विधेयः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधेयः, त्रि, विधातुं शक्यः । (वि + धा + “अचो यत् ।” ३ । १ । ९७ । इति यत् । “ईद्यति ।” ६ । ४ । ६५ । इति आत ईत् ।) वाक्यस्थः । तत्पर्य्यायः । विनयग्राही २ वचनेस्थितः ३ आश्रवः ४ । इत्य- मरः ॥ (यथा, महाभारते । ५ । २३ । १३ । “कर्णोऽमात्यः कुशली तात कच्चित् सुयोधनो यस्य मन्दो विधेयः ॥”) विधिजन्यबोधविषयः । यथा, -- “अनुवाद्यमनुक्त्वा तु न विधेयमुदीरयेत् । न ह्यलब्धास्पदं किञ्चित् कुत्रचित् प्रतितिष्ठति ॥” इत्येकादशीतत्त्वम् ॥ अपि च । प्रमाणान्तरासन्निहितं कर्म्म प्रथमं बुद्धौ न विषयीभवति शब्दादेव तस्य कर्म्मण उपस्थितिरित्युपादेये विधेये कर्म्मणि पूजादौ शुचितत्कालजीविनः कर्म्माधिकारात् प्रमाणा- न्तरलभ्यत्वेनाविधेयत्वात्तिथ्यादिर्गुणः । इति तिथ्यादितत्त्वम् ॥ (कर्त्तव्यम् । यथा, बृहत्- संहितायाम् । ९५ । ४९ । “द्बात्रिंशत्प्रविभक्ते दिक्चक्रे यद्यथा समु- द्दिष्टम् ॥ तत्तथा विधेयं गुणदोषफलं यियासूनाम् ॥” * ॥ अधीनः । यथा, रघुः । १९ । ४ । “सन्निवेश्य सचिवेष्वतः परं स्त्रीविधेयनवयौवनोऽभवत् ॥” तथा च तत्रैव । ७ । ६२ । “तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=विधेयः&oldid=508829" इत्यस्माद् प्रतिप्राप्तम्