विद्रधि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विद्रधिः, पुं, रोगविशेषः । तत्पर्य्यायः । विदरणम् २ हृद्ग्रन्थिः ३ हृद्व्रणः ४ । इति राजनिर्घण्टः ॥ तत्र विद्रधेः संप्राप्तिपूर्ब्बकं सामान्यं लक्षण- माह । “त्वग्रक्तमांसमेदांसि प्रदुष्यास्थिसमाश्रिताः । दोषाः शोथं शनैर्षोरं जनयन्त्युश्रिता भृशम् ॥ महामूलं रुजावन्तं वृत्तं वाप्यथवायतम् । स विद्रधिरिति ख्यातो विज्ञेयः षड्विधश्च सः ॥” अस्थिसमाश्रिता दोषा इति वक्ष्यमाणाद्व्रण- शोथाद्विद्रधेर्भेदार्थम् । यतो व्रणशोथे दोषा- णामस्थिसमाश्रयनियमो नास्ति । घोरं व्रण- शोथाद्दारुणम् । आयतं दीर्घम् ॥ * ॥ षड्- विधत्वं विवृणोति । “पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा । षण्णामपि हि तेषान्तु लक्षणं संप्रचक्ष्यते ॥” * ॥ तत्र वातिकस्य लक्षणमाह । “कृष्णोऽरुणो वा विषमो भृशमत्यर्थवेदनः । चित्रोत्थानप्रपाकश्च विद्रधिर्व्वातसम्भवः ॥” विषमो भृशं क्षणमल्पः क्षणं महान् । चित्रो- कृष्णाजाजी विशाला च धामार्गवफलं तथा । पीतं ह्येते निहन्त्याशु विद्रधीन् कोष्ठसम्भवान् ॥” धामार्गवफलं कोषातकीफलम् । “श्वेतवर्षाभुवो मूलं मूलं वरुणकस्य च । जलेन क्वथितं पीतमन्तर्विद्रधिहृत् परम् ॥ गायत्त्रीत्रिफलानिम्बकटुका मधुकं समम् । त्रिवृत्पटोलमूलाभ्यां चत्वारोऽंशाः पृथक् पृथक् ॥ मसूरान्निस्तुषान् दद्यात् एष क्वाथो घृताज्जयेत् । विद्रधिगुल्मवीसर्पदाहमोहज्वरापहः । तृण्मूर्च्छाच्छर्दिहृद्रोगपित्तासृक्कुष्ठकामलाः ॥” वाग्भटात् । “शिग्रुमूलं जले धौतं पिष्टं वस्त्रेण गालयेत् । तद्रसं मधुना पीत्वा हन्त्यन्तर्विद्रधिं नरः ॥ शोभाञ्जनकनिर्पू हो हिङ्गुसैन्धवसंयुतः । हन्त्यन्तर्विद्रधिं जन्तोः प्रातः प्रातर्निषेवितः ॥” निर्यूहः क्वाथः । इति विद्रध्याधिकारः । इति भावप्रकाशः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विद्रधि स्त्री।
विद्रधिरोगः
समानार्थक:विद्रधि
2।6।56।1।1
व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगन्दराः। श्लीपदं पादवल्मीकं केशघ्नस्त्विन्द्रलुप्तकः। अश्मरी मूत्रकृच्छ्रं स्यात्पूर्वे शुक्रावधेस्त्रिषु॥
पदार्थ-विभागः : , सामान्यम्, अवस्था
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विद्रधि¦ पु॰ वेत्त्यनेन विद् हृदयं रुणद्धि रुध--कि पृषो॰। रोगभेदे। तल्लक्षणादि भावप्र॰ उक्तं यथा
“तत्र विद्रधेः सम्प्राप्तिपूर्वकं सामान्यं लक्षणमाह।
“त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः। दोमाःशोथं शनैर्घोरञ्जनयन्त्युच्छ्रिता भृशम्। महामूलंरुजावन्तं वृत्तं वाप्यथ वायतम्। स विद्रधिरिति ख्यातोविज्ञेयः षड्विधश्च सः” अस्थिसमाश्रिता दोषा इतिवक्ष्यमाणशोथांद् विद्रधेर्भेदार्थम्। यतो व्रणशोथे दोषा-णामस्थिसमाश्रयनियमो नास्ति इति व्रणशोथात् दारु-णम्। आयतन्दीर्घम्। षडविधत्व विवृणोति।
“यथादोषैः समस्तैश्च क्षतेनाप्यसृजा तथा। षणां तेषांतुल्यमेव लक्षणं सम्प्रचक्षते” अथ विशिष्टानि लक्ष-णानि। तत्र वातिकस्य लक्षणमाह
“कृष्णोऽरुखोवा विपमो भृशमत्यर्थवेदनः। चिरोत्थानप्रपाकश्च वि-द्रधिर्वातसम्भवः” विषमो भृशम् क्षणमल्पः क्षणं म-हान्। चिरीत्थानप्रपाकः चिराद्विलम्बादुत्थानमुद्गतिःप्रपाकश्च यस्य स। अथ पैत्तिकमाह
“पक्वोदुम्बर-स{??}शः श्यावो वा ज्वरदाहवान्। क्षिप्रोत्थानप्रपा{??}विद्रधिः पित्तसम्भवः”। अथ{??}ष्मकमाह।
“{??}रा{??}-{??}शः पाण्डुः शीतः{??}ऽल्प{??}दनः।{??}[Page4905-a+ 38] प्रपाकश्च विद्रधिः कफमभवः। तनुपीतासिताश्चैषामा-स्नावाः कमशोमताः”। अथ सान्निपातिकमाह। नाना-वर्णरुजास्वावो घाटालो विषमो महान्। विषमं पच्यतेवापि विद्रधिः सान्निपातिकः”। नाना अनेकविधाः वर्णाःकृष्णरक्तपाण्डुरूपाः। रुजा तोददाहकण्डादिरूपाः{??}वाः तनुपोतसिताः यस्य सः। घाटालः घाटाकोटिःसासास्तीनि घाटालः अत्युच्छ्रिताग्र इत्यर्थः। वि-षमः निम्नोन्नतः। विषम पच्यते चिराचिरगम्भी-रोत्तानोर्द्धानूर्द्ध्वभेदेन विषमं यथा स्यात्तथा पच्यते। अथाभिघातजस्यागन्तोः विद्रधेः सम्प्राप्तिपूर्वकं लक्षणमाह।
“तैस्तैर्भावैरभिहते क्षते वाऽपथ्यकारिणाम्। क्षतोष्मावायुविसूतः सरक्तं, पित्तमीरयेत्। ज्वरस्तृषा च दा-हश्च जायते तस्य देहिनः। आगन्तुर्विद्रधिर्ह्येषः पित्त-विद्रधिलक्षणः”। तैस्तैर्भावैः काष्ठलोष्ट्रपाषाणादिभिःअभिहते यदा रक्तस्रावो भवति। तथाभिहते क्षते कृतेवा अथ वा खड्गशूलादिभिः क्षते यथारक्तस्रावो भवतितथा क्षते कृते क्षतोष्मा। अत्र क्षतशब्देन हतमात्र उ-च्यते तेनाभिहतक्षतयोरुभयोरप्यूष्मा वायुना विसृतःअभिथातात् क्षते रक्तक्षयात् कुपितेन वायुना प्रसृतः। ईरयेत् कोपयेत्। अथ रक्तजमाह
“कृष्णस्फोटावृतः श्या-वस्तीव्रदाहरुजाज्वरः। पित्तविद्रधिलिङ्गस्तु रक्तविद्रधि-रुच्यते” अधिष्ठानविशेषेण लिङ्गविशेष वोधयितुमाभ्य-न्तरान् विद्रधीनाह
“आभ्यन्तरानतस्तूर्द्ध्वं विद्रधीन्परिचक्षते। गुर्वसात्म्यविरुद्वान्नशुष्कशाकाम्लभोजनाः। अतिव्यवायामवेगाघातात्युष्णविदाहिभिः। पृथक् स-म्भूय वा दोषाः कुपिता गुलमरूपिणम्। वल्मीक-वत्समुन्नद्धमन्तः कुर्वन्ति विद्रधिम्। गुद वास्तमुखे नाभ्याकुक्षा वङ्क्षणयोस्तथा। कक्षयोः प्लीह्नि यकृति हदिवा क्लोम्नि चाप्यथ। एषां लिङ्गानि जानीयाद्पाह्यविद्र-विलक्षणैः” सम्भूय वा मिलित्वा वा। समुन्नद्ध सम-मन्तादुन्नतम्। स्थानविशेषेण रूपविशेषमाह
“गुदेवातनिरोधस्तु{??} कृच्छ्राल्पमूत्रता। नाभ्यां हिक्कांजृम्भणे च कुक्षौ भारुतकोपनम्। कटिपृष्ठग्रहस्तीव्रोवङ्क्षणोत्थे तु बिद्रवो। कक्षयोः पार्श्वसङ्कोचः प्लीह्न्यु-कि{??}सावराधनम्। सर्वाङ्गप्रग्रहस्तीव्रो हृदि कासश्च जा-यते। श्वासो यकृति हिक्का च क्लोग्नि पेपींयते पयः”{??}
“नाभेरुपरिजाः पक्वा बान्त्यूर्द्ध्वमितरे{??} यान्ति कवन्ति ऊर्द्ध्वमातात्, इतरे[Page4905-b+ 38] वस्त्यादिजाः अघः गुदात्। नाभिजस्तूभाभ्यां मार्गा-भ्याम्। तथा च हारोतः ऊर्द्ध्वं प्रभिन्नेषु मु{??}न्न-राणां प्रवर्त्ततेऽसृक्सहितो हि पूवः। अधः प्रभि-न्नेषु तु पायुमार्गाद् द्वाभ्यां प्रवृत्तिस्त्विह नाभिजेषु” अथसाध्यत्वादिकमाह
“अधःस्रुतेषु जीवेत्तु स्रुतेषूर्द्ध्वंन जीवति। हन्नाभिवस्तिवर्जषु तेषु भिन्नेषु वाह्यतः। जीवेत्कदाचित् पुरुषो नेतरेषु कदा च न”। हृन्नाभिवस्ति-वर्जेषु प्लीहक्लोमादिजाः तेषु तथाभिन्नेषु न जीवेत्हृदादीनां मर्मत्वात्। अतएव भोजः
“असाध्यो म-र्मजो ज्ञेयः पक्वोऽपक्वश्च विद्रधिः। सन्निपातोत्थितो-ऽप्येवं पक्व एव हि वस्तिजः। त्वगजो नाभेरघोजश्चसाध्यो यश्च समीपजः। अपक्वश्चैव पक्वश्च साध्यो नीपरिनाभितः। आध्मानं बद्वनिष्यन्दं छर्दिहिक्कातृषा-न्वितम्। रुजाश्वाससमायुक्तं विद्रधिर्नाशयेन्नरम्” अथ वाह्यविद्रधोनां साध्यासाध्यत्वमाह
“साध्या विद्र-धयः पञ्च विवर्ज्यः सान्निपातिकः। आमपक्वविदग्धत्वंतेषां ज्ञेयञ्च शोथवत्” शोथवत् वक्ष्यमाणव्रणशोथवत्”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विद्रधि¦ m. (-धिः) Phlegmonoid inflammation; especially deep-seated, or internal abscess. E. विद्र piercing, धा to have, कि aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विद्रधिः [vidradhiḥ], An abscess; त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः । दोषाः शोथं शनैर्घोरं जनयन्त्युच्छ्रिता मृशम् ॥ महामूलं रुजापन्नं वृत्तं वाप्यथ वायतम् । स विद्रधिरिति ख्यातो विज्ञेयः षड्विधश्च सः ॥ Bhāva P. -Comp. -घ्नः, -नाशनः Hyperanthera Moringa (Mar. शेवगा).
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विद्रधि/ वि-द्रधि f. (said to be fr. वि+ दॄ; accord. to others fr. विद्र+ धा)an abscess ( esp. when deep-seated or internal) VarBr2S. Sus3r. etc. ( धीCar. )