विषुव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषुवम्, क्ली, समरात्रिन्दिवकालः । तत्पर्य्यायः । विषुवत् २ । इत्यमरः ॥ विषुपम् ३ विष्वक् ४ विश्वक् ५ । इति शब्दरत्नावली ॥ विषुणः ६ । इति रामाश्रमः ॥ विषुवः ७ । इति मुकुटः ॥ तत्तु मेषतुलयोः संक्रान्ती । यथा, -- “मृगकर्कटसंक्रान्ती द्वे तूदग्दक्षिणायने । विषुवती तुलामेषे गोलमध्ये तथापराः ॥” इति तिथ्यादितत्त्वम् ॥ * ॥ ते तु महाविषुवजलविषुवनामभ्यां क्रमेण ख्याते । यथा, -- “विषुवाभ्यां वत्सरः स्यादिति शब्दविदां मतम् । महाविषुवमाख्यातं कृतिभिश्चैत्रचिह्नितम् । तथा स्याज्जलविषुवं क्रमादाश्विनचिह्नितम् ॥” इति शब्दरत्नावली ॥ * ॥ विषुवारम्भकालो यथा, -- “मृगसंक्रान्तितः पूर्व्वं पश्चात् तारा दिनान्तरे । एकवर्षे चतुःपञ्चपलमानक्रमेण तु । षट्षष्टिवत्सरानेकदिनं स्यादयनं रवेः । एवं चतुःपञ्चदिनमयनारम्भणं क्रमात् ॥ व्युत्क्रमेण च तद्वत् स्यादुदग्यानं रवेर्ध्रुवम् । कर्किसंक्रमणे तद्वदभितो दक्षिणायनम् ॥ अयनांशक्रमेणैव विषुवारम्भणं तथा । रविसंक्रान्तितो मेषतुलयोरभितः पुनः ॥ विषुवं मीनकन्यार्द्धे त्वेकाक्षीन्द्रशकाब्दके । दिनमानाय मीनार्द्धान्मेषार्द्धं पालिकं शतम् ॥ ततो वृषार्द्धपर्य्यन्तमशीतिः पलभाजिनी । मिथुनार्द्धं चतुस्त्रिंशत्पलानां वर्द्धते क्रमात् ॥ कर्कटार्द्धन्तु षट्त्रिंशत् सिंहार्द्धन्तु द्व्यशीतकम् । कन्यार्द्धन्तु द्विनवतिः क्रमात् त्रुट्यति वासरे ॥ कन्यार्द्धाद्रजनीमानं बोध्यं पूर्ब्बक्रमेण हि । दिने दिने भागहारान्मानं बोध्यं दिवानिशोः ॥ एकमानं दण्डषष्ट्या त्यक्त्रान्यमाननिर्णयः । षट्षष्टिवत्सरानेवं ततः स्यात् षोडशांशके । पुनस्तद्वत्सरांस्तद्वत् एवं सप्तदशादिके ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ अन्यच्च “मेषसंक्रमतः पूर्व्वं पश्चात्तारा दिनान्तरे । प्रातिलोम्यानुलोम्येन विषुवारम्भणं भवेत् ॥ त्रयोदशदिने सौरे चैत्रे नखतिथौ शके । विषुवारम्भणं तत्र समं मानं दिवानिशोः ॥ ततः प्रतिदिनं वेला सपादत्रिपलात्मिका । वर्द्धते मेषविश्वांशपर्य्यन्तं स्थूलमार्गतः ॥ तथा ज्येष्ठान्तपर्य्यन्तं पादोनत्रिपलात्मिका । तादृगाषाढपर्य्यन्तं पलैकप्रमिता मता ॥ ततः कर्क्कटविश्वांशपर्य्यन्तं प्रत्यहं क्रमात् । सपादपलमानेन वेला त्रुट्यति निश्चितम् ॥ तादृग्भाद्रान्तपर्य्यन्तं पादोनत्रिपलात्मिका । तादृगाश्विनशेषान्तं हरनेत्रपलात्मिका ॥ दिवामानं दण्डषष्टेस्त्यक्त्वा रात्रेः प्रमाणकम् । वैशाखादौ दिवामानं रात्रिमानं तुलादिषु ॥ षट्षष्टिवत्सरानेवं ततः स्यात् द्वादशांशके । पुनस्तद्वत्सरांस्तद्वत् तत एकादशादिके ॥” इति सत्कृत्यमुक्तावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषुव¦ ग॰ विषु दिनरात्र्योः साम्यं वाति वा--क।

१ सम-रात्रिदिनकाले अमरः। अयनांशक्रमणे

२ रवेः तुला-मेषराशिसंक्रान्तिभेदे च(
“मृगकर्कटसंक्रान्ती द्वे तूदग्दक्षिणायने। विषुवतीतुलामेषे गोलनध्ये तथापरा” ज्यो॰ त॰।
“भचक्रनाभौविषुवद्द्वितयं समसूत्रगम्। अयनद्वितयं चैव चतस्रःप्रथितास्तु ताः” सू॰ सि॰।
“भचक्रनाभौ भगोलस्यध्रुवद्वयाभ्यां तुल्यान्तरेण मध्यभागे विषुवद्द्वितयं समसू-त्रग परस्परं व्याससूत्रान्तरितं ध्रुवमध्ये विषुवद्वृत्त-स्थानात् तद्वृत्ते क्रान्तिवृत्तभागौ यौ लग्नौ तौ क्रमेणपूर्वापरौ विषुवत्सञ्ज्ञौ मेषतुल्याख्यौ चेत्यर्थः” रङ्ग॰कालभेदे विषुवसंक्रमणरम्भांशभेदः अयनसंक्रान्तिशब्देदर्शितः सत्कृत्यमुक्ता॰ संक्षिप्य कालभेदे विषुवारम्भणाद्युक्तंयथा
“मेषसंक्रमतः पूर्वं पश्चात्तरादिनान्तरे। प्राति-लोम्येन साम्येन विषुवारम्भणं भवेत्। त्रयोदशदिने सौरेचैत्रे नखतिथौ

१५

२० शके। विषुवारम्भणं तत्र समं मानंदिवानिशोः। ततः प्रतिदिनं वेला सपादत्रिपला-त्मिका। वर्द्धते मेषविश्वांशपर्य्यन्तं स्थूलमार्गतः। तथाज्यैष्ठान्तपर्य्यन्तं पादोनत्रिपलात्मिका। तादृशा-षाढपर्य्यन्तं पलैकप्रमिता मता। ततः कर्कटविश्वांश-पर्य्यन्तं प्रत्यहक्रमात्। सपादपलमानेन वेला त्रु-द्यति निश्चितम्। तादृग्भाद्रान्तपर्य्यन्तं पादोनत्रि-पलात्मिका। दिवामानं दण्डषष्टेस्त्यक्ता रात्रेः प्रमा-णकम्। वैशाखादौ दिवामानं रात्रिमानं तुलादिषु। षट्षष्टितत्सरानेवं ततः स्यात् द्वादशांशके। पुनस्तद्वत्सरांस्तद्वत् तत एकादशादिके”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषुव¦ n. (-वं) The first point of ARIES or LIBRA into which the sun enters at the vernal or autumnal equinox. E. विषु equally, (the night and day,) and व or प aff.; also विषुप |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषुवम् [viṣuvam], The first point of Aries or Libra into which the sun enters at the vernal or autumnal equinox, the equinoctial point; अयने विषुवे कुर्याह्यतीपाते दिनक्षये Bhāg.7. 14.2. -Comp. -छाया the shadow of the gnomon at noon.-दिनम् the day of the equinox. -रेखा the equinoctial line. -संक्रान्तिः f. the sun's equinoctial passage. -समयः the equinoctial season.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषुव m. or n. (See. विषुवत्; acc. विषुवम्or विष्वम्See. 1. विषुabove ) the equinox MBh. Pur.

"https://sa.wiktionary.org/w/index.php?title=विषुव&oldid=504524" इत्यस्माद् प्रतिप्राप्तम्