विशेषः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विशेषः, पुं, (वि + शिष + घञ् ।) प्रभेदः । (यथा, मनुः । ९ । २६ । “प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः । स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥”) प्रकारः । इति जटाधरः ॥ व्यक्तिः । इति हेमचन्द्रः ॥ तिलकः । इति हारावली ॥ सप्तपदार्थान्तर्गतपदार्थविशेषः । यथा, -- “द्रव्यं गुणास्तथा कर्म सामान्यं सविशेषकम् । समवायस्तथाभावः पदार्थाः सप्त कीर्त्तिताः ॥” इति भाषापरिच्छेदः ॥ विशेषं निरूपयति । अन्त्यो नित्यद्रव्यवृत्तिर्विशेषः परिकीर्त्तितः । अन्तेऽवसाने वर्त्तते इति अन्त्यः यदपेक्षया विशेषो नास्तीत्यर्थः । घटपटादीनां द्व्यणुकपर्य्यन्तानां तत्तदवयवभेदात् परस्परभेदः । परमाणूनां भेदको विशेष एव स तु स्वत एव व्यावृत्तः । तेन तत्र विशेषान्तरापेक्षा नास्ति इत्यर्थः । इति सिद्धान्तमुक्ता- वली ॥ * ॥ अलङ्कारप्रभेदः । यथा, -- “विशेषः ख्यातमाधारं विनाप्याषेयवर्णनम् । गते सूर्य्येऽपि द्वीपस्थास्तमश्छिन्दन्ति तत्कराः ॥ १ विशेषः सोऽपि यद्येकं वस्त्वनेकत्र वर्ण्यते । अन्तर्बहिः पुरः पश्चात् सर्व्वदिश्यपि सैव मे ॥ २ ॥ किञ्चिदारम्भतोऽशक्यवस्त्वन्तरकृतिश्च सः । त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणम् ॥” ३ इति चन्द्रालोकः ॥ (पृथिवी । यथा, भागवते । २ । ५ । २९ । “विशेषस्तु विकुर्व्वाणादम्भसो गन्धवानभूत् ॥” तथाच तत्रैव । ३ । ११ । ४० । “विकारैः सहितो युक्तैर्विशेषादिभिरावृतः ॥” अतिशयिते, त्रि । यथा, रघुः । २ । १४ । “शशाम वृष्ट्यापि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः ॥”)