विष

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष, इर् लि ञ औ ङ व्याप्तौ । इति कवि- कल्पद्रुमः ॥ (ह्वा०-उभ०-आत्म०-इत्येके-सक०- अनिट् ।) इर्, अविषत् अविक्षत् । लि ञ, वेवेष्टि वेविष्टे । औ, वेष्टा । ङ, वेविष्टे । उभय- पदीत्यन्ये । अफलवत् कर्त्तरि आत्मने पदार्थो ङकारः । इति दुर्गादासः ॥

विष, उ सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् । क्त्वावेट् ।) उ, वेषित्वा विष्ट्वा । इति दुर्गादासः ॥

विष, ग औ विप्रयोगे । इति कविकल्पद्रुमः ॥ (क्र्या०-पर०-अक०-अनिट् ।) ग, विष्णाति ज्ञानी पुत्त्रादिभ्यो वियुक्तः स्यात् इत्यर्थः । औ, अविक्षत् । दन्त्यान्तोऽयमिति । विष्णुव्युत्पत्तौ सुभूतिः । इति दुर्गादासः ॥

विषम्, क्ली, (विष सेचने + कः ।) जलम् । इत्य- मरः । पद्मकेशरम् । इति तट्टीकायां मुकुटः ॥ वोलम् । वत्सनाभः । सामान्यविषम् । इति राजनिर्घण्टः ॥

विषः, पुं, क्ली, (विष + कः ।) विषम् । तत्पर्य्यायः । क्ष्वेडः २ गरलम् ३ । इत्यमरः ॥ आहेयम् ४ अमृतम् ५ गरदम् ६ कालकूटम् ७ कलाकूलम् ८ हारिद्रम् ९ रक्तशृङ्गिकम् १० नीलम् ११ गरम् १२ घोरम् १३ हालाहलम् १४ हला- हलम् १५ शृङ्गी १६ भूगरम् १७ । इति राज- निर्घण्टः ॥ जाङ्गलम् १८ तीक्ष्णम् १९ रसः २० रसायनम् २१ गरः २२ । इति जटाधरः ॥ जङ्गुलम् २३ जाङ्गुलम् २४ । इति शब्दरत्ना- वली ॥ काकोलः २५ वत्सनाभः २६ प्रदीपनः २७ शौल्किकेयः २८ ब्रह्मपुत्त्रः २९ । इति रत्नमाला ॥ तद्भेदा यथा, -- “पुंसि क्लीवे च काकोलकालकूटहलाहलाः । सौराष्ट्रिकः शौल्किकेयो ब्रह्मपुत्त्रः प्रदीपनः ॥ दारदो वत्सनाभश्च विषभेदा अमी नव ॥” इति पातालवर्गे अमरः ॥ * ॥ अपि च । “विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हला- हलः । वत्सनाभः कालकूटो ब्रह्मपुत्त्रः प्रदीपनः ॥ अपि च । “दुरधीता विषं विद्या अजीर्णे भोजनं विषम् । विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ॥ विषं चंक्रमणं रात्रौ विषं राज्ञोऽनुकूलता । विषं स्त्रियोऽप्यन्यहृदो विषं व्याधिरवीक्षितः ॥” इति चाणक्यम् ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष पुं-नपुं।

विषम्

समानार्थक:क्ष्वेड,गरल,विष,तीक्ष्ण,रस

1।8।9।3।5

त्रिष्वाहेयं विषास्थ्यादि स्फटायां तु फणा द्वयोः। समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम्.।

वृत्तिवान् : विषहारिवैद्यः

 : स्थावरविषभेदाः

पदार्थ-विभागः : , द्रव्यम्

विष नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

3।3।224।1।1

पुम्भावे तत्क्रियायां च पौरुषं विषमप्सु च। उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष¦ व्याप्तौ जु॰ उभ॰ सक॰ अनिट्। वेवेष्टि वेविष्टे इरित्अविषत् अविक्षत् त। विष्णुः।

विष¦ विप्रयोगे क्र्या॰ पर॰ अक॰ अनिट्। विष्णाति अविक्षत्

विष¦ सेचने भ्वा॰ पर॰ सक॰ अनिट्। वेषति अविष्टत्।

विष¦ न॰ विष--क।

१ जले अमरः

२ पद्मवेशरे, रायमुकुटः।

३ गन्धरसे बोले

४ वत्सनाभे--विषे च

५ गरलमात्रे पुंन॰राजनि॰।

६ मृणाले पु॰ अमरः। गरलरूपविषस्य नामलक्षणादिकं भावप्र॰ उक्तं यथा
“विषं तु गरलः क्ष्वेड-स्तस्य भेदानुदाहरे। वत्सनानाभः सहारिद्रः सक्तु-कश्च प्रदीपनः। सौराष्ट्रिकः शृङ्गिकश्च कालकूटस्तथैवच। हालाहलो ब्रह्मपुत्रो विषभेदा अमी नव”। तत्रवत्सनाभस्य स्वरूपनिरूपणम्।
“सिन्दुवारसदृक्पत्रोवत्सनाभ्याकृतिस्तथा। यत्पार्श्वेन तरोर्वृद्धिर्वत्स नाभःस भाषितः”। अथ हारिद्रस्य स्वरूपनिरूपणम्
“हरिद्र तुल्यमूलो यो हारिद्रः स उदाहृतः”। अथसक्तुकस्य स्वरूपम्
“यद्ग्रन्थिः सक्तुकेनेव पूर्णमध्यःस सक्तुकः”। अथ प्रदीपनस्य स्वरूपम्
“वर्णतो लो-हितो यः स्याद्दीप्तिमान् दहनप्रभः। महादाहकरःपूर्वैः कथिमः स प्रदीपनः”। अथ सौराष्ट्रिकस्य स्वरू-पम्
“सराष्ट्रविशये यः स्यात् स सौराष्ट्रिक उच्यते”। अथशृङ्गिकस्य स्वरूपम्
“यस्मिन् गोशृङ्गके यद्धे दुग्धम्भवतिलोहितम्। स शृङ्गिक इति प्रोक्तो द्रव्यतत्त्वविशा-रदैः”। अथ कालकूटस्य स्वरूपम्
“देवासुररणे देवै-र्हतस्य पृथुमालिनः। दैत्यस्य रुधिराज्जातस्तरुरश्वत्थसन्निभः। निर्यासः कालकूटोऽस्य मुनिभिः परिकी-[Page4927-a+ 38] र्त्तितः। सोऽहिक्षेत्रे शृङ्गवेरे कोङ्कणे मलये भवेत्” अथ हालाहलस्य स्वरूपम्
“गोस्तनाभफलो गुच्छ-स्तालपत्रच्छदस्तथा। तेजसा यस्य दह्यन्ते समीपस्थाद्रुमादयः। असौ हालाहलोज्ञेयः किष्किन्धायां हि-मालवे। दक्षिणाब्धितटे देशे कोङ्कणेऽपि च जायते”। अथ ब्रह्मपुत्रस्य स्वरूपम्
“वर्णतः कपिलो यः स्यात्तथाभवति सारतः। ब्रह्मपुत्रः स विज्ञेयो जायते मलया-चले। ब्राह्मणः पाण्डुरस्तेषु क्षत्रियो लोहितप्रभः। वैश्यः पीतोऽसितः शूद्रो विष उक्तश्चतुर्विधः। रसायनेविषं विप्रं क्षत्रियं देहपुष्टये। वैश्यं कुष्ठविनाशायशूद्रं दद्यात् वधाय हि”। (एते च स्थावरविषाः)तेषां शोधनविधिः तत्रैव स्थानान्तरे
“गोमूत्रे त्रिदिनंस्थाप्यं विषं तेन विशुद्ध्यति। रक्तसर्षपतैलाक्तं तथाधार्य्यञ्च वाससि। ये गुणा गरले प्रोक्तास्ते स्युर्हीनाविशोधनात्। तस्माद्विषं प्रयोगे तु शोधयित्वा प्रयोज-येत्”। अथ विषस्य गुणाः
“विषं प्राणहरं प्रोक्तंव्यवायि च विकाशि च। आग्नेयं वातकफहृत् योग-वाहि महावहम्”। व्यवायि सकलकायगुणव्यापनपूर्व-कपाकगमनशीलम्। विकाशि ओजःशोषणपूर्वकसन्धि-बन्धशिथिलीकरणशीलम्। आग्नेयम् अधिकाग्न्यंशम्। योगवाहि संसर्गिगुणग्राहकम्। मदावहं तमोगुण-प्राधान्येन बुद्धिविध्वंसकम्।
“तदेव युक्तियुक्तन्तु प्राण-दायि रसायनम्। योगवाहि परं वातश्लेष्मजित् सन्नि-पातहृत्”। अथोपविषाणां निरूपणम्
“अर्कक्षीरं स्नुही-क्षीरं लाङ्गली करवीरकः। गुञ्जाहिफेनोधत्तूरः सप्तोपविषजातयः”। एतेषां शोधनं चिन्त्यं गुणास्तत्र तत्रद्रष्टव्याः”। तत्र विषस्य द्वैविध्यमाह
“स्थावरं जङ्गमञ्चैव द्विविघंविषमुच्यते। दशाधिष्ठानमाद्यं तु द्वितोय षोडषाश्र-यम”। स्थावरविषस्य दशाश्रयानाह
“मूलं पत्रं फलंपुष्पं त्वक् क्षीरं सारमेब च। निर्यासो धातवः कन्दःस्थावरस्याश्रया दश”। तद्यथा मूलविषं करवीरादि। पत्रविषं विषपत्रिकादि, फलविषं कर्कोटकादि, पुष्पविषंवेत्रादि, त्वक्सारनिर्य्यासविषाणि करम्भादीनि क्षीरविषंस्नुह्यादि धातुविषं हरितालादि कन्दविषं वत्सनाभ-सक्तुकादि। जङ्गमविषस्य षोडशाश्रयानाह
“दृष्टि-निःश्वासदंष्ट्रा च नखमूत्रमलानि च। शुक्रं लाला-नखस्पर्शः सदंशं स्वावमर्दितम्। गुदास्थिपित्तशुक्राणि[Page4927-b+ 38] दश षट् जङ्गमाश्रयाः”। तद्यथा दृष्टिनिःश्वासविषाःदिव्याः सर्पाः, दंष्ट्राविषाः मौमसर्पाः दंष्ट्रानखविषाव्याघ्रादयः, मूत्रपुरीषविषाः गृहगोधिकादयः शुक्रविषामूषिकादयः, लालाविषाः उच्चिटिकादयः, लालास्पर्शमूत्र-पुरीषार्त्तवशुक्रमुखसन्दंशदंष्ट्रास्पर्शावमर्दितगुदपुरीषविषा-श्चित्रशीर्षादयः, अस्थिविषाः सर्पादयः, पित्तविषाः शकु-लमत्स्यादयः, शूकविषाः भ्रमरादयः। स्थावरविषाणांसामान्यानां कार्य्याण्याह। तत्र मूलविषस्य कार्य्यमाह
“उद्वेष्टनं मूलविषैर्मोहः प्रलपनं तथा”। पत्रविषस्यकार्य्यभाह
“जृम्भणं वेपनं श्वासो नृणां पत्रविषैर्भवेत्”। फलविषस्य कार्य्यमाह
“शुष्कशोथः फलविषैर्दाहोद्वेषश्चमोजने”। पुष्पविषस्य कार्य्यमाह
“भवेत् पुष्पविषैश्छर्दि-राध्मानं मूर्च्छनं तथा”। त्वक्सारनिर्य्यासकार्य्याण्याह
“त्वक्सारनिर्य्यासविषैरुपभुक्तैर्भवन्ति हि। आस्यदौर्ग-न्ध्यपारुष्यशिरोरुक्कफसंश्रयाः”। क्षीरविषकार्य्यमाह
“फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता”। धातुविष-कार्य्यमाह
“हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि। प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत्”। एतानिमूलविषाणि नव कालघातीनि कालान्तरे मारकाणि। कन्दविषस्य कार्य्यमाह।
“कन्दजान्युग्रवीर्य्याणि या-न्युक्तानि त्रयोदश। सर्वाण्येतानि कुशलैर्ज्ञेयानि दश-भिर्गुणैः। स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्वि-मम्। सद्यो निहन्ति तत् सर्वं गुणैश्च दशभिर्युतम्”। तान् दशगुणानाह
“रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशुव्यवायि च। विकाशि विशदञ्चैव लघुपाकि च तेदश” तैर्गुणैर्विषस्य कार्य्यमाह
“तद्रौक्ष्यात् कोपयेद्वायु-मौष्ण्यात्पित्तं सशोणितम्। तैक्ष्ण्यान्मतिं मोहयतिमर्मबन्धान् छिनत्ति हि। शरीरावयवान् सौक्ष्म्यात्प्रविशेद्विकरोति च। आशुत्वादाशु तत् प्रोक्तं व्यवायात्प्रकृतिं हरेत्। विकाशित्वात् क्षपयति दोषान् धातून्म-लानपि। अतिरिच्यते वैशद्यात् दुश्चिकित्स्यं च लाघ-वात्। दुर्जरं चाविपाकित्वात् तस्मात् क्लेशयते चिरम्”। विषलिप्तशस्त्रहतस्य लक्षणमाह
“सद्यः पाकं याति यस्यक्षतं तत् स्रवेद्रक्तं पच्यते चाप्यभीक्ष्णम्। कृष्णीभूतंक्लिन्नमत्थर्थपूतिक्षतान्मांसं शीर्य्यते यस्य वापि। तृष्णा-तापौ दाहमूर्च्छे च यस्य दिग्धं विद्धं तं मनुष्यंव्यवस्येत्। लिङ्गान्येतान्येव कुर्य्यादमित्रैर्दत्तः क्ष्वेडो वाव्रणे यस्य चापि”। पच्यते चाप्यभीक्ष्णं पुनः पुनः[Page4928-a+ 38] पाकमेति तापः वहिःस्थितः, दाहोऽभ्यन्तरे। यः कुर्य्या-दित्यत्र क्षतं कर्त्तृपदं बोद्धव्यम्। प्रायेण राजादी-नामन्नादौ शत्रवो विषं ददति। तेषां ज्ञानार्थं लक्षण-माह
“इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः। जानीयाद्विषदातारमेभिर्लिङ्गैश्च बुद्धिमान्। न ददात्यु-त्तरं पृष्टो विवक्षुर्मोहमेति च। अपार्थं बहु सङ्कीर्णंभाषते चापि मूढवत्। अङ्गुलीः स्फोटयेदुर्वीं विलिखेत्प्रहसेदपि। वेपथुश्चास्य भवति त्रस्तश्चैकैकमीक्षते। विवर्णवक्त्रः श्यामश्च नखैः किञ्चिच्छिनत्ति च। आलभेतासकृद्दीनः करेण च शिरोरुहान्। निर्यियासुरपद्वारैःवीक्षते च पुनः पुनः। वर्त्तते विपरीतं च विषदाताविचेतनः”। इङ्गितमभिप्रायसूचकम् आकारं मुखवै-कृतं मुखवैवर्ण्यादि एभिर्लिङ्गैर्वक्ष्यमाणैः न ददात्यु-त्तरं पृष्टः स्वीयासत्कर्मजनितव्यामोहात् सङ्कीर्णम् अ-स्फुटं भयजनितपर्वव्यथापनोदायाङ्गुलीः स्फोटयेत् प्रह-सेत्। अहेतावपि श्यामः दग्धसमानवर्णः, आलभेतस्पृशेत् विपरीतं यथा स्यादेवं वर्त्तते। जङ्गमविषाणांसामान्यानां कार्य्याण्याह
“निद्रां तन्द्रां क्लमन्दाहं स-म्पाकं लोमहर्षरम। शोथं चैवातिसारं च कुरुतेजङ्गमं विषम्”। गङ्गमेषु तीक्ष्णतरेषु सर्पानाह
“वात-पितकफात्मानो माभिमण्डलराजिलाः। यथाक्रमं स-माख्याता द्व्यन्तरा द्वन्द्वरूविणः। फणिनो भोगिनोज्ञेया संख्यातास्तेऽत्र विंशतिः। मण्डलैर्विविधैश्चित्राःपृथवो मन्दगामिनः। षट् ते मण्डलिनो ज्ञेया ज्व-लनार्कविषाः ऋताः। स्निग्धा विविधवर्णाभिस्तिर्य्यगू-र्घ्वञ्च राजिभिः॥ विचित्रा इव ये भान्ति राजिलास्तेहि तेऽपि षट्”। एते यथाक्रमं वातपित्तकफात्मानःद्व्यन्तराः द्वे अन्तरे भेदौ येषां ते द्व्यन्तरा, यथा भो-गिनो मण्डनिन्यां जाताः इत्यादि। भोगिप्रभृति-कृतदशदेशलक्षणमाह
“दंशो भोगिकृतः कृष्णः सर्व-वातविकारकृत्। पीतो मण्डलिनः शोयो मृदुः पित्त-विकारवान्। राजिलोत्थो{??}द्दंशः स्थिरशोथश्च पि-च्छिलः। पाण्डुः स्निग्धोऽ{??}सान्द्रासृक्सर्वश्लेष्मविकार-वान्”। देशविशेषे कालविशेते च दष्टस्यासाध्यत्वमाह
“अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु। याम्ये च पित्र्ये परिवर्जनीया ऋक्षे नरा मर्मसु ये{??} दष्टाः”। याम्ये भरण्यां पित्र्ये मघायाम्
“दर्वी-{??}राणां विषमाशु हन्ति सर्वाणि चोष्णे द्विगुणीमान्ति”। [Page4928-b+ 38] उष्णे उष्णसंयोगे। दर्वीकरलक्षणमाह
“रथाङ्गलाङ्ग-लच्छत्त्रस्वस्तिकाङ्कुशधारिणः। ज्ञेया दर्वीकराः सर्पाःफणिनः शीघ्रगामिनः”। अपरेषु येषु विषमाशु मारकंभवति तानाह
“अजीर्णपित्तातपपीडितेषु बालेषु वृद्धेषुबुभुक्षितेषु। क्षीणे क्षते मेहिनि कुष्ठजुष्टे रूक्षे बलेगर्भवतीषु चापि। शस्त्रक्षते यस्य न रक्तमस्ति राज्योलताभिश्च न सम्भवन्ति। शीताभिरद्भिश्च न रोमहर्षोविषाभिभूतं परिवर्जयेत्तम्। जिह्मं मुखं यस्य च केश-शातो नासावसादश्च सकण्ठभङ्गः। कृष्णश्च रक्तः श्वय-थुश्च दंशे हन्वोः स्थिरत्वसु विवर्जनीयम्”। केशशातःआकर्षणात्, नासावसादः नासायाः नतत्वं कण्ठभङ्गःग्रीवाधारणाशक्तिः हन्वोः स्थिरत्वं हनुद्वयस्तम्भः। अ-परञ्च
“वान्तिर्घना यस्य निरेति वक्त्राद्रक्तं स्रवेदूर्द्ध्वमधश्चयस्य। दंष्ट्रानिपातांश्चतुरश्च पश्येद् यस्यापि वैद्यैः परि-वर्जनीयः”। वान्तिः रुधिरस्य, यस्य च नासामुखलिङ्गगु-दादिभ्यो रक्तं स्रवेत्
“उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वा-प्यथ वा विवर्णम्। सारिष्टमत्यर्थमवेगिनञ्च जह्यान्नरं तत्रन कर्म कुर्य्यात्”। अत्यर्थमुपद्रुतं वा ज्वरातिसारादिभि-रतिशयेनोपद्रुतं हीनस्वरं वक्तुमक्षमं विवर्णं कृष्ण-वर्णं सारिष्टं नासाभङ्गादियुक्तम्। अवेगिनं वेगोविषवेगः। (लहरि) इति लोके तद्रहितम्। स्थावरंजङ्गमं च विषमेव जीर्णत्वादिभिः कारणैः दूषीविष-संज्ञां लभते तदाह
“जीर्णं विषघ्नौषधिदूषितं वादावाग्निवातातपशोषितं वा। स्वभावतो वा गुणविप्र-हीनं विषं{??}हि दूषीविषतामुपैति”। जीर्णम् अति-पुराणं विषघ्नौषधिदूषितं विषघ्नीभिरौषधीभिर्वीर्य्यही-नीकृतं स्वभावतो वा गुणविप्रहीनं स्वभावादेव दशानांगुणानां मध्ये एकद्वित्र्यादिगुणहीनम्। दूषीविषस्यकार्य्यमाह
“वीर्य्याल्पभावान्न निपातयेत् तत् कफान्वितंवर्षगणानुबन्धि। तेनार्दितो भिन्नपुरीषवर्णो विगन्धि-वैरस्ययुतः पिपासी। मूर्च्छां भ्रमं गद्गदवाग्वमिञ्चविचेष्टमानोऽरतिमाप्नुयाद् वा”। न निपातयेत् न मार-यति कफान्वितं कफेन मन्दीकृतौष्णादिगुणं वर्षगणा-लबन्धि कफेनाग्नेर्मान्द्यादीषत्पाकाच्चिरस्थायि तथादूषीविषजदद्रुरोगवतां भिन्नपुरीषवर्णश्च भिन्नपुरीषो-द्गतमलः भिन्नवर्णो विवर्णः। विचेष्टमानः विरुद्धां चेष्टांकुर्वन् मूर्च्छादीन् व्याधीन् लभते। स्थानविशेषोत्थितेदुषीविषे लिङ्गविशेषमाह।
“आमाशयस्थे कफवात-[Page4929-a+ 38] रोगी पक्वाशयस्थेऽनिलषित्तरोगी। भवेत् समुद्ध्वस्तशि-रोऽङ्गरुट्को विलूनपक्षश्च यथा विहङ्गः”। समुद्ध्वस्तशि-रोऽङ्गरुट्कः समुद्धस्ताः शिरोरुहाः केशाः अङ्गरुहःलोमानि यस्य सः एतदपि लिङ्गं पक्वाशयस्थे दूषी-विषे बोद्धव्यम्
“स्थितं रसादिष्वथ तद्यथोक्तान् करोतिधातुप्रभवान् विकारान्”। तत् दूषीविषं यथोक्तान् सुश्रुतेव्याधिसमुद्देशीयोक्तान्। दूषीविषस्य प्रकोपसमयमाह
“कोपं तु शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तस्यरूपम्”। कुपितस्य दूषीविषस्य पूर्वरूपमाह
“निद्रागुरुत्वञ्च विजृम्भणञ्च विश्लेषहर्षावथ वाङ्गमर्दः”। वि-श्लेषः गात्रशौथिल्यं हर्षः रोमाञ्चः। रूपमाह
“ततःकरोत्यन्नमदाविपाकावरोचकं मण्डलकोठजन्मा। मांसक्षयंग्राणिपदाक्षिशोथं मूर्च्छां तथा छर्द्रिमथातिसारम्। दूषीविषं श्वासतृषौ ज्वरांश्च कुर्य्यात् प्रवृद्धिं जठरस्य चापि” अन्नमदः अन्ने मुक्ते पूगफलेनेव मदः। अविपाकः अन्नस्य। दूषीविषभेदेन विकारानाह
“उन्मादमन्यज्जनयेत्तथान्य-दानाहमन्यत् क्षपयेच्च शुक्रम्। गाद्गद्यमन्यज्जनयेच्च कुष्ठंतांस्तान्विकारांश्च बहुप्रकारान्”। अन्यत् दूषीविषंतांस्तान् विकारान् विसर्पविस्फोटादीन्। दूषीविषस्यनिरुक्तिमाह
“दूषितं देशकालान्नं दिवास्वप्नैरभीक्ष्णशः। यस्मात् संदूषयेद्धातूंस्तस्माद्दूषीविषं स्मृतम्”। देशःअनूपादिः काला दुर्दिनादिः अन्नं कुलत्थतिलमसू-रादि धातुदूषकत्वाद्दूषीविषम्। दूषीविषस्य साध्य-त्वादिकमाह
“साध्यमात्मवतः सद्यो याप्यं संवत्सरो-त्थितम्। दूषीविषससाध्यं स्यात् क्षीणस्याहितसेविनः”। कृत्रिमं विषं द्विविधम् एकं सविषं दूषीविषसंज्ञम्अपरमविषं तदेव तरसंज्ञं तथा च काश्यपसंहितायाम्
“संयोगजञ्च द्विविघं द्वितीयं विषमुच्यते। दूषीविषं तुसविषमविषङ्गर उच्यते”। संयोगजं कृत्रिमं विषं द्वि-तीयं स्वाभाविकं तच्च द्विविधम्। तत्र दूषीविषमभि-धाय गरं दर्शयितुमाह
“सौभाग्यार्थं स्त्रियः स्वेद-रजोनानाङ्गजान् मलान्। शत्रुप्रयुक्तांश्च गरान् प्रय-च्छन्त्यन्नमिश्रितान्”। गरकार्य्यमाह
“तैः स्यात् पाण्डुकृशोऽल्पाग्निर्ज्वरश्चास्योपजायते। मर्मप्रधमनाघ्मानं ह-स्तयोः शोथसम्भवः। जठरग्रहणीरोगा यक्ष्मागुल्मक्षयोज्वरः”। तैः गरैः स्वेदरजःप्रभृतिभिः ज्वरश्चास्योपजा-यत इति अपाकात्। मर्मप्रधमनं मर्मव्यथा क्षयो धातु-क्षयः। लूतानां जन्तुविशेषाणामुत्पत्तिं निरुक्तिं सङ्ख्या-[Page4929-b+ 38] ञ्चाह
“यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदविन्दवः। तेभ्योजातास्तथा लूता इति ख्यातास्तु षोडश”। अत्र सुश्रुतः
“वि-श्वामित्रो नृपवरः कदाचिदृषिसत्तमम्। वशिष्ठं कोपयामासगत्वाऽश्रमपदं किल। कुपितस्य मुनेस्तस्य ललाटात् स्वेद-विन्दवः। अपतद्दर्शनादेव ह्यधस्तात्तोव्रवर्चसः। लूने तृणेमहर्षेस्तु धेन्वर्थे सम्भृतेऽपि च। ततो जातास्त्विमेघोरा नानारूपा महाविषाः। तासामष्टौ कष्टसाध्यावर्ज्यास्तावत्य एव हि”। तत्र त्रिमण्डलप्रभृतयोऽष्टौ कष्ट-साध्याः सौवर्णिकप्रभृतयोऽष्टावसाध्याः। तासां सामा-न्यानां दंशलक्षणमाह
“ताभिर्दष्टे दंशकोथः प्रवृत्तिःक्षतजस्य च। ज्वरो दाहोऽतिसारश्च गदाः स्युश्चत्रिदोषजाः। पिडका विविधाकारा मण्डलानि महान्तिच। शोथा महान्तो मृदवो रक्ताः श्यावाश्चलास्तथा। सामान्यं सर्वलूतानामेतद्दंशस्य लक्षणम्”। दंशकोथःदंशमध्ये पूतिभावः।
“दंशमध्ये तु यत्कृष्णं श्यावंवा जालकावृतम्। दग्धाकृति मृशम्पाकं स्वेदर्शोथज्वरा-न्वितम्। दूषीविषामिर्लूताभिस्तद्दष्टमिति निर्दिशेत्”। सौवर्णिकादयोऽष्टावसाध्या प्रणिहरास्तासां लक्षणमाह
“शोषः श्वेता सिता रक्ता पीता च पिडका ज्वरः। प्राणान्तिको भवेद्दाहः श्वासहिक्काशिरोग्रहः”। आखु-दूषीविषलक्षणमाह
“आदंशाच्छोणितं पाण्डुमण्डलानिरोऽरुचिः। लोमहर्षश्च दाहश्चाप्याखुदूषीविषा-र्दिते” प्राणहरमूषकविषकार्य्यमाह
“मूर्च्छाङ्गशोथ-वैवर्ण्यं क्लेदशब्दाश्रुतिज्वराः। शिरोगुरुत्वं लाला-सृक् छर्दिश्चासाध्यमूषकात्। अङ्गशोथोऽत्र मूषकाकारोबोद्धव्य इति। तन्त्रान्तरे कृकलासदष्टस्य लक्षणमाह
“शोथस्य कार्श्यमथ वा नानावर्णत्वमेव च। मोहोऽथवर्चसो भेदो दष्टस्य कृकलासकैः”। वृश्चिकविषस्य लक्ष-णमाह
“दहत्यग्निरिवादौ तु भिनत्तीवोर्द्धमाशु च। वृश्चिकस्य विषं याति पश्चात् दंशेऽवतिष्ठते”। असाध्यस्यवृश्चिकदष्टस्य लक्षणमाह
“दष्टोऽसाध्यैस्तु हृद्घ्राणरसनोपहतो नरः। मांसैः पतद्भिरत्यर्थं वेदनार्त्तो ज-हात्यसून्”। असाध्यैर्वृश्चिकैस्तेषामेवानुवृत्तेः हृदा-दिषु उपहतः हृदादिकार्य्यरहितो भवति अत्यर्थंवेदनार्त्त इत्यन्वयः। कणभदष्टस्य लक्षणमाह
“विसर्पःश्वयथुः शूलं ज्वरश्छर्दिरथापि वा। लक्षणं कणभैर्दष्टेदंशश्चैवावशीर्य्यते”। कणभः कीष्टविशेषः। उच्चिटि-ङ्गदष्टस्य लक्षणसाह
“कृष्णलोमोच्चिटिङ्गेन स्तब्धलिङ्गो-[Page4930-a+ 38] भृशार्त्तिमान्। दष्टः शीतोदकेनेव सिक्तान्यङ्गानि म-न्यते”। कृष्णलोमा अधिकतरकृष्णरोमा उच्चिटिङ्ग-(चीटा) कीटविशेषः। सविषमण्डूकदष्टस्य लक्षणमाह
“एकदंष्ट्रार्दितः शूनः सरुजः पीतकः सतृट्। सनि-द्रश्छर्दमान् दष्टोमण्डूकैः सविषैर्भवेत्”। एकदंष्ट्रार्दितःस्वभावादेकयैव दष्ट्रया दष्टो भवति। मत्स्यविषस्य कार्य्य-माह
“मत्स्यास्तु सविषा कुर्युर्दाहं शोथं रुजं तथा”। जलौकाविषकार्य्यमाह
“वण्डूं शोथं ज्वरं मूर्च्छां स-विषास्तु जलौकसः”। कुर्युरिति शेषः। गृहगोधिकाविषकार्य्यमाह
“विदाहं श्वयथुं तोदं प्रस्वेदं गृह-गोधिकाः”। कुर्य्युरिति शेषः। शतपदीविषकार्य्यमाह
“दंशे स्वेदं रुजं दाहं कुर्य्याच्छतपदीविष” शतपदी (गि-जाई) इति लोके। मशकविषकार्य्यमाह
“कण्डूमा-न्मशकैरीषच्छोथः स्यान्मन्दवेदनः”। असाध्वमशकल-क्षणमाह
“असाध्यकीटसदृशमसाध्यं मशकक्षतम्”। असाध्यकीटसदृशं असाध्यैः कीटैर्लूतादिभिः कृतं यत्क्षतं तत् सदृशवेदनम्। मक्षिकार्दशलक्षणमाह
“सद्यःसंस्राविणी श्यावादाहमूर्च्छाज्वरान्विता। पिडकामक्षिका दंशे तासान्तु स्थगिका सुहृत्”। तासामित्यादितासां सुश्रुतोक्तानां षणां मक्षिकाणां मध्ये स्थिगिका-नाम्नी शीघ्रं प्राणं हरतीत्यर्थः। व्याघ्रादिविषाणांकार्य्यमाह
“चतुष्पाद्भिर्द्विपाद्भिर्वा नखैर्दन्तैश्च यत् कृतम्। शूयते पच्यते तत्तु स्रवति ज्वरयत्यपि”। चतुष्पाद्भिःव्याघ्रादिभिः द्विपाद्भिः वनमनुष्यादिमिः शूयते शूनोभवति। विषोज्झितस्य लक्षणमाह
“प्रसन्नदोषं प्रकृति-स्थधातुमन्नाभिकामं सममूत्रविट्कम्। प्रसन्नवर्णेन्द्रियचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम्”। प्रसन्नदोषंप्रकृतिस्थदोषं शेषं सुगमम्”।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष¦ mn. (-षः-षं) Poison, venom. n. (-षं)
1. Water.
2. The fibres attached to the stalk of the lotus.
3. Gum-myrrh.
4. A vegetable poison, (Aconitum ferox.) f. (-षा) A tree, the bark of which is used in dye- ing of a red colour. E. विष् to pervade, aff. क |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषम् [viṣam], [विष्-क]

Poison, venom (said to be m. also in this sense); विषं भवतु मा भूद्वा फटाटोपो भयंकरः Pt.1.24.

Water; विषं जलधरैः पीतं मूर्च्छिताः पथिकाङ्गनाः Chandr.5. 82 (where both senses are intended).

The fibres of a lotus-stalk.

Gum-myrrh.

A poisonous weapon; विमोक्ष्यन्ति विष क्रुद्धाः कौरवेयेषु भारत Mb.3.8.3. -Comp. -अक्त, -दिग्ध a. poisoned, envenomed.

अङ्कुरः a spear.

a poisoned arrow. -अन्तक a. antidotal. (-कः) an epithet of Śiva. -अपह, -घ्न a. repelling poison, antidotic. -आननः, -आयुधः, -आस्यः a snake. -आस्या the marking-nut plant. -आस्वाद a. tasting poison; मध्वापातो विषास्वादः स धर्मप्रतिरूपकः Ms.11.9. -उदम्, -जलम् poisonous water; आस्फोट्य गाढरशनो न्यपतद्विषोदे Bhāg 1. 16.6. -कण्ठः N. of Śiva. -कुम्भः a jar filled with poison. -कृत a. poisoned; तव भार्या महावाहो भक्ष्यं विषकृतं यथा Rām.4.6.8. -कृमिः a worm bred in poison. ˚न्याय see under न्याय. -घटिका N. of a solar month. -घातिन् m. Śirīṣa tree. -घ्न a.*** antidotal, serving as an antidote; इति चिन्ताविषघ्नो$यमगदः किं न पीयते H.1.

(घ्नः) an antidote.

the शिरीष and चम्पक trees.

(घ्नी) turmeric.

colocynth. -जुष्ट a.

poisonous.

poisoned, affected by poison. -ज्वरः a buffalo. -तन्त्रम् toxicology.-दः a cloud; जगदन्तकालसमवेतविषद ... Śi.15.73. (-दम्) green vitriol. -दन्तकः a snake. -दर्शनमृत्युकः, -मृत्यु a kind of bird (said to be Chakora). -दिग्ध a. poisoned.-द्रुमः = ˚वृक्ष, q. v. -धरः a snake; वहति विषधरान् पटीरजन्मा Bv.1.74. ˚निलयः the lower regions, the abode of snakes.-पुष्पम् the blue lotus. -नाडी a particular inauspicious period of time. -पुष्पकः a disease caused by eating poisonous flowers. -प्रयोगः use of poison, administering poison. -भिषज् m., -वैद्यः a dealer in antidotes, a curer of snake-bites; संप्रति विषवैद्यानां कर्म M.4.

मन्त्रः a spell for curing snake-bites.

a snake-charmer, conjurer.-मुच् m. a serpent. -रसः a poisoned potion, poisonliquid; चिराद्वेगारम्भी प्रसृत इव तीव्रो विषरसः U.2.26. -विद्या cure of poison. -विधानम् administering poison judicially.-वृक्षः, -द्रुमः a poisonous tree; विषवृक्षो$पि संवर्ध्य स्वयं छेत्तुम- सांप्रतम् Ku.2.55; श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम् U.1. 46. ˚न्याय see under न्याय. -वेगः the circulation or effect of poison.

व्यवस्था the state of being poisoned.

the effect of the poison; मन्त्रबलेन विषव्यवस्थामपनेतुमक्षमः Dk.1.1. -शालूकः the root of the lotus. -शूकः, -शृङ्गिन्, -सृक्कन् m. a wasp. -सूचकः the Chakora bird. -हरा, -री An epithet of the goddess Manasā. -हृदय a. 'poison-hearted', malicious. -हेतिः a serpent.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष m. a servant , attendant RV.

विष m. N. of a साध्यHariv. (See. दुर्-व्)

विष n. (also m. Siddh. ; ifc. f( आ). )" anything active " , poison , venom , bane , anything actively pernicious RV. etc.

विष n. a partic. vegetable poison(= वत्स-नाभ) L.

विष n. water Naigh. i , 12

विष n. a mystical N. of the sound म्Up.

विष n. gum-myrrh L.

विष n. the fibres attached to the stalk of the lotus W. (See. बिस)

विष mf( आ)n. poisonous AV. vii , 113 , 2. [ cf. Gk. ? for ? ; Lat. virus.]

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a शिव god. Br. II. ३६. ३२.
(II)--an Asura, attacked by Nakuli देवी. Br. IV. २८. ३९.
(III)--a son of दनायुष; father of four sons all bent on doing cruelty. वा. ६८. ३०, ३३.
"https://sa.wiktionary.org/w/index.php?title=विष&oldid=456122" इत्यस्माद् पुनः प्राप्तिः