वाष्पः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाष्पः, पुं, (वाधते इति । वाधृ लोडने + “खष्पशिल्प- शष्पवाष्परूपपर्पतल्पाः ।” उणा० । ३ । २८ । इति पप्रत्यये धस्य षत्वं निपातनात् ।) उष्मा । (यथा, रघौ । ७ । ६८ । “तस्याः प्रतिद्धन्द्वभवाद्बिषादात् सद्यो विमुक्तं मुखमावभासे । निश्वासवाष्पापगमात् प्रपन्नः प्रसाद मात्मीयमिवात्मदर्शः ॥”) लोहः । इति मेदिनी । पे, ११ ॥ अश्रुः । इत्य- मरः ॥ (यथा, आर्य्यासप्तशत्याम् । ३९४ । “प्राङ्गण एव कदा मां श्लिष्यन्ती मन्युकम्पि- कुचकलसा । अंशनिषण्णमुखी सा स्नपयति वाष्पेण मम पृष्ठम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाष्पः [vāṣpḥ] ष्पम् [ṣpam], ष्पम् See बाष्प.

"https://sa.wiktionary.org/w/index.php?title=वाष्पः&oldid=252011" इत्यस्माद् प्रतिप्राप्तम्