विकल्प
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विकल्पः, पुं, (विरुद्धं कल्पनमिति । वि + कृप + घञ् ।) भ्रान्तिः । (यथा, देवीभाग- वते । १ । १९ । ३२ । “विकल्पोपहतस्त्वं वै दूरदेशमुपागतः । न मे विकल्पसन्देहो निर्व्विकल्पोऽस्मि सर्व्वथा ॥”) कल्पनम् । इति मेदिनी । पे, ॥ (यथा, भाग- वते । ५ । १६ । २ । “तत्रापि प्रितव्रतरथचरणपरिखातैः सप्तभिः सप्त सिन्धवः उपकॢप्ताः । यत एतस्याः सप्त- द्वीपविशेषविकल्पस्त्वया भगवन् खलु सूचितः ॥” संशयः । यथा, रघुः । १७ । ४९ । “रात्रिन्दिवविभागेषु यथादिष्टं महीक्षिताम् । तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः ॥” नानाविधः । यथा, मनुः । ९ । २२८ । “प्रच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः । तस्य दण्डविकल्पः स्याद्तथेष्टं नृपतेस्तथा ॥”) विविधकल्पः । स च द्विविधः । व्यवस्थितः । एच्छिकश्च । सोऽप्याकाङ्क्षाविरहे युक्तः । तथा च भविष्ये । “स्मृतिशास्त्रे विकल्पस्तु आकाङ्क्षापूरणे सति ॥” इच्छाविकल्पेऽष्टदोषाः । यथा, -- “प्रमाणत्वाप्रमाणत्वपरित्यागप्रकल्पना । प्रत्युज्जीवनहानिभ्यां प्रत्येकमष्टदोषता ॥” व्रीहिभिर्यजेत यवैर्यजेत इति श्रूयते । तत्र व्रीहिप्रयोगे प्रतीतयवप्रामाण्यपरित्यागः । अप्रतीतयवाप्रामाण्यपरिकल्पनम् । इदन्तु पूर्ब्ब- स्मात् पृथक् वाक्यं अन्यथा समुच्चयेऽपि याग- सिद्धिः स्यात् । अतएव विकल्पे न उभयः शास्त्रार्थ इत्युक्तम् । प्रयोगान्तरे यवे उपा- दीयमाने परित्यक्तयवप्रामाण्योज्जीवनं स्वीकृत- यवाप्रामाण्यहानिरिति चत्वारो दोषाः । एवं व्रीहावपि चत्वारः । इत्यष्टौ दोषा इच्छा- विकल्पे । तथा चोक्तम् । “एवमेवाष्टदोषोऽपि यद्व्रीहियववाक्ययोः । विकल्प आश्रितस्तत्र गतिरन्या न विद्यते ॥” इति ॥ एकार्थतया विविधं कल्प्यते इति विकल्पः । तस्मादष्टदोषभिया उपोष्य द्वे तिथी इत्यत्र न इच्छाविकल्पः किन्तु व्यवस्थितविकल्पः । इत्येकादशीतत्त्वम् ॥ (अवान्तरः कल्पः । यथा, भागवते । २ । ८ । ११ । “यावान् कल्पो विकल्पो वा यथा कालोऽनु- मीयते ॥” देवता । यथा, भागवते । १० । ८५ । ११ । “वैकारिको विकल्पानां प्रधानमनुशायि- नाम् ॥” “विविधं आधिदैवाध्यात्माधिभूतभेदेन कल्प्यन्ते इति विकल्पा देवास्तेषां कारणं वैकारिकः सात्त्विकोऽहङ्कारश्च त्वम् ॥” इति तट्टीकायां स्वामी ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विकल्प¦ पु॰ विभिन्नः कल्पः।
१ म्रान्तिज्ञाने
२ कल्पने मेदि॰
३ विविधकल्पने
४ संसर्गारोपणे,
५ पक्षतः प्राप्तौ च। विकल्पश्च द्विविधः व्यवस्थितः ऐच्छिकश्च। सोऽप्या-काङ्क्षाविरहे युक्तः तथा च भविष्ये
“स्मृतिशास्त्रेविकल्पस्तु आकाङ्क्षापूरणे सति”। इच्छाविकल्पेऽष्ट-दोषः यथा
“प्रमाणत्वाप्रमाणत्वपरित्यागप्रकल्पना। प्रत्युज्जीवनहानिभ्यां प्रत्येकमष्टदोषता”। ब्रीहिभिर्य-जेत यवैर्यजेत” इति श्रूयते। तत्र ब्रीहिप्रयोगे प्रतीत-यवप्रामाण्यपरित्यागः। अप्रतीतयवाप्रमाण्यपरि-कल्पनम्। इदन्तु पूर्वस्मात् पृथक् वाक्यम् अन्यथा ममुच्च-येऽपि यागसिद्धिः स्यात्। अतएव विकल्पे न उभयम्शास्त्रार्थ इत्युक्तम्। प्रयोगान्तरे यवे उपादीयमानेपरित्यक्तयवप्रामाण्योज्जीवनं स्वीकृतयवाप्रामाण्य-हानिरिति चत्वारो दोषाः। एवं व्रीहावपि चत्वारःइत्यष्टौ दोषा इच्छाविकल्पे। तथा चोक्तम्।
“एवमेवाष्ट-दोषाश्च यद् ब्रीहियववाक्ययोः। विकल्प आश्रितस्तत्रगतिरन्था न विद्यते” इति। विविधं कल्प्यते इति वि-कल्पः। तस्मादष्टदोषभिया उपोष्य द्वे तिथी इत्यत्र नइच्छाविकल्पः किन्तु व्यवस्थितविकल्पः” एता॰ त॰ रघु॰। पातञ्जलोक्तेः
६ चित्तवृत्तिभेदे यथा
“शब्दज्ञानानुपाती-वस्तुशून्यो विकल्पः” सू॰।
“स न प्रमाणोपारोही न विपर्य्ययोपारोही वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्न्थनिबन्धनो व्यवहारो दृश्यते। तद् यथा चैतन्य पुरुषस्यस्वरूपमिति यदा चितिरेव पुरुषः तदा किमत्र केन[Page4890-b+ 38] व्यपदिश्यते भवति च व्यपदेशे वृत्तिः यथा चैत्रस्य गौ-रिति। तथा प्रतिषिद्धवस्तुधर्मा विष्क्रियः पुरुषः। तिष्ठति वाणः स्थास्यति स्थित इति गतिनिवृत्तौ धात्वर्थ-मात्रं गम्यते। तथानुत्पात्तधर्मा पुरुष इति उत्पत्ति-धर्मखाभावमात्रमवगम्यते न पुरुषान्वयी धर्मः तस्माद्वि-कल्पितः स धर्मस्तेन चास्ति व्यवहार इति। भा॰
“ननु शब्दज्ञानानुपाती चेदागमपमाणान्तर्गतो विकल्पप्रसज्येत निर्वस्तुकत्वे वा विपर्य्ययः स्यादित्यत” आह। स नेति। न प्रमाणविपर्य्ययान्तर्गतः कस्माद् यतोवस्तुशून्यत्वेपीति प्रमाणान्तर्गतिं निषेधयति। शब्द-ज्ञानमाहात्म्यनिबन्धन इति विपर्य्ययान्तर्गतिम्”। त-दुक्तं भवति क्वचिदभेदे भेदमारोपयति क्वचित् पुन-र्भिन्नानामभेदं ततो भेदस्याभेदस्य च वस्तुतोऽभावात्तदाभासो विकल्पो न प्रमाणं नापि विपर्य्ययो व्यव-हाराविसंवादादिति। शास्त्रप्रसिद्धमुदाहरणमाहतद् यथेति। किं विशेष्यं केन व्यपदिश्यते विशेष्यते,नाभेदे विशेष्यविशेषणभावो न हि गवा गौर्विशेष्यते। किन्तु भिन्नेन चैत्रेण तदिदामाह। भवति च व्यप-देशे वृत्तिः। व्यापदेश्यव्यापदेशकयोर्भावो व्यपदेशे वि-शेषणविशेष्यभाव इति यावत् तस्मिन् वृत्तिर्वाक्यस्य,यथा चैत्रस्य गौरिति। शास्त्रीयमेवोदाहरणान्तरं स-मुच्चिनीति तथेति प्रतिषिद्धवस्तुनः पृथिव्यादेः धर्मःपरिस्पन्दो यस्य स तथोक्तः कोऽसौ निष्क्रियः पुरुषः। न खलु साङ्ख्यीये राद्धान्तेऽभावो नाम कश्चिदस्ति वस्तुधर्मो येन पुरुषो विशेष्येतेत्यर्थः। क्वचित् पाठं प्रति-मिद्धवस्तुधर्मा इति तस्यार्थः प्रतिषेधव्याप्त्या प्रति-षिद्धाभावो न वस्तुधर्माणां तद्व्यप्यता भावाभावयोरसम्बन्धाटथ च तथा प्रतीतिरिति। लौकिकमुदाहरणमाहतिष्ठति वाण इति। पचति भिनत्तीत्यत्र पूर्वापरीभूतयापाकादिक्रिययेव स्थानक्रियया वाणाद्भिन्नया वाणस्यव्यपदेश इति गतिनिवृत्तौ धात्वर्थमात्रं गम्यते। गतिनिवृत्तिरेव तावत् कल्पिता तस्या अभावरूपत्वम्। तत्रापि पूर्वापरीभाव इत्यहो कल्पनापरम्परेत्यर्थः। अभावः कल्पितो भाव इव चानुगत इव च सर्वपुरुषेषु गम्यते न पुरुषाद् व्यतिरिक्तो धर्मः कश्चिदित्युदाहरणा-{??}रमाह। तथानुत्पत्तिधर्मेति। प्रमाणविपर्य्यया-भ्यामन्या न विकल्प वृत्तिरितिवादिनो वहवः प्रति-पेदिरे तत्पतिबोधनायोदाहरणप्रपञ्च” विव॰। [Page4891-a+ 38]
७ ज्ञाने प्रकारतारूपविषयताभेदे यथा सविकल्पकं सप्रका-रताकं ज्ञानम्। निर्विकल्पकं निष्प्रकारताकं ज्ञानमित्मादि
८ वैचित्र्ये तस्य क्वचित् सत्त्वं क्वचिदसत्त्वम्। यथा
“साध्यदृष्टान्तयोर्धर्मविकल्पात्” गौ॰ सू॰ वृत्तौ दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विकल्प¦ m. (-ल्पः)
1. Error, ignorance, mistake.
2. Alternative, option.
3. Doubt, indecision.
4. (In rhetoric,) Antithesis of opposites.
5. (In grammar, &c.,) Admission of more than one form or rule.
6. Device. E. वि distinction, and कल्प making, &c.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विकल्पः [vikalpḥ], 1 Doubt, uncertainty, indecision, hesitation; तत् सिषेवे नियोगेन स विकल्पपराङ्मुखः R.17.49.
Suspicion; Mu.1.
Contrivance, art; मायाविकल्परचितैः R.13.75.
Option, alternative (in gram.); तुल्यार्थयोर्हि तुल्यविषययो- र्विकल्पो भवति न नानार्थयोः ŚB. on MS.1.6.33.
Sort, variety; दण्डविकल्पः Ms.9.228; भूषणानां विकल्पम् Me.76.
An error, a mistake, ignorance.
Distinction; एवं सुरासुरगणाः समदेशकालहेत्वर्थकर्ममतयो$पि फले$विकल्पाः Bhāg.8.9.28.
A division of Kalpa; यावान् कल्पो विकल्पो वा यथा कालो$नुमीयते Bhāg.2.8.12.
A god; वैकारिको विकल्पानाम् Bhāg.1.85.11.
Origin (उत्पत्ति); आत्मा केवल आत्मस्थो विकल्पापायलक्षणः Bhāg.11.25.27.
Admission, statement.
Fancy, imagination.
Mental occupation. -Comp. -उपहारः an optional offering. -जालम् a net-like indecision, a dilemma.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विकल्प/ वि--कल्प m. (for 2. See. under वि-कॢप्)an intermediate कल्प, the interval between two कल्पs.(See. ) BhP.
विकल्प/ वि-कल्प etc. See. under वि-कॢप्.
विकल्प/ वि-कल्प m. (for 1. See. p. 950 , col. 1) alternation , alternative , option S3rS. Mn. VarBr2S. etc. (694108 पेनind. " optionally ")
विकल्प/ वि-कल्प m. variation , combination , variety , diversity , manifoldness Ka1tyS3r. MBh. etc.
विकल्प/ वि-कल्प m. contrivance , art Ragh.
विकल्प/ वि-कल्प m. difference of perception , distinction Nya1yas. BhP.
विकल्प/ वि-कल्प m. indecision , irresolution , doubt , hesitation MBh. Ka1v. etc.
विकल्प/ वि-कल्प m. admission , statement BhP.
विकल्प/ वि-कल्प m. false notion , fancy , imagination Yogas. Gi1t.
विकल्प/ वि-कल्प m. calculation VarBr2S.
विकल्प/ वि-कल्प m. mental occupation , thinking L.
विकल्प/ वि-कल्प m. = कल्प-स्थानCar.
विकल्प/ वि-कल्प m. a god BhP. ( Sch. )
विकल्प/ वि-कल्प m. (in rhet. )antithesis of opposites Prata1p.
विकल्प/ वि-कल्प m. (in gram.) admission of an option or alternative , the allowing a rule to be observed or not at pleasure( वे-ति विकल्पःPa1n2. 1-1 , 44 Sch. )
विकल्प/ वि-कल्प m. a collateral form VarBr2S.
विकल्प/ वि-कल्प m. pl. N. of a people MBh. ( C. विकल्य)
विकल्प/ वि-कल्प mfn. different BhP.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Vikalpa : m. (pl.): Name of a Janapada.
Listed by Saṁjaya among the southern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (athāpare janapadā… dakṣiṇā) 6. 10. 56, 5; (vikalpā mūṣakās tathā) 6. 10. 57.
_______________________________
*2nd word in right half of page p861_mci (+offset) in original book.
Mahabharata Cultural Index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Vikalpa : m. (pl.): Name of a Janapada.
Listed by Saṁjaya among the southern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (athāpare janapadā… dakṣiṇā) 6. 10. 56, 5; (vikalpā mūṣakās tathā) 6. 10. 57.
_______________________________
*2nd word in right half of page p861_mci (+offset) in original book.