विनायक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनायकः, पुं, (विशिष्टो नायकः ।) बुद्धः । गणेशः । इत्यमरः ॥ (यथा, कथासरित्सागरे । ३० । ५५ । “अस्तीह प्रमदोद्याने तरुमण्डलमध्यगः । दृष्टप्रभावो वरदो देवदेवो विनायकः ॥”) गरुडः । विघ्नः । (यथा, हरिवंशे । १८१ । ६५ । “राक्षसाश्च पिसाचाश्च भूतानि च विना- यकाः ॥”) गुरुः । इति मेदिनी । के, ११२ ॥ * ॥ विना- यकगणो यथा, -- “गाङ्गेयो विष्णवश्चैव द्बौ विज्ञेयौ विनायकौ ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥ विनायकस्योत्पत्तिर्यथा, -- प्रजापाल उवाच । “कथं गणपतेर्जन्म मूर्त्तिमत्त्वञ्च सत्तम ! । एतन्मे संशयं छिन्धि धृतिकष्टं व्यवस्थितम् ॥ महातपा उवाच । पूर्ब्बं देवगणाः सर्व्वे ऋषयश्च तपोधनाः । कार्य्यारम्भे यथा प्राप्ताः सिद्धिं ते च न संशयः ॥ सन्मागांवस्थिषु यथा सिध्यन्ते विघ्नतः क्रियाः । असत्कारिषु सर्व्वेषु तद्बदेवमविघ्नतः ॥ ततो देवाः सपितरश्चिन्तयामासुराजसा । असत्कार्य्येषु विघ्नार्थे सर्व्व एवाभ्यमन्त्रयन् ॥ ततस्तेषा तदा मन्त्रं कुर्व्वतां त्रिदिवौकसाम् । बभूव बुद्धिर्गमने रुद्रं प्रति महामते ॥ ते तत्र रुद्रमामन्त्र्य कैलासनिलयं गुरुम् । ऊचुः सविनयं सर्व्वे प्रणिपातपुरःसरम् ॥ देवा ऊचुः । देवदेव महादेव शूलपाणे त्रिलोचन । अस्य ध्यानम् । “मुक्ताकाञ्चननीलकुन्दघुसृणच्छायैस्त्रिनेत्रा- न्वितै- र्नागास्यैर्हरिवाहनं शशिधरं हेरम्बमर्कप्रभम् । दृप्तं दानमभीतिमोदकरदान् टङ्के शिरोऽक्षा- त्मिकां मालां मुद्गरमङ्कुशं त्रिशिखकं दोर्भिर्द्दधानं भजे ॥” अस्य पुरश्चरणं त्रिलक्षसंख्यकजपः ॥ * ॥ मन्त्रा- न्तरम् । गं क्षिप्रप्रसादनाय हृत् । तथा च निबन्धे । “संवर्त्तको नेत्रयुतः पार्श्वो वह्न्यासने स्थितः । प्रसादनाय हृन्मन्त्रः स्वबीजाद्यो दशाक्षरः ॥” अस्य ध्यानम् । “पाशाङ्कुशौ कल्पलतां विषाणं दधत् स्वशुण्डाहितबीजपूरः । रक्तस्त्रिनेत्रस्तरुणेन्दुमौलि- र्हारोज्ज्वलो हस्तिमुखोऽवतान्नः ॥” अस्य पुरश्चरणं लक्षजपः ॥ * ॥ अथ हरिद्रा- गणेशमन्त्रः । “पञ्चान्तको धरासंस्थो बिन्दुभूषितमस्तकः । एकाक्षरो महामन्त्रः सर्व्वकामफलप्रदः ॥” ध्यानन्तु । “हरिद्राभं चतुर्ब्बाहुं हारिद्रवसनं विभुम् । पाशाङ्कुशधरं देवं मोदकं दन्तमेव च ॥” अस्य पुरश्चरणं चतुर्लक्षजपः । इति तन्त्र- सारः ॥ * ॥ (पीठस्थानविशेषः । यथा, देवीभागवते । ७ । ३० । ७१ । “करवीरे महालक्ष्मीरुमादेवी विनायके । आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ॥” विगतो नायको यस्येति विग्रहे अनाथे, त्रि ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनायक पुं।

बुद्धः

समानार्थक:सर्वज्ञ,सुगत,बुद्ध,धर्मराज,तथागत,समन्तभद्र,भगवत्,मारजित्,लोकजित्,जिन,षडभिज्ञ,दशबल,अद्वयवादिन्,विनायक,मुनीन्द्र,श्रीघन,शास्तृ,मुनि

1।1।14।1।4

षडभिज्ञो दशबलोऽद्वयवादी विनायकः। मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

विनायक पुं।

गणेशः

समानार्थक:विनायक,विघ्नराज,द्वैमातुर,गणाधिप,एकदन्त,हेरम्ब,लम्बोदर,गजानन

1।1।38।1।1

विनायको विघ्नराजद्वैमातुरगणाधिपाः। अप्येकदन्तहेरम्बलम्बोदरगजाननाः॥

जनक : शिवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनायक¦ पु॰ वि + नी--ण्वुल्।

१ गणेशे

२ बुद्धे अमरः

३ विघ्ने

४ गुरौ च।

६ त॰।

५ गरुडे मेदि॰।

६ गरुडपत्न्यांस्त्री शब्दमा॰ टाप् कापि अत इत्त्वम्। विनायकश्च कर्मविघ्नसिद्ध्यर्थमीश्वरेण नियुक्तः वेवभेदःयथोक्तं याज्ञवलक्येन
“विनायकः कर्मविघ्नसिद्ध्यर्थं वि-नियोजितः। गणानामाधिपत्य च रुद्रेण ब्रह्मणा तथा”
“कर्मणां पुरुषार्घसाधनानां विघ्नसिद्ध्यर्थं स्वरूपफलसाधनत्वविघातसिद्ध्यर्घं नियोजितो नियुक्तः” मिता॰। तेनोपसृष्टस्य लक्षणान्याह म एव
“तेनोपसृष्टो य-स्तस्य लक्षणानि निबोधत। स्वप्नेऽवगाहतेऽत्यर्थं जलंमुण्डाःश्च पश्यति। कपायवासमश्चैव क्रव्यादांश्चाधिरो-हति। अन्त्यजैर्गर्दमैरुष्ट्रैः सहैकत्रावतिष्ठति। व्रजत्यपितथा{??}नंमन्यतेऽनुगतं परेः” तस्य प्रत्यक्षलक्षणान्याहस एव
“विसना विकलारम्भः संसीदत्यनिमित्ततः। तेनोपसृष्टो लभते न राज्यं राजनन्दनः। कुमारी नच भर्त्तारमपत्यं नर्भमकना। आचार्य्यत्वं श्रोत्रियश्च नशिष्योऽध्ययनं तथा। वणिगलाभं न चाप्नोति कृषि-ञ्चापि कृषीवलः” तन्निवारणविघिश्च तत्रोक्तो दृश्यः।
“विनायका विघ्नकारा महोग्राः” रक्षामन्त्रः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनायक¦ m. (-कः)
1. A Bud'dha, a Baud'dha, deified teacher.
2. GAN4E4- S4A.
3. GARUD4A, the bird and vehicle of VISHN4U.
4. A Guru, or spiritual preceptor.
5. An obstacle, an impediment or difficulty. f. (-यिका) The wife of GARUD4A. E. वि before, नी to conduct, aff. ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनायकः [vināyakḥ], 1 A remover (of obstacles).

N. of Gaṇeśa; विनायकं प्रकुर्वाणो रचयामास वानरम् Subhāṣ.

A Buddhist deified teacher.

N. of Garuḍa.

An obstacle, impediment.

A spiritual preceptor.

A leader, guide.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनायक/ वि-नायक etc. See. under वि-नी.

विनायक/ वि-नायक mf( इका)n. taking away , removing MW.

विनायक/ वि-नायक m. " Remover (of obstacles) " , N. of गणे-शYa1jn5. VarBr2S. etc.

विनायक/ वि-नायक m. a leader , guide MBh. R.

विनायक/ वि-नायक m. a Guru or spiritual preceptor L.

विनायक/ वि-नायक m. a बुद्धL.

विनायक/ वि-नायक m. N. of गरुडL.

विनायक/ वि-नायक m. an obstacle , impediment L.

विनायक/ वि-नायक m. = अनाथ(?) L.

विनायक/ वि-नायक m. N. of various authors etc. Cat.

विनायक/ वि-नायक m. pl. a partic. class of demons Ma1nGr2. MBh. etc.

विनायक/ वि-नायक m. pl. N. of partic. formulas recited over weapons R.

विनायक/ वि-नायक m. = नन्द-पण्ड्Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of विघ्नेश्वर or विघ्नेश (s.v.) फलकम्:F1:  भा. XI. २७. २९.फलकम्:/F in charge of कैलास hill फलकम्:F2:  Br. II. २५. ३०.फलकम्:/F a graha. फलकम्:F3:  Ib. III. 7. १६१.फलकम्:/F Asked परशु- राम not to enter शिव's abode as he was with उमा. When he forced entry, विनायक made him wander all the seven worlds. परशुराम knocked his teeth with his axe to the enragement of पार्वती. शिव thought of कृष्ण who appeared on the scene with राधा. कृष्ण said that विनायक should be remembered on all auspicious and other occasions to bring out the desired results. The शैव Gan2es4a became वैष्णव: फलकम्:F4:  Ib. III. ४१. १७-32, ch. ४२, ४४. २३.फलकम्:/F wor- shipped in all ceremonials as preliminary, in the भीष्म dva1- दशि, in grahabali; फलकम्:F5:  M. ५८. २६. ६९. २७; ९३. १६.फलकम्:/F when उमा made out of earth an elephant- faced doll and threw it in the Ganges, it became a huge figure, adopted as son both by उमा and गन्गा; came to be known as गान्गेय and गजानन; invested with overlord- ship of all विनायकस्. फलकम्:F6:  Ib. १५४. ५०५; २३०. 8.फलकम्:/F Icon of, with मूषिक mount ऋद्धि and Buddhi on either side; worship of; फलकम्:F7:  Ib. २६०. १९, ५२-5: २६१. ३८: २६६, ४२; २६९. ५६; २७४; १५; २८९. 7.फलकम्:/F elephant shaped. फलकम्:F8:  वा. ३०. ३११; ५४. ३५; १०६. ५७; १०९. २३.फलकम्:/F
(II)--a तीर्थ sacred to उमा. M. १३. ४१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VINĀYAKA I : A devatā of the Gaṇas (guards of Śiva). (Mahābhārata, Anuśāsana Parva, Chapter 150, Stanza 25).


_______________________________
*9th word in right half of page 856 (+offset) in original book.

VINĀYAKA II : Gaṇapati.


_______________________________
*10th word in right half of page 856 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विनायक&oldid=504379" इत्यस्माद् प्रतिप्राप्तम्