वाहनम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • वाहनं, यानकं, यानं, ओहस्, पतत्रं, रथ्यं, युग्यं, संयानं, योजनम्।

अकारान्त-नपुंसकलिङ्गपदम्

नामम्[सम्पाद्यताम्]

  • वाहनं नाम यानम्। विज्ञानेन वैज्ञानिकानुसन्धानेन वा वयं महत् सौविध्यं प्राप्तवन्तः। सम्प्रति वायुप्रदूषणस्य या समस्या वर्तते तस्याः समास्यायाः मुख्यं कारकं वाहनान्येवास्ति । अनुमीयते यत नगरेषु ६०% प्रदूषणं वाहनेभ्यः एव भवति । स्थितिः इदृशी अस्ति यत् वाहने उपविष्टानां कृतेऽपि श्वसनं दुष्करं जातम्।

अनुवादाः[सम्पाद्यताम्]

  1. मलयालम्-വണ്ഡീ
  2. आङ्ग्लम्-VEHICLE
  3. हिन्दि-गाडी
  4. तेलुगु-వాహనము
  5. कन्नड-ವಾಹನ

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहनम्, क्ली, (वहत्यनेनेति । वह + करणे ल्युट् । “वाहनमाहितात् ।” ८ । ४ । ८ । इत्यत्र “वहतेर्ल्युटि वृद्धिरिहैव सूत्रे निपातनात् ।” इति भट्टोजिदीक्षितोक्त्या निपातनात् वृद्धिः ।) हस्त्यश्वरथदोलादिः । तत्पर्य्यायः । यानम् २ युग्यम् ३ पत्रम् ४ धोरणम् ५ । इत्यमरः । २ । ८ । ५८ ॥ * ॥ (यथा, रघुः । ११ । १० । “पूर्व्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः । उह्यमान इव वाहनोचितः पादचारमपि न व्यभावयत् ॥”) “स वाहनानां नागानां शीकराम्बुमहाभरैः । शूकरप्रेयसीपृष्ठे स्वयं चक्रे कृषिं नृपः ॥” “नागानां वाहना मेघाः शूकरप्रेयसी क्षितिः । विष्णोः शूकररूपस्य सा हि प्रियतमोच्यते ॥ तस्यां मेघाम्बुभिर्धान्यमुत्पन्नं चेत् किमद्भुतम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहनम् [vāhanam], [वाहयति वह्-णिच् ल्यु ल्युट् वा]

Bearing, carrying, conveying.

Driving (as a horse).

A vehicle, conveyance of any kind; Ms.7.75; निजानुजेनातिथितामुपेतः प्राचीपतेर्वाहनवारणेन N.22.45.

An animal used in riding or draught, as a horse; स दुष्प्रापयशाः प्रापदाश्रमं श्रान्त- वाहनः R.1.48;9.25,6.

An elephant.

An oar; अस्य वाहनसंयुक्तां ... नावमुपाहर Rām.2.52.6. -ना An army; वाहनाजनि Śi.19.33. -Comp. -पः a groom. -श्रेष्ठः a horse.

"https://sa.wiktionary.org/w/index.php?title=वाहनम्&oldid=508096" इत्यस्माद् प्रतिप्राप्तम्