विनीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनीतः, त्रि, (वि + नी + क्तः ।) विनयान्वितः । विनयः शास्त्रतः संस्कारः इन्द्रिययमो वा । तत्पर्य्यायः । निभृतः २ प्रश्रितः ३ । इत्यमर- भरतौ ॥ (यथा, रघुवंशे । १४ । ७५ । “तपस्विसंसर्गविनीतसत्त्वे तपोवने वीतभया वसास्मिन् ॥”) जितेन्द्रियः । (यथा, तन्त्रसारे । “शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेश- वान् ॥”) अपनीतः । (यथा, महाभारते । ७ । ११० । ५५ । “विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः ॥”) हृतः । इति मेदिनीकारहेमचन्द्रौ ॥ क्षिप्तः । इत्यजयपालः ॥ कृतदण्डः । इति स्मृतिः ॥ (अनुद्धतः । यथा, मनौ । ९ । ४१ । “तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना ॥”)

विनीतः, पुं, (वि + नी + क्तः ।) सुवहाश्वः । तत्पर्य्यायः । साधुवाही २ । इत्यमरः । सुष्ठु- वाहनशीलकः ३ । इति शब्दरत्नावली ॥ (यथा, महाभारते । ७ । ११० । ५६ । “तांस्तदा रूप्यवर्णाभान् विनीतान् शीध्र- गामिनः ॥”) बणिक् । इति मेदिनी । ते, १५४ ॥ दमनकवृक्षः । (अस्य पर्य्यायो यथा, -- “उक्तो दमनको दान्तो मुनिपुत्त्रस्तपोधनः । गन्धोत्कटे ब्रह्मजटो विनीतः फलपत्रकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) शिक्षितवृषभादिः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनीत पुं।

सम्यग्गतिमान्_वाजिः

समानार्थक:विनीत,साधुवाहिन्

2।8।44।2।3

वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः। आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

विनीत वि।

विनययुक्तः

समानार्थक:निभृत,विनीत,प्रश्रित

3।1।25।1।4

वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः। धृष्टे धृष्णग्वियातश्च प्रगल्भः प्रतिभान्विते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनीत¦ त्रि॰ वि + नी--क्त।

१ विनययुक्ते

२ कृतदण्डे

३ क्षिप्तेअमरः

४ अपनीते

५ निभृते च।

६ जितेन्द्रिये

७ हृतेच मेदि॰।

८ सुशिक्षिताश्वे अमरः।

९ मदनवृक्षे च पु॰

१० शिक्षितवृषादौ राजनि॰

११ वणिजि पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनीत¦ mfn. (-तः-ता-तं)
1. Modest, humble, unassuming, unpretending.
2. Compliant, governable, tractable.
3. Placid, meek, virtuous, gentle, having the passions restrained, and the senses under sub- jection.
4. Well-behaved, decent, decorous.
5. Taken away.
6. Trained, (as a horse or ox, &c.)
7. Thrown, sent, dismissed.
8. Lovely, handsome.
9. Led, conveyed.
10. Chastised, punished.
11. Plain, neat, (in dress, &c.) m. (-तः)
1. A horse trained for the manege.
2. A merchant, a trader. E. वि before, नी to guide, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनीत [vinīta], p. p.

Taken away, removed.

Welltrained, educated, disciplined.

Refined, well-behaved.

Modest, humble, meek, gentle.

Decent, decorous, gentlemanly.

Sent away, dismissed.

Tamed, broken in.

Plain, simple (as a dress).

Having the passions under control, self-subdued.

Chastised, punished.

Tractable, governable.

Lovely, handsome.

Stretched, spread; शष्पवृस्यां विनीतायामिच्छाम्यहमुपासितुम् Rām.3.43.2. (See नी with वि also).

तः A trained horse.

A trader. -Comp. -आत्मन् a. humble, lowly; विनीतात्मा हि नृपतिर्न विनश्यति कर्हिचित् Ms.7.39. -वेषः plain dress; विनीतवेषेण प्रवेष्टव्यानि तपोवनानि Ś.1.15-16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनीत/ वि-नीत mfn. led or taken away , removed etc.

विनीत/ वि-नीत mfn. stretched , extended R.

विनीत/ वि-नीत mfn. tamed , trained , educated , well-behaved , humble , modest Mn. MBh. etc.

विनीत/ वि-नीत mfn. versed in , acquainted or familiar with( loc. or comp. ) Ya1jn5. R. etc.

विनीत/ वि-नीत mfn. performed , accomplished MBh.

विनीत/ वि-नीत mfn. one who has subdued his passions L.

विनीत/ वि-नीत mfn. lovely , handsome W.

विनीत/ वि-नीत mfn. plain , neat (in dress etc. ) A.

विनीत/ वि-नीत m. a trained horse L.

विनीत/ वि-नीत m. a merchant , trader L.

विनीत/ वि-नीत m. N. of a son of पुलस्त्यVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Uttama Manu. Br. II. ३६. ४०.
(II)--the third son of प्रीती and Pulastya. वा. २८. २२.
"https://sa.wiktionary.org/w/index.php?title=विनीत&oldid=437391" इत्यस्माद् प्रतिप्राप्तम्