विभक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभक्तः, त्रि, (वि + भज् + क्तः ।) प्राप्तविभागः । विभिन्नः । पृथक् । यथा । बृहस्पतिः । “पित्रा सहविभक्ता ये सापत्न्या वा सहोदराः ॥ जघन्यजाश्च ये तेषां पितृभागहरास्तु ते । अनीशः पूर्ब्बजः पित्र्ये भ्रातृभागे विभक्तजः ॥” विभक्तजो विभागानन्तरं गर्भाधानेन जातः ॥ अपि च । व्यासः । “भ्रातॄणां जीवतोः पित्रोः सहवासो विधीयते । तदभावे विभक्तानां धर्म्मस्तेषां विवर्द्धते ॥” विभक्तानां स्वमात्रधने वैदिककर्म्मकरणात्तन्मा- म्रधर्म्मत्वेन तद्वृद्धिरित्यर्थः । “विभक्ता अविभक्ता वा सपिण्डाः स्थावरे समाः । एको ह्यनीशः सर्व्वत्र दानाधमनविक्रये ॥” अपि च । “दानग्रहणपश्वन्नगृहक्षेत्रपरिग्रहाः । विभक्तानां पृथक् ज्ञेयाः पाकधर्म्मागमव्ययाः ॥ साक्षित्वं प्रातिभाव्यञ्च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुर्य्युर्नाविभक्ताः परस्परम् ॥ येषामेताः क्रिया लोके प्रवर्त्तन्ते स्वऋक्थतः । (पुं, कार्त्तिकेयः । यथा, महाभारते । ३ । १३१ । ६ । “षष्ठीप्रियश्च धर्म्मात्मा पवित्रो मातृवत्सलः । कन्याभर्त्ता विभक्तश्च स्वाहेयो रेवतीसुतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभक्त¦ त्रि॰ वि + भज--क्त।

१ पृथक्कृते

२ विभिन्ने कृत-विभागे च

३ भाव क्त।

३ विभागे

४ भेदे न॰।
“पञ्चमीविभक्ते” पा॰। यस्य विभागः कृतः

५ तादृशे धने
“अविभक्तंस्थावरं यत् सवषामेव तत् भवेत्। विभक्तं स्थावरंग्राह्यं नान्योदर्य्यैः कथञ्चन” यमवचनम्। तदस्यास्तिअच्। येन धनस्य विभागःकृतस्तस्मिन्

६ जने तत्र। विभक्तधर्मादिकं दायभागादौ दर्शितं यथा
“भ्रातॄणां जीवतोः पित्रोः सहवासो विधीयते। तदभावे विभक्तानां धर्मस्तेषां विवर्द्धते”
“विभक्तानां स्व-मात्रधनेन वैदिककरणातन्मात्रधर्मत्वेन तद्वृद्धिः” दाय॰ त॰ रघु॰।
“दानग्रहणपश्वन्नगृहक्षेत्रपरिग्रहाः। विभक्तानां पृथग् ज्ञेयाः पाकधर्मागमव्ययाः। साक्षित्वंप्रातिभाव्यञ्च दानं ग्रहणमेव च। विभक्ता भ्रातरःकुर्युर्नाविभक्ताः परस्परम्। येषामेताः क्रिया लोकेप्रवर्त्तन्ते स्वरिक्यतः। विभक्तानवगच्छेयुर्लेख्यमप्य-न्तरेण तान्” नारदः
“भ्रातृनामथ दम्पत्योः पितृः पुत्रस्यचैव हि। प्रातिभाव्यमृणं साक्ष्यमविभक्ते न तद्भवेत्” याज्ञ॰।
“बन्धूनासविभक्तानां भोगं नैव प्रदापयेत्” [Page4913-b+ 38] कात्या
“भ्रातॄणामविभक्तानामेको धर्म प्रवर्त्तते। विभागे सति धर्मोऽपि भवेत् तेषां पृथक् पृथक्” कात्या॰
“अविभक्ता विभक्ता वा कुर्युः श्राद्धञ्च दैविकम्। मघा-सु च तथान्यत्र नाधिकार पृथग् विना” श्रा॰ त॰ धृत-वचनम्।
“वहवः स्युर्यदा पुत्राः पितुरेकत्रवासिनः। सर्वेषां तु मतं कृत्वा ज्येष्ठेनैव तु यत् कृतम्। द्रव्येणचाविभक्तेन मर्वैरेव कृतं भवेत्” शु॰ त॰।
“अविभक्ताविभक्ता वा सपिण्डाः स्थावरे समाः। एको ह्यनीशःसर्वत्र दानाधमनविक्रये” नारदः।
“एतत् दुर्वृत्त-पुरुषविक्रयविषयमिति” दाय॰ त॰ रघु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Divided, portioned, partitioned.
2. Separa- ted, parted.
3. Dividing, sharing, a partner.
4. Distinct.
5. Dif- ferent, multifarious.
6. Retired, isolated.
7. Symmetrical.
8. Orna- mental. E. वि severally, भज् to divide, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभक्त [vibhakta], p. p.

Divided, partitioned (as property &c.).

Divided, separated in interest, as in विभक्ता भ्रातरः; विभक्ताः सहजीवन्तो विभजेरन् पुनर्यदि Ms.9.21.

Parted, separated, made distinct; Śi.1.3; वायवीयैर्विगण्यन्ते विभक्ताः परमाणवः Y.3.14.

Different, multifarious.

Retired, secluded.

Regular, symmetrical.

Ornamented.

Measured. -क्तः N. of Kārtikeya.

क्तम् Solitude, retirement.

A share.

Property (divided).

Separation. -Comp. -जः a son born after partition of the family-property (between his parents and brothers).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभक्त/ वि-भक्त mfn. divided , distributed among( instr. ). AV. etc. (698180 तेind. after a partition , Ya1jn. ii , 126 )

विभक्त/ वि-भक्त mfn. one who has received his share Mn. ix , 210 ; 215

विभक्त/ वि-भक्त mfn. one who has caused a partition to be made BhP. ( Sch. )

विभक्त/ वि-भक्त mfn. parted , separated by( instr. or comp. ) MBh. Ka1v. etc.

विभक्त/ वि-भक्त mfn. separated from i.e. without( instr. ) Ya1jn5. iii , 103

विभक्त/ वि-भक्त mfn. isolated , secluded R.

विभक्त/ वि-भक्त mfn. distinct , different , various , manifold MBh. Ka1v. etc.

विभक्त/ वि-भक्त mfn. divided into regular parts , harmonious , symmetrical ib.

विभक्त/ वि-भक्त mfn. ornamented , decorated Hariv. Katha1s.

विभक्त/ वि-भक्त mfn. divided (arithmetically) Su1ryas.

विभक्त/ वि-भक्त m. N. of स्कन्दMBh.

विभक्त/ वि-भक्त n. isolation , seclusion , solitude Pa1n2. 2-3 , 42

"https://sa.wiktionary.org/w/index.php?title=विभक्त&oldid=264816" इत्यस्माद् प्रतिप्राप्तम्