वास्तु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वास्तु, क्ली, वास्तूकशाकम् । इति राजनिर्घण्टः ॥

वास्तु, क्ली पुं, (वसन्ति प्राणिनो यत्र । वस निवासे + “वसेरगारे णिच्च ।” उणा० १ । ७० । इति तुण् । स च णित् ।) गृहकरणयोग्यभूमिः । तत्- पर्य्यायः । वेश्मभूः २ । इत्यमरः ॥ पोतः ३ वाटी ४ । इति जटाधरः ॥ वाटिका ५ गृहपोतकः ६ । इति शब्दरत्नावली ॥ वास्तुकरणप्रमा- णादिर्यथा, -- श्रीहरिरुवाच । “वास्तु संक्षेपतो वक्ष्ये गृहादौ विघ्ननाशनम् । ईशानकोणादारभ्य ह्येकाशीतिपदे यजेत् ॥ ईशाने च शिरःपादौ नैरृतेऽग्न्यनिले करौ । आवासवासवेश्मादौ पुरे ग्रामे बणिक्पथे ॥ प्रासादारामदुर्गेषु देवालयमठेषु च । द्वात्रिंशत्तु सुरान् वाह्ये तदन्तश्च त्रयोदश ॥ ईशश्चैवाथ पर्ज्जन्यो जयन्तः कुलिशायुधः । सूर्य्यः सत्यो भृशश्चैव आकाशो वायुरेव च ॥ पूषा च वितथश्चैव गृहक्षेत्रयमावुभौ । गन्धर्व्वो भृङ्गराजश्च मृगः पितृगणस्तथा ॥ दौवारिकोऽथ सुग्रीवः पुष्पदन्तो गणाधिपः । असुरः शेषपापौ च रोगोऽहिर्मुख्य एव च ॥ भल्लाटः सोमसर्पौ च अदितिश्च दितिस्तथा । बहिर्द्बात्रिंशदेते तु तदन्तश्चतुरः शृणु ॥ ईशानादिचतुष्कोणसंस्थितान् पूजयेद्बुधः । आपश्चैवाथ सावित्रो जयो रुद्रस्तथैव च ॥ मध्ये नवपदो ब्रह्मा तस्याष्टौ च समीपगान् । देवानेकोत्तरानेतान् पूर्ब्बादौ नामतः शृणु ॥ जीर्णोद्धारे तथोद्याने तथा गृहनिवेशने । द्वाराभिवर्द्धने तद्वत् प्रासादेषु गृहेषु च ॥ वास्तूपशमनं कुर्य्यात् पूर्ब्बमेव विचक्षणः । एकाशीतिपदं लेख्यं लेखकैर्वास्तुपिष्टकैः । होमस्त्रिमेखले कार्य्यः कुण्डे हस्तप्रमाणके ॥” विश्वकर्म्मा । “खाताधिके भवेद्रोगी हीने धेनुधनक्षयः । वक्रकुण्डे तु सन्तापो मरणं छिन्नमेखले ॥ मेखलारहिते शोको ह्यधिके वित्तसंक्षयः । भार्य्याविनाशकं कुण्डं प्रोक्तं योन्या विना कृतम् । अपत्यध्वंसनं प्रोक्तं कुण्डं यत् कण्ठवर्ज्जितम् ॥” वशिष्ठसंहितायाम् । “तस्मात् सम्यक् परीक्ष्यैवं कर्त्तव्यं शुभवेदिकम् ।” एवंविधकुण्डासम्भवे क्रियासारः । “कुण्डमेवंविधं न स्यात् स्थण्डिलं वा समा- श्रयेत् ॥” मत्स्यपुराणम् । “यवैः कृष्णतिलैस्तद्बत् समिद्भिः क्षीरसम्भवैः । पालाशैः खादिरैरापामार्गोडुम्बरसम्भवैः ॥ कुशदूर्व्वामयैर्व्वापि मधुसर्पिःसमन्वितैः । कार्य्यस्तु पञ्चभिर्विल्वैर्विल्वबीजैरथापि वा । होमान्ते भक्ष्यभोज्यैश्च वास्तुदेशे वलिं हरेत् ॥” अत्र होमे मन्त्रानाह विष्णुधर्म्मोत्तरम् । “वास्तोष्पतेन मन्त्रेण यजेच्च गृहदेवताम् ।” वास्तोष्पतेन वास्तोष्पतिदैवतेन पञ्चमन्त्रेण । वलिद्रव्यञ्च पायसं प्रागेव लिखितम् ॥ * ॥ ब्रह्मस्थाने ततः कुर्य्याद्वासुदेवस्य पूजन- मित्यादि । सुवर्णं गां वस्त्रयुगमाचार्य्याय निवे- दयेत् । इत्यन्तमत्रापि बोध्यम् कल्पतरौ मत्स्य- पुराणम् । “ततः सर्व्वौषधिस्नानं यजमानस्य कारयेत् । द्विजांश्च पूजयेद्भक्त्या ये चान्ये गृहमागताः ॥ एतद्बास्तूपशमनं कृत्वा कर्म्म समाचरेत् । प्रासादभवनोद्यानप्रारम्भे परिवर्त्तने ॥ पुरवेश्मप्रवेशेषु सर्व्वदोषापनुत्तये । इति वास्तूपशमनं कृत्वा सूत्रेण वेष्टयेत् ॥” इति मत्स्यपूराणे उपक्रमोपसंहारयोर्वास्तूप- शमनत्वेनाभिधानात् वास्तूपशमनं कर्म्मणो नामधेयं इति तेनैवोल्लेखः सर्व्वदोषापनुत्तये इति श्रुतेश्च वास्तुसर्व्वदोषापनोदनं फलं संकल्पे तु तदुल्लेखः कार्य्यः । एतत्तु प्रारम्भप्रवेशान्य- तरस्मिन्नवश्यं कर्त्तव्यम् । आवश्यकत्वे प्रमाणं प्रागेवोक्तम् । इति श्रीरघुनन्दनभट्टाचार्य्यविर- चितं वास्तुयागतत्त्वं समाप्तम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वास्तु पुं-नपुं।

गृहरचनावच्छिन्नवास्तुभूमिः

समानार्थक:वेश्मभू,वास्तु

2।2।19।2।4

क्षिप्ते मुखं निःसरणं संनिवेशो निकर्षणम्. समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वास्तु¦ पु॰ न॰ वस--तुण्। वासयोग्यभूमौ अमरः। गृहशब्दे

२६

३२ पृ॰ दृश्यम्। स्वार्थे क। स्वनामख्याते शाकेराजनि॰। तत्रार्थे न॰ भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वास्तु¦ mn. (-स्तुः-स्तु)
1. The site of a habitation.
2. A house, a habitation. E. वस् to dwell, Una4di aff. तुन्, and the radical vowel made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वास्तु [vāstu], m., n. [वस्-तुण् Uṇ.1.77]

The site of a house, building ground, site.

A house, an abode, a dwelling-place; रवेरविषये वास्तु किं न दीपः प्रकाशयेत् Subhāṣ.

A chamber. -Comp. -कर्मन् n. house-building, architecture; वास्तुकर्मानिवेशम् Rām.1.3.16. -कालः the time suited for building a house. -ज्ञानम् architecture. -देवता, -पालः the tutelary deity of a house.-यागः a sacrifice performed on the occasion of laying the foundation of a house. -विद्या architecture. -विधानम् house-building. -शमनम्, -संशमनम्, -शान्तिः f. a religious rite performed on the occasion of laying the foundation of a new house, particularly on the occasion of entering it. -संपादनम् the preparation of a house; Ms.3.225. -स्थापनम् the erection of a house.

वास्तु [vāstu] स्तू [stū] कम् [kam], (स्तू) कम् Chenopodium Album (Mar. चाकवत).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वास्तु n. ( m. only in BhP. )the site or foundation of a house , site , ground , building or dwelling-place , habitation , homestead , house RV. etc.

वास्तु n. an apartment , chamber VarBr2S.

वास्तु m. N. of one of the 8 वसुs BhP.

वास्तु m. of a राक्षसCat.

वास्तु (prob.) f. N. of a river MBh.

वास्तु n. the pot-herb Chenopodium Album L.

वास्तु n. a kind of grain A1pS3r. Sch. (See. -मय).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--Rules of शिल्पशास्त्र. According to these कृष्ण built a city (द्वारका) in the sea. भा. X. ५०. ५०-51.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Vāstu : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; people used its water for drinking 6. 10. 24, 13; all the rivers listed here by Saṁjaya are described as mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).

_______________________________
*5th word in right half of page p440_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वास्तु न.
एक प्रकार के अनाज का नाम, भा.श्रौ.सू. 9.16.1527। वास्तुमय (वास्तुनः विकारः, वास्तु + मयट्) ‘वास्तु’ नामक अनाज से निर्मित, आप.श्रौ.सू. 9.14.13; (चरु) जिसमें वास्तु का अनाज समाहित हो, भा.श्रौ.सू. 9.16.16।

"https://sa.wiktionary.org/w/index.php?title=वास्तु&oldid=504282" इत्यस्माद् प्रतिप्राप्तम्