विनोद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनोदः, पुं, (वि + नुद + घञ् ।) कौतूहलम् । इति हलायुधः ॥ (यथा, कथासरित्सागरे । १५ । १२५ । “वाधते तञ्च नैकव्यात् सर्व्वं स मगधेश्वरः । तत्तत्र रक्षाहेतोश्च विनोदायतनस्य ताम् ॥”) क्रीडा । इति भूरिप्रयोगः ॥ (यथा, भाग- वते । ३ । १६ । २४ । “नैतावता त्र्यधिपतेर्वत विश्वभर्त्तु- स्तेजःक्षत तव न तस्य स ते विनोदः ॥” अपनयनम् । यथा, शिशुपालवधे । १ । ४८ ॥ “विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशैः समं पुनः ॥” प्रमोदः । यथा, हितोपदेशे । “काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन च मूर्खाणां निद्रया कलहेन वा ॥”) आलिङ्गनविशेषः । तल्लक्षणं यथा । नायको नायिकाया दक्षिणपादं वामपादं वा स्वमध्य- देशे स्वदक्षिणपादं वामपादं वा नायिकामध्य- देशे निधाय वक्षसि वक्षः ओष्ठे ओष्ठं दत्त्वा यदाश्निषति तत् । इति कामशास्त्रम् ॥ राज- गृहविशेषः । यथा, -- “दीर्घे त्रयो राजहस्ताः प्रसरे द्वौ प्रतिष्ठितौ । विनोद एव द्वाराणि त्रिंशत् कोष्ठद्वयं भवेत् ॥” इति युक्तिकल्पतरुः ॥ “द्वादशैते गृहान् वक्ष्ये तेषां लक्षणमग्रतः । सुनन्दः सर्व्वतोभद्रो भव्यो नान्दीमुखस्तथा ॥ विनोदश्च विलासश्च विजयो विमलस्तथा । रङ्गः केलिर्जयो वीरो द्वादशैते प्रकीर्त्तिताः ॥” इति भविष्योत्तरपुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनोद¦ पु॰ वि + नुद--घञ्।

१ कौतूहले हला॰।

२ क्रोडायां

३ खण्डने च।

४ गृहभेदे
“दीर्घे त्रयोदशहस्ताः प्रमा-रतो द्वौ प्रथितौ। विनोद एष द्वाराणि त्रिंशत्कोष्ठ-द्वयं भवेत्” युक्तिक॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनोद¦ m. (-दः)
1. Eagerness, vehemence.
2. Play, sport, pastime.
3. Dismissing, abandoning.
4. Diversion, interest, interesting pursuit or occupation.
5. Pleasure, gratification.
6. Driving away, re- moving. E. वि before, नुद् to order, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनोदः [vinōdḥ], 1 Removing, driving away; श्रमविनोद; विनोद- मिच्छन्नथ दर्पजन्मनः

A diversion, an amusement, any interesting or amusing pursuit or occupation; प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः Me.89; मिथ्यैव व्यसनं वदन्ति मृगया- मीदृग्विनोदः कुतः Ś.2.5.

Play, sport, pastime.

Eagerness, vehement desire.

Pleasure, happiness, gratification; विलपनविनोदो$प्यसुलभः U.3.3; जनयतु रसिक- जनेषु मनोरमरतिरसभावविनोदम् Gīt.12.

A particular mode of sexual enjoyment.

A kind of house. -Comp. -रसिक a. addicted to pleasure. -स्थानम् ground for pleasure or enjoyment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनोद/ वि-नोद m. driving away , removal VarBr2S. Katha1s.

विनोद/ वि-नोद m. diversion , sport , pastime , pleasure , playing or amusing one's self with( comp. ) Ka1v. Katha1s. Pan5cat. etc. (697306 दायind. for pleasure)

विनोद/ वि-नोद m. eagerness , vehemence L.

विनोद/ वि-नोद m. a kind of embrace L.

विनोद/ वि-नोद m. a kind of palace L.

विनोद/ वि-नोद m. N. of wk. on music

"https://sa.wiktionary.org/w/index.php?title=विनोद&oldid=504387" इत्यस्माद् प्रतिप्राप्तम्