विविक्तम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विविक्तम्, त्रि, (वि + विच + क्तः ।) पवित्रम् । विजनम् । इत्यमरः ॥ (यथा, गीतायाम् । १३ । १० । “विविक्तदेशसेवित्वमरतिर्ज्जनसंसदि ॥”) असम्पृक्तः । (यथा, माघे । ११ । १७ । “पुनरुषसि विविक्तैर्म्मातरिश्वावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां रजोभिः ॥”) विवेकी । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=विविक्तम्&oldid=167009" इत्यस्माद् प्रतिप्राप्तम्