सामग्री पर जाएँ

विजयी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजयी, [न्] त्रि, (विशेषेण जेतुं शीलमस्य । वि + जि + “जिदृक्षिविश्रीति ।” ३ । २ । १५७ । इति इनिः ।) जययुक्तः । यथा, -- “वज्रपञ्जरनामेदं यो रामकवचं पठेत् । स चिरायुः सुखी पुत्त्री विनयी विजयी भवेत् ॥” इति तन्त्रसारः ॥ (पुं, अर्ज्जुनः । यथा, -- “अर्ज्जुनः फाल्गुनी जिष्णुः किरीटी श्वेतवा- हनः । वीभत्सुर्व्विजयी कृष्णः सव्यसाची धनञ्जयः ॥ एतान्यर्ज्जुननामानि प्रातरुत्थाय यः पठेत् । उद्यतेष्वपि शस्त्रेषु हन्ता तस्य न विद्यते ॥” इति सर्व्वजनप्रसिद्धम् ॥)

"https://sa.wiktionary.org/w/index.php?title=विजयी&oldid=165961" इत्यस्माद् प्रतिप्राप्तम्