभेऽपि पूर्ब्ब- दिन एव स्नानम् । रात्रावपि वारुण्यादिषु गङ्गायां स्नानम् । “दिवा रात्रौ च सन्ध्यायां गङ्गायाञ्च प्रसङ्गतः । स्नात्वाश्वमेधजं पुण्यं गृहेऽप्युद्धृततज्जलैः ॥” इति ब्रह्माण्डपुराणे सामान्यतः प्रतिप्रसवात् । इति तिथ्यादितत्त्वम् ॥ * ॥ वरुणप्रेरितवृन्दा- वनस्थकदम्बतरुकोटरनिःसृतबलदेवपीतवारुणी । यथा, -- पराशर उवाच । “वने विचरतस्तस्य सह गोपैर्महात्मनः । मानुषच्छद्मरूपस्य शेषस्य धरणीधृतः ॥ निष्पादितोरुकार्य्यस्य कार्य्येणोर्व्वीविचारिणः । उपभोगार्थमत्यर्थं वरुणः प्राह वारुणीम् ॥ अभीष्टा सर्व्वदा यस्य मदिरे त्वं महौजसः । अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥ इत्युक्ता वारुणी तेन सन्निधानमथाकरोत् । वृन्दावनवनोत्पन्नकदम्बतरुकोटरे ॥ विचरन् बलदेवोऽपि मदिरागन्धमुत्तमम् । आघ्राय मदिरातर्षमवापाथ पुरातनम् ॥ ततः कदम्बात् सहसा मद्यधारां स लाङ्गली । पतन्तीं वीक्ष्य मैत्रेय प्रययौ परमां मुदम् ॥ पपौ च गोपगोपीभिः समवेतो मुदान्वितः । उपगीयमानो ललितं गीतवाद्यविशारदैः ॥” इति विष्णुपुराणे ५ अंशे २५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारुणी स्त्री।

पश्चिमदिग्देशकालाः

समानार्थक:वारुणी,प्रत्यक्

3।3।52।1।2

वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी। करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्.।

पदार्थ-विभागः : , द्रव्यम्

वारुणी स्त्री।

सुरा

समानार्थक:सुरा,हलिप्रिया,हाला,परिस्रुत्,वरुणात्मजा,गन्धोत्तमा,प्रसन्ना,इरा,कादम्बरी,परिस्रुत्,मदिरा,कश्य,मद्य,वारुणी,मधु,हाल,अनुतर्ष

3।3।52।1।2

वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी। करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्.।

अवयव : सुराकल्कः,सुरामण्डः

वृत्तिवान् : शौण्डिकः

 : मधुकपुष्पकृतमद्यम्, इक्षुशाकादिजन्यमद्यम्, नानाद्रव्यकृतमद्यम्

पदार्थ-विभागः : खाद्यम्,पानीयम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारुणी¦ स्त्री वरुणो देवतास्य वरुणस्येदं वा अच् ङीप्।

१ पश्चिमलिशि

२ मदिरायाम् हेमच॰।

३ शतभिघातारायां।

४ गण्डदूर्वायाम्

५ दूर्वायां मेदि॰।

६ इन्द्रवारुण्यां राजनि॰

७ वरुणस्त्रियां

८ शतभिषानक्षत्रयुक्तचैत्रकृष्णत्रयोदस्यां चस्कन्दपुराणे।
“वारुणेन समायुक्ता मधौ कृष्णा त्रयो-दशी। गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा” वारुणं शतभिषा।
“शनिवारसमायुक्ता सा म{??}-वारुणी स्मृता। गङ्गायां यदि लभ्येत कोटि[Page4884-a+ 38] सूर्य्यग्रहैः समा। शुभयोगसमायुक्ता शनौ शतभिषायदि। महामहेति विख्याता त्रिकोटिकुलमुद्धरेत्”
“अत्र संज्ञाविधेः सार्थकत्वाय निमित्तत्वेन मासपक्ष-तिथ्युल्लेखानन्तरं महावारुणीमहामहावारुण्यावु{??}-स्वनीये श्राद्धे पार्वणादिसंज्ञाल्लेखवत् पौर्णमास्यमावा-स्ययोः पक्षाल्लेखवच्च ति॰ त॰। अत्र वारघटितत्वात् सावन-दिनमेव ग्राह्यम्
“सृतकानां परिच्छेदो दिनमासाब्दपा-स्तथा। मध्यमग्र{??}भुक्तिश्च सावनेन प्रकीर्त्तितः” सृ॰ सि॰उक्तेः। कोर्मपाद्मयोः
“द्वौ तिथ्यन्तावेकवारे यत्रस्मात् स दिनक्षयः”। बशिष्ठः
“एकस्मिन् सावनेत्वह्नि तिथीनां त्रितवं यदा। तदा दिनलयः प्रोक्तस्तत्रसाहस्रिकं फलम्” इत्येतयोर्वचनयोरेकवाक्यतयापितथावगम्यते। रखापूर्वपरयोरित्यादिकन्तु ज्योतिः-शास्त्रोक्तं कालहोरादिज्ञानार्थमिति। अत्र
“संक्रा-न्तिषु व्यतीपाते ग्रहणं चन्द्रसूर्य्ययोः। पुष्ये स्नात्वाच गङ्गायां कुलकोटीः समुद्धरेत्”। इति ब्रह्मा-ण्डपुराणात् ग्रहणमात्र त्रिकोटिकुलोद्धरणवि-धानात् ततोऽधिकेषु वारुण्यादिषूत्तरोत्तरगुरुषु महा-महावारुण्यदिषु यत् त्रिकोटिकुलोद्धरणमुक्तं तदुद्ध-रणगततारतम्येनाविरुद्धम्
“यं यं क्रतुमधीते चतस्य तस्याप्नुयात् फलम्” याज्ञवल्क्योक्ताध्ययनात्यथा तत्तद्या{??}करणेऽधिकफलम् अतएव शिष्टाना-मादरोऽपि तथेति। नचात्र
“स्नानं कुर्वन्ति याना-र्य्यश्चन्द्रे शतभिषां गते। सप्तजन्म भवेयुस्ता दुर्भगा-विधवाध्रुवम्।
“त्रयोदश्यां तृतीयायां दशम्याञ्चविशेषतः। शद्रविट्क्षत्रियाः स्नानं नाचरेयुः कथ-ञ्चन” इति प्रचेतोजावालिवचनाभ्यां स्त्रीणां शूद्रा-दीनाञ्च स्नाननिषेध इति वाच्यम्
“भोगाय क्रियते यत्तुस्नानं यादृच्छिकं नरैः। तन्निषिद्धं दशम्यादौ नित्यनैमित्तिके न तु” इति हेमाद्रिधृतवचनेन रा{??}पाप्त-स्नान एव निषेधात् नक्षत्रेऽपि तथाकल्पनात्। अत्र त्रयोदश्यां पूर्णायां पूवाह्णातरकाले नक्षत्रादिसत्त्वेपरदिने पूर्वाह्ण तिथिनक्षत्रलाभेऽपि पूर्वदिन एवस्नानम्। तथा च कालमाधवीये नारदीयम आदि-त्योदयवलाया आरभ्य षष्टिनाडिकाः। तिथिस्तु सा हिशुद्धा स्यात् सार्वतिथ्या ह्ययं विधिः” अत्र पूर्वतिथेःशुद्धत्वाभिधानातु ततपरतिथेरशुद्धत्वाभिधानं प्रतीयते। रात्रावपि वारुण्यादिषु गङ्गायां स्नानम्।
“दिवा रात्रौ[Page4884-b+ 38] च सन्ध्यायां गङ्गायाञ्च प्रसङ्गतः।{??}त्वाऽश्वमेधजंवुण्यं गृहेऽप्यद्धततज्जलैः”। गृहस्थरत्नाकरे देवलः
“महानिशा तु विज्ञेया मध्यमं प्रहरद्वयम्। तस्यांस्नानं न कर्त्तव्यं काम्यनैमित्तिकादृते”। अत्र सहा-निशायामपि काम्यनैमित्तिकं स्नानं प्रतीयते”। ति॰ त॰ रघु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारुणी¦ f. (-णी)
1. Any spirituous liquor, or more properly, a particular kind prepared from hogweed, ground with the juice of the date or palm, and then distilled.
2. The west, the region of VARUN4A.
3. The 25th lunar asterism, of which VARUN4A is the ruling deity.
4. A species of Durba4-grass. E. वरुण the deity, अण् and ङीष् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारुणी [vāruṇī], 1 The west (the quarter presided over by Varuṇa).

Any spirituous liquor; पयो$पि शौण्डिकीहस्ते वारुणीत्यभिधीयते H.3.11; करस्पन्दो$म्बरत्यागस्तेजोहानिः सरागता । वारुणीसंगजावस्था भानुनाप्यनुभूयते ॥ Pt.1.178 (where both senses are intended); Ku.4.12; Bhāg.1.65.19.

The asterism शतभिषज्.

Dūrvā grass.

N. of the wife of Varuṇa.

A kind of Dūrvā.

A kind of liquor; वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम् Bhāg.1.15.23.-Comp. -वल्लभः an epithet of Varuṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारुणी f. See. below

वारुणी f. the western quarter or region (presided over by वरुण) , the west (with or without दिश्) VarBr2S.

वारुणी f. N. of partic. serpents Gr2S.

वारुणी f. ( pl. )of partic. sacred texts Gaut.

वारुणी f. वरुण's female Energy (personified either as his wife or as his daughter , produced at the churning of the ocean and regarded as the goddess of spirituous liquor) TA1r. MBh. R. Pur.

वारुणी f. a partic. kind of spirit (prepared from hogweed mixed with the juice of the date or palm and distilled) , any spirituous liquor MBh. Ka1v. etc.

वारुणी f. N. of शिव's wife L.

वारुणी f. a partic. fast-day on the thirteenth of the dark half of चैत्रCol.

वारुणी f. दूर्वाgrass or a similar species L.

वारुणी f. colocynth L.

वारुणी f. the नक्षत्रशत-भिषज्(ruled by वरुण) L.

वारुणी f. N. of a river R.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(III)--the region sacred to वरुण. भा. X. ८९. ४४.
(IV)--(also known as पुष्करिणी) a daughter of अरण्य Praja1pati; a wife of चक्षुष, and mother of चाक्- षुष Manu; sister of Udaka who attained वरुणहोओद्. Br. II. ३६. १०२-4; वा. ६२. ८९.
(V)--a वर्ण S4akti. Br. IV. ४४. ६१.
(VI)--a mind-born mother; on the fish with the serpent with पाश or noose. M. १७९. १०; २८६. 9.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SURĀDEVĪ (VĀRUṆĪ) : A daughter of Varuṇa born of Devī, his brother's wife. She was the apple of the eye to the Devas. She is the presiding Devatā over liquor She lives in the court of Brahmā worshipping him. (Sabhā Parva, Chapter 11, Verse 42; Ādi Parva, Chap- ter 18, Verse 35 and Chapter 66, Verse 52).


_______________________________
*14th word in left half of page 767 (+offset) in original book.

VĀRUṆĪ II : The daughter of Varuṇa. When the Devas and the Asuras churned the sea of Milk, four damsels were caused to arise by Varuṇa and holy pot of Ambrosia, by Soma. The four damsels were Sulakṣmī, Vāruṇī, Kāmodā and Śreṣṭhā, of whom Vāruṇī was married by Devas. (Padma Purāṇa, Bhūmi Khaṇḍa, Chapter 119).


_______________________________
*9th word in right half of page 833 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारुणी स्त्री.
1. (वरुणस्य इयम्, वरुण + अण् + ङीप्) 1. वरुण के सन्दर्भ वाली एक ऋचा, आप.श्रौ.सू. 1०.15.6 (इसे उस समय पढ़ना चाहिए जब दीक्षित के यज्ञमण्डप के बाहर रहते सूर्यास्त हो); द्रष्टव्य - उसके यज्ञशाला के बाहर होने पर सूर्योदय हो तो ‘सौरी’ ऋचा का पाठ करना चाहिए; 2. संघनित दूध का ठोस भाग, अर्थात् आमिक्षा, जिसे वरुण को अर्पित किया जाता है, मा.श्रौ.सू. 1.7.3.4; -याग, श्रौ.प.नि. 93.49०।

"https://sa.wiktionary.org/w/index.php?title=वारुणी&oldid=480182" इत्यस्माद् प्रतिप्राप्तम्