विपणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपणिः, पुं स्त्री, (विपण्यतेऽस्मिन्निति । वि + पण + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।) पण्यविक्रयशाला । इति हला- युधः ॥ हट्टः । इत्यन्ये । विक्रयार्थप्रसारित- नानाद्रव्यायां बणिग्वीथ्यां वाणियाविथी इति वाजार इति च ख्यातायामिति केचित् । हट्टमण्डपः । इति केचित् । हट्टमध्यस्थपण्य- विक्रयवीथी । इति केचित् । इति भरतः ॥ तत्पर्य्यायः । पण्यवीथिका २ । इत्यमरः ॥ आपणः ३ पण्यवीथी ४ पण्यम् ५ । इति रभसः ॥ निषद्या ६ बणिक्पथम् ७ । इत्यमर- दत्तः ॥ विपणम् ८ वीथी ९ । इति कोषः ॥ “निषद्या विपणिः पण्यवीथिका त्वापणिस्तथा । पण्यविक्रयशालायां भवेदेतच्चतुष्टयम् ॥” इति शब्दरत्नावली ॥ “विपणिः पण्यवीथ्याञ्च भवेदापणपण्ययोः ।” इति मेदिनी । णे, ७८ ॥ (यथा, महाभारते । ९ । ३५ । ३० । “विपण्यापणपण्यानां नानाजनशतैर्व्वृतः ॥” बाणिज्यम् । यथा, मनौ । १० । ११६ । “विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः । धृतिर्भैक्ष्यं कुसीदञ्च दश जीवनहेतवः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपणि स्त्री-पुं।

क्रय्यवस्तुशालापङ्क्तिः

समानार्थक:विपणि,पण्यवीथिका

2।2।2।2।3

तच्छाखानगरं वेशो वेश्याजनसमाश्रयः। आपणस्तु निषद्यायां विपणिः पण्यवीथिका॥

अवयव : क्रय्यवस्तुशाला

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

विपणि स्त्री।

वणिक्पथः

समानार्थक:विपणि,निगम

3।3।52।1।1

वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी। करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपणि(णी)¦ पुंस्त्री॰ वि + पण--इन् स्त्रीत्वपक्षे वा ङीप्।

१ पण्यविक्रयशालायाम् (हाटचाला)

२ हट्टे च अमरः। क्रये मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपणि¦ mf. (-णिः-णी)
1. A place where things are sold, a shop, stall.
2. Trade, traffic.
3. A fair, a market place.
4. The street of a market.
5. An article or commodity for sale. E. वि before, पण् to transact business, aff. इन्, and fem. aff. ङीष् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपणिः [vipaṇiḥ] णी [ṇī], णी f.

A market, market-place, stall; हा हा नश्यति मन्मथस्य विपणिः सौभाग्यपण्याकरः Mk.8.38; Śi.5.24; R.16.41.

An article or commodity for sale.

Trade, traffic; Ms.1.116. -Comp. -गत a. being on the market. -जीविका subsistence by traffic.-पथः a shop-street.

"https://sa.wiktionary.org/w/index.php?title=विपणि&oldid=262835" इत्यस्माद् प्रतिप्राप्तम्