वासक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासकः, पुं, (वासयतीति । वासि + ण्वुल् ।) वृक्ष- विशेषः । वाकस इति भाषा । तत्पर्य्यायः । वैद्यमाता २ सिंही ३ वासिका ४ वृषः ५ अटरुषः ६ सिंहास्यः ७ वाजिदन्तकः ८ । इत्यमरः ॥ वाशा ९ वाशिका १० वृशः ११ अटरूषः १२ वाशकः १३ । इति तट्टीका ॥ वासा १४ वासः १५ वाजी १६ वैद्यसिंही १७ मातृसिंही १८ । इति शब्दरत्नावली ॥ वासका १९ सिंहपर्णी २० । इति जटाधरः ॥ सिंहिका २१ भिषङ्माता २२ वसादनी २३ सिंहमुखी २४ कण्ठीरवी २५ शितकर्णी २६ वाजिदन्ती २७ नासा २८ पञ्चमुखी २९ सिंहपत्री ३० मृगेन्द्राणी ३१ । अस्य गुणाः । तिक्तत्वम् । कटुत्वम् । शीतत्वम् । काशरक्त- पित्तकामलाकफवैकल्यज्वरश्वासक्षयनाशित्वञ्च । तत्पुष्पगुणाः । कटुपाकित्वम् । तिक्तत्वम् । कास- क्षयहरत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “वासको वासिका वासा भिषङ्माता च सिंहिका । सिंहास्यो वाजिदन्तः स्यादाटरुषोऽटरूषकः ॥ आटरूषो वृषो नाम्ना सिंहपर्णश्च स स्मृतः । वासको वासकृत् सर्य्यः कफपित्तास्रनाशनः ॥ तिक्तस्तुवरको हृद्यो लघुः शीतस्तृडर्त्तिहृत् । श्वासकासज्वरच्छर्द्दिमोहकुष्ठक्षयापहः ॥” इति भावप्रकाशः ॥ * ॥ गानाङ्गविशषः । यथा, -- “मनोहरोऽथ कन्दर्पश्चारुनन्दन एव च । चत्वारो वासकाः प्रोक्ताः शङ्करेण स्वयं पुरा ॥” केषाञ्चिन्मते नामान्यपि पृथक् । “विनोदो वरदश्चैव नन्दः कुमुद एव च । चत्वारो वासकाः प्रोक्ता गीतवाद्यविशारदैः ॥” इति सङ्गीतदामोदरः ॥ (वासरः । इति वासकसज्जाशब्दार्थे आलङ्का- रिकाः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासक पुं।

वाशा

समानार्थक:वैद्यमातृ,सिंही,वाशिका,वृष,अटरूष,सिंहास्य,वासक,वाजिदन्तक

2।4।103।2।4

शुक्ला हैमवती वैद्यमातृसिंह्यौ तु वाशिका। वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासक¦ पु॰ वास--ण्वुल्। स्वनामख्याते वृक्षे
“येन तेनप्रकारेण वासकः कासनाशकः” इति वैद्यकम्
“वासकः कासहृत् स्वर्य्यः कफपित्तास्रनाशनः। तिक्त-स्तवरको हृद्यो लघुः शीतस्तृडर्त्तिहृत। श्वासकामज्वरच्छर्दिमोहकुष्ठक्षयापहः” भावप्र॰।

२ गानाङ्गवि-शेषे यथा
“मनोहरोऽथ कन्दर्पश्चारुनन्दन एव च। चत्वारो वासकाः प्रोक्ताः शङ्करेण स्वयं पुरा”। केषा-ञ्चिम्मते नामान्तरम्।
“विनोदो वरदश्चैव नन्दःकुमुद एव च। चत्वारो वासकाः प्रोक्ता गीतवाद्य-विशारदैः” सङ्गीतदा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासक¦ mf. (-कः-सका or सिका)
1. A shrub, (Justicia ganderussa.)
2. Perfuming. E. वास् to perfume, aff. ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासक [vāsaka], a. (-का or -सिका f.) [वास्-वस्-णिच् वा ण्वुल्]

Scenting, perfuming, infusing, fumigating &c.

Causing to dwell, populating. -कः Scent. -का (also वासिका)

An abode, habitation.

A bed-chamber.-कम् Clothes. -Comp. -सज्जा, -सज्जिका a woman who dresses herself in all her ornaments and keeps herself (and her house) ready to receive her lover, especially when he has made an appointment with her; an expectant heroine, one of the several classes of a Nāyikā; S. D. thus defines her: कुरुते मण्डनं यस्याः (या तु) सज्जिते वासवेश्मनि । सा तु वासकसज्जा स्याद्विदितप्रियसंगमा ॥ 12; भवति विलम्बिनि विगलितलज्जा विलपति रोदिति वासकसज्जा Gīt.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासक m. scent Pan5car.

वासक mf( आ, अका, इका). Gendarussa Vulgaris or Adhatoda Vasica VarBr2S. Sus3r. etc.

वासक mfn. perfuming , fumigating MW.

वासक ( ifc. ) = वास2 clothing , clothes Ya1jn5. MBh. etc. (See. अशुद्ध-व्).

वासक mf( इका)n. causing to dwell or inhabit , populating MW.

वासक mf( इका)n. ( ifc. )abode , habitation Ya1jn5.

वासक n. ( ifc. f( आ). )a sleeping-room , bed-chamber Katha1s.

वासक m. (in music) a species of ध्रुवक(See. ) Sam2gi1t.

वासक m. N. of a serpent-demon MBh.

वासक m. pl. N. of a people Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=वासक&oldid=252046" इत्यस्माद् प्रतिप्राप्तम्