सामग्री पर जाएँ

विधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधिः, पुं, (विधति विदधाति विश्वमिति । विध विधाने + “इगुपधात् कित् ।” उणा० ४ । ११९ । इति इन् । स च कित् ।) ब्रह्मा । (यथा, नैषधे । २२ । ४७ । “विधिर्विधत्ते विधुना बधूनां किमाननं काञ्चनसञ्चकेन ॥” * ॥ विधीयेते सुखदुःखे अनेनेति । वि + धा + “उपसर्गे धोः किः ।” ३ । ३ । ९२ । इति किः ।) भाग्यम् । (यथा, मार्कण्डेये । ८ । १८२ । “राज्यनाशं सुहृत्यागो भार्य्यातनयविक्रयः । हरिश्चन्द्रस्य राजर्षेः किं विधे ! न कृतं त्वया ॥”) क्रमः । विधानम् । इत्यमरः ॥ कालः । इति मेदिनी । धे, १७ ॥ विधिवाक्यम् । (यथा, गीतायाम् । १६ । २३ । “यः शास्त्रविधिमुत्सृज्य वर्त्तते कामचारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥”) प्रकारः । नियोगः । इति हेमचन्द्रः ॥ विष्णुः । इति हलायुधः । कर्म्म । इति त्रिकाण्डशेषः ॥ (यथा, देवीपुराणे । “तस्मात् सूर्य्यः शशाङ्कस्य क्षयवृद्धिविधेर्विभुः ॥”) गजान्नम् । इति जटाधरः ॥ वैद्यः । इति राजनिर्घण्टः ॥ यागोपदेशकग्रन्थः । इति भरतधृतकोषः ॥ षड्विधसूत्रलक्षणान्तर्गत- लक्षणविशेषः । यथा, -- “संज्ञा च परिभाषा च विधिर्नियम् एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ॥” अप्राप्तप्रापको विधिः । स तु द्बिविधः । वर्णोत्- पादनरूपोऽभावरूपश्च । वर्णोत्पादनरूपो यथा सहर्णे र्घ इत्यादि । अभावरूपो द्विविधः । नाशो निषेधरूपश्च । नाशविधिर्यथा । लोपो- ऽस्योमाङोरित्यादि । निषेधविधिर्यथा । नाजो- ऽन्त इत्यादि । सामान्यप्राप्तस्य विशेषावधारणं नियमविधिः । यथा । रङो विः सुपि इत्यादि । अन्यधर्म्मस्यान्यत्रारोपणमतिदेशविधिः यथा । इन्वदिक् इत्यादि । पूर्ब्बसूत्रस्थितपदस्य पर- सूत्रेषूपस्थितिरधिकारविधिः । स तु त्रिविधः । “सिंहावलोकिताख्यश्च मण्डूकप्लुतिरेव च । गङ्गाश्रोत इति ख्यातश्चाधिकारास्त्रयो मताः ॥” सिंलावलोकितो यथा । वावगोर्द्दान्ते इत्यस्मात् दान्ते इति पदस्य ऋक्यगित्यन्तेषूपस्थितिः । मण्डूकप्लुतिर्यथा । टाभिस्ङेङसीत्यस्मात् अत इति पदस्य आक्तिमभवि इत्यत्रोपस्थितिः । गङ्गाश्रोतो यथा । लेः सि औ जस् इत्यस्मात् लेरिति पदस्य तद्धितपर्य्यन्तेषूपस्थितिरिति । एवञ्च । “कार्य्यी कार्य्यं निमित्तञ्च त्रिभिः सूत्रमुदा- हृतम् । कदाचित् कार्य्यिकार्य्याभ्यां क्वचित् कार्य्यनिमि- त्ततः ॥ यस्य निर्द्दिश्यते कार्य्यं स कार्यी गदितो बुधैः । गमनस्य रागतः प्राप्तावपि रागाभावात् पक्षतोऽप्राप्तेः । तथा । प्रोक्षितं मांसं भुञ्जीत इत्यादिः परिसङ्ख्याविधिः । विधेयस्य प्रोक्षित- मांसभक्षणस्य च रागतः प्राप्तेः । अङ्गस्य विधिभेदो यथा । शारदीयपूजायामष्टम्या- मुपवसेत् इत्यादिरपूर्ब्बविधिः । अत्र विधेयस्यो- पवासस्य एतदन्यशास्त्रतो रागतो न्यायतो वा क्वक्षिदप्राप्तेः । तथा श्राद्धे भुञ्जीत पितृसेवित- मित्यादिनियमविधिः । विधेयस्य श्राद्धशेष- भोजनस्य रागतः प्राप्तावपि रागाभावात् पक्षतोऽप्राप्तेः । तथा । वृद्धिश्राद्धे प्रातरामन्त्रि- तान् विप्रान् इत्यादिः परिसङ्ख्याविधिः । तत्र विधेयस्य प्रातर्निमन्त्रणस्य तत्प्रतिपक्षस्य पूर्ब्ब- दिनसायं निमन्त्रणस्य च पार्व्वणवन्न्यायतः प्राप्तेरिति स्मृतेरुदाहरणम् । इति धर्म्म- दीपिका ॥ * ॥ न्यायमते विधिर्यथा, -- “प्रवृत्तिः कृतिरेवात्र सा चेच्छातो यतश्च सा । तजज्ञानं विषयस्तस्य विधिस्तज्ज्ञापकोऽथवा ॥” विधिजन्यज्ञानात् प्रवृत्तिर्दृ श्यते सा इच्छातः चिकीर्षातः चिकीर्षा च कृतिसाध्यत्वेष्टसाधनत्व- ज्ञानात् तज्ज्ञानस्य विषयः कार्य्यत्वं इष्टसाधन- त्वञ्च विधिरिति प्राचीनमतम् ॥ स्वमतमाह तज्ज्ञापकोऽथवेति इष्टसाधनत्वानुमापक आप्ताभिप्रायो विधिप्रत्ययार्थः । इति हरि- दासीयकुसुमाञ्जलिः ॥ * ॥ अपि च आश्रयत्व- सम्बन्धन प्रत्ययोपस्थापितेष्टसाधनत्वान्वितस्वार्थ- परपदघटितवाक्यत्वं विधित्वम् । मीमांसकमते इष्टसाधनत्वं कृतिसाध्यत्वञ्च पृथग्विध्यर्थः । इति गदाधरभट्टाचार्य्यकृतविधिस्वरूपः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधि पुं।

ब्रह्मा

समानार्थक:ब्रह्मन्,आत्मभू,सुरज्येष्ठ,परमेष्ठिन्,पितामह,हिरण्यगर्भ,लोकेश,स्वयम्भू,चतुरानन,धातृ,अब्जयोनि,द्रुहिण,विरिञ्चि,कमलासन,स्रष्टृ,प्रजापति,वेधस्,विधातृ,विश्वसृज्,विधि,नाभिजन्मन्,अण्डज,पूर्व,निधन,कमलोद्भव,सदानन्द,रजोमूर्तिन्,सत्यक,हंसवाहन,क,आत्मन्,शम्भु

1।1।17।2।6

धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः। स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृट्विधिः। नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः। सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः॥

जन्य : सनत्कुमारः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

विधि पुं।

प्राक्तनशुभाशुभकर्मः

समानार्थक:दैव,दिष्ट,भागधेय,भाग्य,नियति,विधि,कृतान्त,अनय

1।4।28।1।6

दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः। हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्.।

अवयव : पापम्,शुभम्

पदार्थ-विभागः : , गुणः, अदृष्टम्

विधि पुं।

विधानशास्त्रम्

समानार्थक:कल्प,विधि,क्रम

2।7।39।2।3

पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः। ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ॥

अवयव : आद्यविधिः,गौणविधिः,वेदपाठारम्भविधिः

 : आद्यविधिः, गौणविधिः, वेदपाठारम्भविधिः

पदार्थ-विभागः : , पौरुषेयः

विधि पुं।

विधानम्

समानार्थक:विधि

3।3।100।1।1

विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे। बुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधि¦ पु॰ वि + धा--कि।

१ गजत्स्रष्टरि ब्रह्मणि,

३ भाग्ये

३ क्रमे अमरः
“चिकीर्माकृतिसाध्यत्वहेतुधीविषयो विधि-शब्दश॰ उक्ते प्रवर्त्तनारूपे

४ नियोगे तज्जनके

५ {??}क्येहेमच॰।

६ विष्णो हलाय॰

७ कमणि त्रिका॰।

८ मज-मक्ष्यान्ने जटा॰।

९ वैद्ये राजनि॰।

१० अप्राप्तप्रामकरूपेवाक्यभेदे, व्याकरणोक्ते

११ सूत्रभेदे। तत्र व्याकरणवि-घिर्निरूप्यते।
“संज्ञा च परिभाषा च विधिर्नियम[Page4907-b+ 38] एव च। अतिदेशोऽधिकारश्च” षड्विधमूत्रलक्षणमित्युक्तेः। षट्विधिभेदाः तत्र
“तुन्याप्य प्रयत्नं सवर्णम्” पा॰ सवर्णमंज्ञापरिभाषा तच्छब्दे

४२

४९ पृ॰ उक्ता। अप्राप्तप्रापको विधिःयथा
“अकः सवर्णे दीर्घः” पा॰ इत्यादि। अत्र सवर्णे परेपूर्वस्य दीर्घस्याप्राप्तेस्तत्प्रापकत्वात् तथात्वम्। स च द्वि-विधः वर्णाद्युत्पादकोऽभावरूपश्च। तत्र वर्णोत्पादक उक्तः{??}भावोऽपि द्विविधः लोपरूपो निषेधरूपश्च तत्र
“लोपो-ऽभ्यासस्येति” पा॰ नाशरूपः।
“नाभ्यस्ताच्छतुरित्यादौ” निषेधरूपः। सामान्यप्राप्तस्य विशेषावधारको नियमःयथा
“रात्मस्यैव” पा॰ इत्यादि। अन्थधर्मस्याम्यत्रारो-पणविधिरतिदेशविधिःयथा पुंवद्भावादिः। पूर्वसूत्रस्त्रप-दादेरन्यत्रोपस्थितिरधिकारविधिः। स च त्रिविधः
“सिंहावलोकितं चैव मण्डूकप्लुतमेव वा। गङ्गा-प्रवाहवच्चापि ह्यधिकारस्त्रिधा मतः”। अधिकारशब्दे

१२

७ पृ॰ दृश्यम्। विधिश्च विनियोगरूपतया शब्दश॰ प्र॰निरूपितो यथा
“नेह कृत्यात्मकं विधानम्। आख्यातमात्रस्य तद्बोध-समर्थत्वात् किन्तु प्रवर्त्तकचिकीर्षायां यतप्रकारकज्ञानस्यहेतुत्वं स तथा, तादृशञ्च कृतिसाध्यत्वमिष्टसाधवत्वम्बलवदनिष्टाननुवन्धिवञ्च पत्येकमेय, यागपाकादि-धर्मिकतन्निश्चयादेव यागादिधर्मिकचिकीर्षोत्पत्त्या तत्रप्रवृत्तेः। एवञ्च यजेतेत्यादौ यागः कृतिसाध्यः इष्ट-साधनं बलवदनिष्टाननुबन्धी चेत्याकारको बोधः” अ-धिकं तत्र दृश्यम्। मीनांसकमते विधिस्वरूपभेदादिकंलौगाक्षिभास्करेण दर्शितं यथा
“तत्राज्ञातार्थज्ञापको वेदभागो विधि। म च तादृश-प्रयोजनवदर्थविधानेनार्थवान् तादृशं चार्थं प्रमाणान्त-रेणप्रापुं विधत्ते। यथान्धिष्ठोत्रं जुहुयात् स्वर्ग-काम इति विधिर्मानान्तरेणाप्राप्तस्थर्गप्रयोजनवद्धोमंविधत्ते। अग्निहोत्रहोमेन खर्गं भावयेदिति बाक्या-र्थबोधः”।
“यत्र कर्म माना{??}रेण प्राप्तं, तत्र तदुद्दे-शेन गुणमात्रं विघत्ते। यथा दध्ना जुहोतीत्यत्रहोमस्याग्निहोत्रं जुहुयादित्यनेन प्राप्तत्वाद्धोमोद्देशेनदधिमात्रविधानं दध्ना होमं भावयेदिति। यत्र तू-भयमप्राप्तं तत्र विशिष्टं विधत्तेः यथा सोमेन यजे{??}-त्यत्र सोमयागयोरप्राप्तत्वात् सोम{??}शिष्टविधानम्। सामपदे मत्वर्थलक्षणया सोमवता यागेनेष्टं भावयेदितिवाक्यार्थकोधः। न चाभर्वविधाने वाक्यभेदः प्रत्ये-[Page4908-a+ 38]{??}मुगयस्याविधानात्। न च ज्योतिष्टोमेन स्वर्गकामोयजेतति विपिप्राप्तोद्देशेन सोमरूपगुणविधानमेवास्तुसोमेन यागं भावयेदिति, किं मत्वर्थलक्षणयेति वा-च्यम्। तस्याधिकारंविधित्वेगोत्पत्तिविधित्वासम्भवात्। ननूद्भिदा यजेत पशुकाम इत्यत्रेव ज्यातिष्टोमेनेत्यत्रःप्यु-त्पत्यधिकारविधित्वमस्त्विति चेन्न, दृष्टान्ते उत्पत्तिबा-क्यान्तराभावेनान्यथानुपपत्त्या तथात्वाश्रयणात्। किञ्चज्योतिष्टोमेनेत्यस्योभयविधित्वे तेनैव यागस्तस्य फल-सम्बन्धोऽपि बोधनीय इति सुदृढो वाक्यभेदस्तद्वरं सोम-पदे मत्वर्फलक्षणया वि{??}विधानम्। स च विधिश्चतुर्विधःउत्पात्तविधिर्विनियोगविधिः, अधिकारविधिः, प्रयोगवि-धिश्चेति। तत्र कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः। यथाग्निहोत्र जुहोतीति। अत्र च विधौ कर्मणःकरणत्वेनान्वयः आग्नहोत्रहोमेनेष्टं भागयेदिति। ननु यागस्य द्वे रूपे द्रव्यं दवता च{??} तथाच रूपाश्र-वणे अग्निद्वोत्रं जुहोतीति कथमुपत्तिविधिः अग्नि-होत्रशब्दस्य तु तत्प्रख्यन्यायेन नामधेयत्वादिति चेन्न{??}पा{??}वणेऽप्यश्योत्मत्तिविधिन्वात्। अन्ध{??}-द्दध्ना जहोतीति अयमवोत्पत्तिविधिः स्यात्। तया चा-ग्निहात्र जहोतीति वाक्यमनर्थकं स्यात्। अङ्गप्रधान-सम्बन्धवाधको विधिर्विनियोगविधिः। यथा दघ्ना जुहो-तीति। स हि तृतीयया प्रतिपन्नाङ्गभावं दध्ना होम-सम्बन्धं विवत्ते दध्ना हीमं भावयेदिति। गुणविघौच धात्वर्थस्य साध्यत्वेनैवान्वयः। क्वचिदाश्रयत्वेनापियथा दध्नन्द्रियकामस्य जुहुयादित्यत्र दधिकरणत्वेने-न्द्रियं भावयेत् तच्च किंनिष्ठमित्य काङायां सन्निधि-प्राप्तहोम आश्रवत्वेनान्वेति। एतस्य विधेः सहकारि-मूतानि षट्प्रमाणानि श्रुतिलिङ्गवाक्यप्रकरणस्थान-समाख्यारूपाणि। एतत्सहकृतेनानेन विधिनाङ्गत्वं परो-दृशप्रवृत्तकृतिसाव्यत्वरूपं परार्थ्यापरपर्य्यायं ज्ञाप्यते” ततः तत्सहकाराणि श्रुत्यादीनि निरूपितानि तत्रदृश्यानि
“तदेवं निरूपितानि सङ्क्षेपतः श्रुत्यादीनि षट्प्रमाणानि। एतत् सहकृतेन विनियोगविधिना समिदा-दिभिरुपक्रम्य
“दर्शपूणमासाभ्यां यजेत” इत्येवं रूपेणयानि विनियाज्यन्ते तान्यङ्गानि द्विविधानि सिद्धरू-पाणि, कियारूपाणि चेति। तत्र सिद्धा{??} जाति-दव्यसस्तादीनि तानि च दृष्टार्थान्येव। क्रियारूपाणिच। द्वबिवानि। गुणकर्माणि प्रधानकर्माणि च। एता-[Page4908-b+ 38] न्येव सन्निपत्योपकारकाणि आरादुपकारकाणीतिचोच्यते। कर्माङ्गद्रव्याद्युद्देशेन विधीयमानं कर्म सान्न-पत्योपकारकम्। यथाऽवघातप्रोक्षणादि तच्च दृष्टार्थ-मदृष्टार्थं दृष्टादृष्टार्थं चेति। दृष्टार्थमवर्घातादि अदृ-ष्टार्थं प्रोक्षणादि। दृष्टादृष्टार्थं पशुपुरोडाशादि। तद्धि द्रव्यत्यागांशेनैवादृष्टं देवतोद्देशेन च देवतास्मरणंदृष्टं करोति। द्रव्याद्यनुद्दिश्य केवलं विधीयमानकर्म त्वारादुपकारकम्। यथा प्रयाजादि। आरादुपका-रकञ्च परमापूर्वोत्पत्तावेवोपयुज्यते। सन्निपत्योपकारकन्तुद्रव्यदेवतासंस्कारद्वारा यागस्वरूपेऽप्युपयुज्यते। इदमेवचाश्रयिकर्मेत्युच्यते। तदेवं निरूपितः सङ्खेपतो वि-नियोगविधिः। प्रयोगप्राशुभाववोधको विधिः प्रयाग-विधिः। स चाङ्गवाक्यैकतापन्नः प्रधानविधिरेव। स हिसाङ्गं प्रधानमर्नुष्ठापयन्विलम्बे प्रमाणाभावादविलम्बा-परपर्य्याय प्रयोगप्राशुभावं विधत्ते। न च तदवि-लम्येऽपि प्रमाणाभाव इति वाच्य वि{??}म्बे ह्यङ्गप्रधान-विध्येकवाक्यतावगततत्साहित्यानुपपत्तिः विकस्तेन कि-यमाणयोः पदार्थयोः इदमनेन सहकतमिति साहिन्य-व्यवहाराभावात्। स चाविलन्वी नियते क्रम आश्रि-यमाणे भवति। अन्यथा हि किमेतदनन्तरमेतत् कर्त्त-व्यमेददनन्तरं वेति प्रयोगविक्षेपापत्तेः। अतः प्रयोग-विधिरेव स्वविधेयप्रयोगप्राशुभावसिद्ध्यर्थं नियतं क्रममपिपदार्थविशेषणतया विधत्ते। अतएवाङ्गानां क्रमबोधकोविधिः प्रयोगविधिरित्यपि लक्षणम्”।
“तदेवं संक्षेपतो निरूपितः षड्विध क्रमनिरूपणेनप्रयोगविधिः। कर्भजन्यफलस्वास्यबोधकोविधिरधिकार-विधिः। कर्मजन्यफलखान्यं च कर्मसन्यफलभोक्तृत्वम्। स च यजेत स्वर्गकाम इत्यादिरूपः, र्गमुद्दिश्य यागंविदधतानेन स्वगकामस्य यागजन्यफलभोक्तृत्वं प्रति-पाद्यते
“यस्याहिताग्नेरग्निर्गृहान्दहेत्सोऽग्नयेऽणामव-तेऽष्टाकपालं पुरोडाशं निर्वपेत” इत्यादिना दाहादौ नि-मित्ते कर्म विदघता निमित्तवत कर्मजन्यपापक्षयरूप-फलस्वाम्यं प्रतिपाद्यते। एवम्
“अहरहः सन्ध्यामुपा-सीत” इत्यादिना शचिविहितकालजीविनः सन्ध्योपासना-जन्यप्रत्यवायपरिहाररूपफलस्वाम्यं बोध्यते। तच्च फल-स्वाम्यं तस्यैव योऽधिकारविशिष्टः। अधिकारश्च स एवयद्विविवाक्ये पुरषविशेषणत्वेन श्रू{??} यथा काम्येकर्मणि फलकामना। नैमित्तिके कर्मणि निमित्तनिश्चयः। [Page4909-a+ 38] नित्ये सन्ध्योपासनादौ शुचिविहितकालजीवित्वम् अत-एव
“राजा राजसूयेन स्वाराज्यकामोयजेत” इत्यनेन वि-षिवाठ्येन स्वाराज्यमुद्दिश्य राजसूयं विदधता न स्व-राज्यकाममात्रस्य फलभोक्तृत्वं प्रतिपाद्यते किन्तु राज्ञःसत स्वाराज्यकामस्यैव राजसूयस्यापि अधिकारि-विशेषणत्वेन श्रवणात्। किञ्चित् तु पुरुषविशेषणत्वेना-श्रुतमप्यधिकारिविशेषणं यथाध्ययनविधिसिद्धा विद्याक्रतुविधीनामर्थज्ञानापेक्षत्वेनाध्ययनविधिसिद्धार्थज्ञानवन्त-प्रत्येव प्रवृत्तेः। एवमग्निसाध्यकर्मसु आधानसिद्धाग्नि-मता अग्निसाध्यकर्मणा। मग्न्यपेक्षत्वेन तद्विघीनामाधान-सिद्धाग्निमन्तं प्रत्येव प्रवृत्तेः। एवं सामर्थ्यमपि आख्या-तानामर्थं ब्रुवतां शक्ति सहकारिणोति न्यायात् स-मर्थं प्रत्येव विधिप्रवृत्तेः। तदेवं निरूपितो विधिः”। विधिरसायने च विधिभेदोऽन्यथा दर्शितो यथा
“विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति। तत्र चा-न्यत्र च प्राप्तौ परिसंख्येति गोयते” तत्तच्छब्दे विशेषोदृश्यः।

१२ अर्थालङ्कारभेदे च। अलङ्कारशब्दे

४०

३ पृ॰दृश्यम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधि¦ m. (-धिः)
1. A sacred precept, an act or rite prescribed by the Ve4das, for effecting certain consequences.
2. Rule, form, formula.
3. Fate, luck, destiny.
4. BRAHMA
4.
5. Time.
6. Order, injunction, command.
7. A name of VISHN'U.
8. Act, action, general or parti- cular.
9. A text, a sentence in some authority of law or religion, prescribing any particular act or observance.
10. Kind, sort, manner.
11. Fodder, food for elephants or horses.
12. A sacred work, a Sha4s4tra, scripture, the law, (by metonymy.)
13. Creation.
14. A physician. E. वि before, घा to have; or विध् to rule, aff. कि |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधिः [vidhiḥ], [विधा-कि]

Doing, performance, practice, an act or action; ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य Bh.3.41; योगविधि R.8.22; अस्याः सर्गविधौ V.1.8; लेखाविधि Māl. 1.35.

Method, manner, way, means, mode; निः- साराल्पफलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमैः Pt.1.376.

A rule, commandment, any precept which enjoins something for the first time (as distinguished from नियम and परिसंख्या q. q. v. v.); विधिरत्यन्तमप्राप्तौ; चिकीर्षाकृतिसाध्यत्व- हेतुधीविषयो विधिः; वहति विधिहुतं या हविः Ś.1.1.

A sacred precept or rule, ordinance, injunction, law, a sacred command, religious commandment (opp. अर्थवाद which means 'an explanatory statement coupled with legends and illustrations'; see अर्थवाद); प्रवृत्तिपरं वाक्यं विधिः, as ज्योतिष्टोमेन स्वर्गकामो यजेत; श्रद्धा वित्तं विधिश्चेति त्रितयं तत् समागतम् Ś.7.29; R.2.16.

Any religious act or ceremony, a rite, ceremony; स चेत् स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः R.3.45;1.34.

Behaviour, conduct.

Condition; V.4.

Creation, formation; सामग्ऱ्यविधौ Ku.3.28; कल्याणी विधिषु विचित्रता विधातुः Ki.7.7.

The creator.

Fate, destiny, luck; विधौ वामारम्भे मम समुचितैषा परिणतिः Māl.4.4.

The food of elephants.

Time.

A physician.

N. of Viṣṇu.

Use, application.

A means, expedient for; अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम् Mb.12. 236.13.

Any act, action. -Comp. -अन्तः The end or the concluding portion of an injunctive text, all the other portion of the प्रयोगविधि (pertaining to an act) except the प्रधान or मुख्य विधि which is called विध्यादि; विध्यन्तो वा प्रकृतिवत्˚ MS.7.4.1; सोमेन यजेत इति विध्यादिः । सौमिकमपि ब्राह्मणं विध्यन्तः ŚB. ibid. Also see विध्यादि.-आदिः m. the beginning of a विधि or injunction; the main or प्रधान injunction; वेदे$पि दर्शपूर्णमासाभ्यां यजेत इति विध्यादिः । विध्यन्तो$पि प्रधानविधिवर्जितं कृत्स्नं पौरोडाशिकं ब्राह्मणम् ŚB. on MS.7.4.1. -कर a. executing commands; विधिकरीरिमा वीर मुह्यतीरधरसीधुनाप्याययस्व नः Bhāg.1.31.8.-m. a servant; सो$यं ते विधिकर ईश विप्रशप्तस्तस्येदं निधन- मनुग्रहाय विद्मः Bhāg.7.8.57. -घ्नः a. disregarding prescribed rites or rules. -ज्ञ a. knowing the ritual. (-ज्ञः) a Brāhmaṇa versed in the ritual, a ritualist.-दर्शकः a priest at a sacrifice who sees that everything is done according to the precepts, and corrects any deviation from them. -दृष्ट, -विहित a. prescribed by rule, enjoined by law.

देशकः = विधिदर्शक above.

a preceptor, teacher. -द्वैधम् diversity of rules, variance of precept or commandment. -पूर्वकम् ind. according to rule. -प्रयोगः application of a rule.

यज्ञः a sacrifice performed according to rule; Ms.2. 85-86.

a ceremonial act of worship.

योगः the force or influence of fate.

the observance of a rule; अनेन विधियोगेन कर्तव्यांशप्रकल्पना Ms.8.211. -लोपः transgression of a commandment. -वधूः f. an epithet of Sarasvatī. -विपर्ययः misfortune. -विभक्तिः f. a potential termination; a termination which lays down an injunction; विधिविभक्तिं हि विधायिकां लिङं मन्यमानाः श्लोकमिमं समामनन्ति ŚB. on MS.4.3.3. The श्लोक referred to here is; कुर्यात् क्रियेत कर्तव्यं भवेत् स्यादिति पञ्चमम् । एतत् स्यात् सर्ववेदेषु नियतं विधिलक्षणम् ॥ This श्लोक speaks of the five forms which the विधिविभक्ति takes in the Vedic literature.-हीन a. devoid of rule, unauthorised, irregular.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधि m. (for 2. See. p. 968 , col. 1) a worshipper , one who does homage AitBr.

विधि m. (for 1. See. p. 967 , col. 2) a rule , formula , injunction , ordinance , statute , precept , law , direction ( esp. for the performance of a rite as given in the ब्राह्मणportion of the वेद, which accord. to Sa1y. consists of two parts , 1. विधि, " precepts or commandments " e.g. यजेत, " he ought to sacrifice " , कुर्यात्, " he ought to perform " ; 2. अर्थ-वाद, " explanatory statements " as to the origin of rites and use of the मन्त्रs , mixed up with legends and illustrations) Gr2S3rS. Mn. MBh. etc. (See. IW. 24 )

विधि m. a grammatical rule or precept Pa1n2. 1-1 , 57 ; 72

विधि m. any prescribed act or rite or ceremony Mn. Ka1lid. Pan5cat.

विधि m. use , employment , application Car.

विधि m. method , manner or way of acting , mode of life , conduct , behaviour Mn. MBh. etc.

विधि m. a means , expedient for( dat. loc. , or comp. ; अध्वविधिना, by means of i.e. along the road) Hariv. Ka1v. Pur. Hit.

विधि m. any act or action , performance , accomplishment , contrivance , work , business( ifc. often pleonastically e.g. मथन-विधि, the [act of] disturbing) Ya1jn5. S3ak. etc.

विधि m. creation (also pl. ) Kum. Kir.

विधि m. fate , destiny MBh. Ka1v. etc.

विधि m. the creator Pan5car.

विधि m. N. of ब्रह्माS3ak. Naish.

विधि m. of विष्णुL.

विधि m. of अग्निat the प्रा-यश्चित्तGr2ihya1s.

विधि m. a physician L. time L.

विधि m. fodder , food for elephants or horses L.

विधि f. N. of a goddess Cat.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a god of the ten branches of the Rohita गण. Br. IV. 1. ८६; वा. १००. ९१. [page३-236+ २४]
(II)--a name of ब्रह्मा. Br. IV. २८. ८९.
(III)--Prescriptions in the शास्त्रस्; they are two- fold, one with मन्त्र, and the other without मन्त्र। M. १८३. ४४.
(IV)--(एत्य्) one of the ten लक्षणस् of the ब्राह्मण। वा. ५९. १३६.
(V)--an Ajitadeva. वा. ६७. ३४.
(VI)--the अरणि from which to get sacred fire. वा. ११२. ५०.
"https://sa.wiktionary.org/w/index.php?title=विधि&oldid=504373" इत्यस्माद् प्रतिप्राप्तम्