विडम्बना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विडम्बना, स्त्री, (वि + डम्ब + णिच् + युच् । टाप् ।) अनुकरणम् । (यथा, कुमारे । ४ । १२ । “असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना ॥”) प्रतारणम् । (यथा, पञ्चतन्त्रे । ४ । ४६ । “नो चेदेतेषां सकाशात् विडम्बनां प्राप्य मरि- ष्यसि ॥” * ॥ परिहासः । यथा, कुमारे । ५ । ७० । “इयञ्च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्य्यया । विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥”)

"https://sa.wiktionary.org/w/index.php?title=विडम्बना&oldid=504342" इत्यस्माद् प्रतिप्राप्तम्