विषः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषः, पुं, क्ली, (विष + कः ।) विषम् । तत्पर्य्यायः । क्ष्वेडः २ गरलम् ३ । इत्यमरः ॥ आहेयम् ४ अमृतम् ५ गरदम् ६ कालकूटम् ७ कलाकूलम् ८ हारिद्रम् ९ रक्तशृङ्गिकम् १० नीलम् ११ गरम् १२ घोरम् १३ हालाहलम् १४ हला- हलम् १५ शृङ्गी १६ भूगरम् १७ । इति राज- निर्घण्टः ॥ जाङ्गलम् १८ तीक्ष्णम् १९ रसः २० रसायनम् २१ गरः २२ । इति जटाधरः ॥ जङ्गुलम् २३ जाङ्गुलम् २४ । इति शब्दरत्ना- वली ॥ काकोलः २५ वत्सनाभः २६ प्रदीपनः २७ शौल्किकेयः २८ ब्रह्मपुत्त्रः २९ । इति रत्नमाला ॥ तद्भेदा यथा, -- “पुंसि क्लीवे च काकोलकालकूटहलाहलाः । सौराष्ट्रिकः शौल्किकेयो ब्रह्मपुत्त्रः प्रदीपनः ॥ दारदो वत्सनाभश्च विषभेदा अमी नव ॥” इति पातालवर्गे अमरः ॥ * ॥ अपि च । “विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हला- हलः । वत्सनाभः कालकूटो ब्रह्मपुत्त्रः प्रदीपनः ॥ अपि च । “दुरधीता विषं विद्या अजीर्णे भोजनं विषम् । विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ॥ विषं चंक्रमणं रात्रौ विषं राज्ञोऽनुकूलता । विषं स्त्रियोऽप्यन्यहृदो विषं व्याधिरवीक्षितः ॥” इति चाणक्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=विषः&oldid=504513" इत्यस्माद् प्रतिप्राप्तम्