विग्रहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विग्रहः, पुं, (विविधं सुखदुःखादिकं गृह्णातीति । वि + ग्रह + अच् । यद्वा, विविधैर्दुःखादिभि- र्गृह्यते इति । वि + ग्रह + “ग्रहवृदृनिश्चि- गमश्च ।” ३ । ३ । ५८ । इति अप् ।) शरीरम् । (यथा, रघुः । ११ । १३ । “विग्रहेण मदनस्य चारुणा सोऽभवत् प्रतिनिधिर्न कर्म्मणा ॥”) युद्धम् । इत्यमरः ॥ (यथा, मनुः । ७ । १६० । “सन्धिञ्च विग्रहञ्चैव यानमासनमेव च । द्वैधीभावं संश्रयञ्च षड्गुणांश्चिन्तयेत् सदा ॥” विरोधमात्रम् । यथा, रघुः । ९ । ४७ । “त्यजत मानमलं वत विग्रहै- र्न पुनरेति गतं चतुरं वयः । परभृताभिरितीव निवेदिते स्मरमते रमते स्म बधूजनः ॥”) विभागः । इति मेदिनी । हे, २३ ॥ (यथा, भागवते । ३ । ३१ । ३ । “मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्ग- विग्रहः । नखलोमास्थिमर्म्माणि लिङ्गच्छिद्रोद्भव- स्त्रिभिः ॥”) वाक्यभेदः । स तु समासवाक्यम् । तत्पर्य्यायः । विस्तरः २ । इत्यमरः ॥ (वीनां पक्षिणां ग्रहो ग्रहणमिति वाक्ये विहङ्गग्रहणम् । यथा, वक्रोक्तिपञ्चाशिकायाम् । ४ । “नो सन्ध्या हितमत्सरा तव तनौ वत्स्याम्यहं सन्धिना न प्रीतासि वरोरु चेत्कथय तत् प्रस्तौमि किं विग्रहम् । कार्य्यं तेन न किञ्चिदस्ति शठ मे वीनां ग्रहे- णेति वो दिश्याद्वः प्रतिबद्धकेलिशिवयोः श्रेयांसि वक्रोक्तयः ॥”) देवविग्रहकरणादिप्रमाणं श्रीमूर्त्तिशब्दे द्रष्टव्यम् ॥

विग्रहः, पुं, क्ली, (विगृह्यन्ते शत्रवो यस्मिन् । वि + ग्रह + अप् ।) युद्धम् । इत्यमरः ॥ (यथा, मनुः । ७ । १७० । “यदा प्रहृष्टा मन्येत सर्व्वास्ताः प्रकृतीर्भृशम् । अत्युच्छ्रितं तथात्मानं तदा कुर्व्वीत विग्रहम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विग्रहः [vigrahḥ], 1 Stretching out, extension, expansion.

Form, figure, shape; यथा लोहस्य निःस्यन्दो निषिक्तो बिम्ब- विग्रहम् Mb.14.18.9.

The body; त्रयी विग्रहवत्येव सम- मध्यात्मविद्यया M.1.14; गूढविग्रहः R.3.39;9.52; Ki.4.11; 12.43.

Resolution, dissolution, analysis, separation (as of a compound word into its component parts); वृत्त्यर्थ- (समासार्थ) -बोधकं वाक्यं विग्रहः.

Quarrel, strife (often, love-quarrel or प्रणयकलह); विग्रहाच्च शयने पराङ्मुखीर्नानुनेतु- मवलाः स तत्वरे R.19.38;9.47; Śi.11.35; शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ Śaṁkarāchārya.

War, hostilities, fighting, battle (opp. संधि); उग्राय विग्रहायास्मै त्वया प्रेषयता ह्यमुम् Śiva B.17.35; one of the six Guṇas or modes of policy; Ms.7.16; see गुण.

Disfavour; अनुग्रहं विग्रहं वा मन्यसे तद्विधेहि नः Bhāg.1.16.59.

A part, portion, division; परिमाणं च कालस्य कल्पलक्षणविग्रहम्.-Comp. -अवरम् the back. -इच्छु a. eager for combat.-ग्रहणम् the assumption of a form.

"https://sa.wiktionary.org/w/index.php?title=विग्रहः&oldid=504319" इत्यस्माद् प्रतिप्राप्तम्