विजयोत्सव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजयोत्सवः, पुं, (विजयायामुत्सवः ।) आश्विन- शुक्लदशमीविहितभगवदुत्सवविशेषः । यथा, “आश्विनस्य सिते पक्षे दशम्यां विजयोत्सवः । कर्त्तव्यो वैष्णवैः सार्द्धं सर्व्वत्र विजयार्थिना ॥” अथ विजयोत्सवविधिः । “रथमारोप्य देवेशं सर्व्वालङ्कारशोभितम् । सासितूणधनुर्व्वाणपाणिं नक्तञ्चरान्तकम् ॥ स्वलीलया जगत्त्रातुमाविर्भूतं रघूद्वहम् । राजोपचारैः श्रीरामं शमीवृक्षतलं नयेत् ॥ सीताकान्तं शमीयुक्तं भक्तानामभयङ्करम् । अर्च्चयित्वा शमीवृक्षमर्च्चयेद्बिजयाप्तये ॥” तत्र मन्त्रः । “शमी शमयते पापं शमी लोहितकण्टका । धरित्र्यर्ज्जुनबाणानां रामस्य प्रियवादिनी ॥ करिष्यमाणा या यात्रा यथाकालं सुखं मया । तत्र निर्व्विघ्नकर्त्री त्वं भव श्रीरामपूजिता ॥” इति ॥ “गृहीत्वा साक्षतामार्द्रां शमीमूलगतां मृदम् । गीतवादित्रनिर्घोषैस्ततो देवं गृहं नयेत् ॥ कैश्चिदृक्षैस्तत्र भाव्यं कैश्चित् भाव्यञ्च वानरैः । कैश्चिद्रक्तमुखैर्भाव्यं कोशलेन्द्रस्य तुष्टये ॥ निर्ज्जिता राक्षसा दैत्या वैरिणो जगतीतले । रामराज्यं रामराज्यं रामराज्यमिति ब्रुवन् ॥ आनीय स्थापयेद्देवं निजसिंहासने सुखम् । ततो नीराज्य देवेशं प्रणमेद्दण्डवत् भुवि । महाप्रसादवस्त्रादि धारयेत् वैष्णवैः सह ॥ * ॥ इति श्रीविष्णुधर्म्मोक्तानुसारेण व्यलेख्ययम् ॥ विधिः श्रीरामविजयोत्सवस्योत्सवकृत् सताम् ॥ सीता दृष्टेति हनुमद्वाक्यं श्रुत्वाकरोत् प्रभुः । विजयं वानरैः सार्द्धं वासरेऽस्मिन् शमीतलात् ॥” इति श्रीहरिभक्तिविलासे १५ विलासः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजयोत्सव/ विजयो m. " victory festival " , N. of a festival in honour of विष्णुcelebrated on the 10th day of the light half of the month आश्विनCat.

"https://sa.wiktionary.org/w/index.php?title=विजयोत्सव&oldid=256658" इत्यस्माद् प्रतिप्राप्तम्