सामग्री पर जाएँ

विमातृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमाता, [ऋ] स्त्री, (विरुद्धा माता ।) मातृ- सपत्नी । सत्मा इति भाषा । सा कनीयस्यपि नमस्या । यथा, स्मृतिः । “मातुः पितुः कनीयांसं न नमेद् वयसाधिकः । नमस्कुर्य्यात् गुरोः पत्नीं भ्रातृजायां विमा- तरम ॥” स्मृत्यर्थसारे । “स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ताः ॥” यतः पत्युर्व्वयसा तास्त्रियो वृद्धा अतः कनिष्ठा अपि नमस्याः । इति मलमासतत्त्वत् ॥ * ॥ विमातृरजोनिवृत्तावपि पितामहधनविभाग- कर्त्तव्यत्वम् । यथा बृहस्पतिः । “पित्रोरभावे भ्रातॄणां विभागः संप्रदर्शितः । मातुर्निवृत्ते रजसि जीवतोरपि शस्यते ॥” अत्र मातृपदं विमातृपरमपि पुत्त्रान्तरोत्पत्ति- सम्भावनातौल्यात् । इति दायतत्त्वम् ॥ * ॥ अस्या अनंशित्वं यथा । सोदरभ्रातृभिर्विभागे क्रियमाणे मात्रे पुत्त्रसमांशो दातव्यः । समांश- हारिणी माता इति वचनात्मातृपदस्य जननी- परत्वात् न सपत्नीमातृपरत्वमपि । सकृच्छ्रुतस्य मुख्यगौणत्वानुपपत्तेः । इति दायभागः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमातृ¦ स्त्री विरुद्धा माता। मातृसपत्न्याम्।
“मातुःपितुः कनीयांसं न नमेद्वयसाधिकः। नमस्कुर्य्यात्गुरोः पत्नीं भ्रातृजायां विमातरम्” म॰ त॰ स्मृतिः। तत्रैव स्मृत्यर्यसारे
“स्त्रियो नमस्या वृद्धाश्च वयसापत्युरेव ताः”।
“यतः पत्युर्वयसा ताः स्त्रियो वृद्धाः अतःकनिष्ठा अपि अपि नमस्याः” म॰ त॰ रघु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमातृ¦ f. (-ता) A step-mother, a father's wife. E. वि different, मातृ mother.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमातृ [vimātṛ], f. A step-mother. -Comp. -ज- a step-mother's son; (Kull. on Ms.9.118).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमातृ/ वि--मातृ f. a stepmother( g. शुभ्रा-दि)

"https://sa.wiktionary.org/w/index.php?title=विमातृ&oldid=266019" इत्यस्माद् प्रतिप्राप्तम्