विकिरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकिरः, पुं, (विकिरति मृत्तिकादीन् भोजनार्थ- मिति । वि + कॄश विक्षेपे + इगुपधेति कः ।) पक्षी । इत्यमरः ॥ (अस्य पर्य्यायो यथा, -- “पक्षी खगो विहङ्गश्च विहगश्च विहङ्गमः । शकुनिर्विः पतत्त्री च विष्किरो विकिरो- ऽण्डजः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥) कूपः । इति त्रिकाण्डशेषः ॥ (विकीर्य्यते इति । वि + कॄ + घञर्थे कः ।) पूजाकालीनविघ्नोत्- सारणार्थक्षेपणीयतण्डुलादिः । यथा । फडिति सप्त जप्तान् विकिरानादाय । “अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः । ये भूता विघ्नकर्त्तारस्ते नश्यन्तु शिवाज्ञया ॥” इति विकिरेत् ॥ यथा, -- “लाजचन्दनसिद्धार्थभस्मदूर्व्वाकूशाक्षताः । विकिरा इति सन्दिष्टाः सर्व्वविघ्नौघनाशकाः ॥” इति तन्त्रसारः ॥ अग्निदग्धादीनां पिण्डम् । यथा, मनुः । ३ । २४५ । “असंस्कृतप्रमीतानां योगिनां कुलयोषिताम् । उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः ॥” अपि च । “पिण्डनिर्व्वापरहितं यत्तु श्राद्धं विधीयते । स्वधावाचनलोपोऽत्र विकिरस्तु न लुप्यते ॥” इति श्राद्धतत्त्वम् ॥ (यथा च मार्कण्डेये । ३१ । १२ । “ये वा दग्धाः कुले बालाः क्रियायोग्या ह्यसंस्कृताः । विपन्नास्तेऽन्नविकिरसम्मार्ज्जनजलाशिनः ॥” * ॥ जलविशेषे, क्ली । तथा च चिन्तामणिधृतवच- नम् । “नद्यादिनिकटे भूमिर्या भवेद्बालुकामयी । उद्भाव्यते ततो यत्तु तज्जलं विकिरं विदुः ॥ विकिरं शीतलं स्वच्छं निर्द्दोषं लघु च स्मृतम् । तुवरं स्वादु पित्तघ्नं मनाक् कफकरं स्मृतम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकिरः [vikirḥ], 1 A scattered portion or fallen bit.

One who tears or scatters, a bird; कङ्कोलीफलजग्धिमुग्धविकिर- व्याहारिणस्तद्भुवो भागाः Māl.6.19.

A well.

A tree.

A scattered portion of rice (offered to hostile beings in a sacrifiee); उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः Ms.3. 245.

Water trickled through; Suśr.

"https://sa.wiktionary.org/w/index.php?title=विकिरः&oldid=253943" इत्यस्माद् प्रतिप्राप्तम्