सामग्री पर जाएँ

वास्तोष्पति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तोष्पतिः, पुं, (वास्तोर्गृहक्षेत्रस्य पतिरधि- ष्ठाता । “वास्तोष्पतिगृहमेधाच्छ च ।” इति निपातनात् अलुक् षत्वञ्च । यद्वा, “वास्त्वन्त- रिक्षं तस्य पतिः पाता विभुत्वेन ।” इति निघण्टुटीकायां देवराजयज्वा । ५ । ४ । ९ ।) इन्द्रः । इत्यमरः ॥ (देवतामात्रम् । यथा, भागवते । १० । ५० । ५३ । “वास्तोष्पतीनाञ्च गृहैर्वलभीभिश्च निर्म्मितम् । चातुर्व्वर्ण्यजनाकीर्णं यदुदेवगृहोल्लसत् ॥” “किञ्च नगरगृहादौ वास्तोष्पतीनां देवानाञ्च गृहैर्वलभीभिश्चन्द्रमालिकाभिश्च निर्म्मितम् ॥” इति तट्टीकायां स्वामी ॥ गृहपालयितरि, त्रि । यथा, ऋग्वेदे । ७ । ५४ । १ । “वास्तोष्पते प्रतिजानीह्यस्मान् स्वावेशो अनमीवो भवानः ॥” “हे वास्तोष्पते गृहस्य पालयितर्देव त्वं अस्मान् त्वदीयान् स्तोतॄनिति प्रतिजानीहि ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तोष्पति पुं।

इन्द्रः

समानार्थक:इन्द्र,मरुत्वत्,मघवन्,बिडौजस्,पाकशासन,वृद्धश्रवस्,सुनासीर,पुरुहूत,पुरन्दर,जिष्णु,लेखर्षभ,शक्र,शतमन्यु,दिवस्पति,सुत्रामन्,गोत्रभिद्,वज्रिन्,वासव,वृत्रहन्,वृषन्,वास्तोष्पति,सुरपति,बलाराति,शचीपति,जम्भभेदिन्,हरिहय,स्वाराज्,नमुचिसूदन,सङ्क्रन्दन,दुश्च्यवन,तुराषा,मेघवाहन,आखण्डल,सहस्राक्ष,ऋभुक्षिन्,कौशिक,घनाघन,पर्जन्य,हरि

1।1।43।1।1

वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः। जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः॥

पत्नी : शची

सम्बन्धि2 : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्

जन्य : जयन्तः

सेवक : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्,देवरथः,देवसभा,देववृक्षः,अश्विनीकुमारौ,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः,देवशिल्पिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तोष्पति¦ पु॰

६ त॰ अलुक् समा॰।

१ इन्द्रं, अमरः

२ वास्तु-भूमिपती च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तोष्पति¦ m. (-तिः) A name of INDRA. E. वास्तु the site of a dwelling, in the sixth case, पति master.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तोष्पतिः [vāstōṣpatiḥ], 1 N. of a Vedic deity (supposed to preside over the foundation of a house) Ṛv.7.54; वास्तोष्पतीनां च गृहैर्वलभीभिश्च निर्मितम् Bhāg.1.5.54.

N. of Indra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तोष्पति/ वास्तोष्-पति m. (fr. वास्तोस्gen. of वास्तु+ प्)" house-protector " , N. of a deity who presides over the foundation of a house or homestead (addressed in RV. vii , 54 ) RV. AV. Pa1rGr2. Mn. BhP.

वास्तोष्पति/ वास्तोष्-पति m. N. of रुद्रTS.

वास्तोष्पति/ वास्तोष्-पति m. of इन्द्रL.

"https://sa.wiktionary.org/w/index.php?title=वास्तोष्पति&oldid=252857" इत्यस्माद् प्रतिप्राप्तम्