वीरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीरः, पुं, (वीरयतीति । वीर विक्रान्तौ + पचा- द्यच् । यद्वा, विशेषेण ईरयति दूरीकरोति शत्रून् । वि + ईर + इगुपधात् कः । यद्वा, अजति क्षिपति शत्रून् । अज + स्फायितञ्चीत्या दिना रक् । अजेर्व्वीः ।) शौर्य्यविशिष्टः । तत्प- र्य्यायः । शूरः २ विक्रान्तः ३ । इत्यमरः । २ । ८ । ७७ ॥ गण्डीरः ४ तरस्वी ५ । इति जटाधरः ॥ (यथा, महाभारते । १ । १४१ । ४५ । “मृगराजो वृकश्चैव बुद्धिमानपि मूषिकः । निर्ज्जिता यत्त्वया वीरास्तस्माद्वीरतरो भवान् ॥” यथा च ऋग्वेदे । १ । ११४ । ८ । “वीरान्मानो रुद्रभामितो वधी- र्हविष्यन्तः सद्मि त्वा हवामहे ॥” “वीरान् वीक्रान्तान् ।” इति सायणः ॥ पुत्त्रः । यथा, ऋग्वेदे । ५ । २० । ४ । “वीरैः स्याम सधमादः ॥” “वीरैः पुत्त्रैश्च सधमादः सहमाद्यन्तः स्याम तथा कुरु ।” इति तद्भाष्ये सायणः ॥ * ॥ पतिः । पुत्त्रश्च । यथा, मार्कण्डेये । ३५ । ३१ । “न चालपेज्जनद्विष्टां वीरहीनां तथा स्त्रियम् । गृहादुच्छिष्टविण्मूत्रपादाम्भांसि क्षिपेद्बहिः ॥” यथा च अवीरा निष्पतिसुता । इत्यमरदर्श- नाच्च ॥ * ॥ दनायुदैत्यपुत्त्रः । यथा, महाभारते । १ । ६५ । ३३ । “दनायुषः पुनः पुत्त्राश्चत्त्वारोऽसुरपुङ्गवाः । विक्षरो बलवीरौच वृत्रश्चैव महासुरः ॥”) जिनः । नटः । इति हेमचन्द्रः ॥ विष्णुः । यथा, वीरोऽनन्तो धनञ्जयः । इति विष्णु सहस्रनाम ॥ शृङ्गाराद्यष्टरसान्तर्गतरसविशेषः । तत्पर्य्यायः । उत्साहवर्द्धनः २ । इत्यमरः ॥ “उत्तमप्रकृतिर्वीर उत्साहस्थायिभावकः । महेन्द्रदैवतो हेमवर्णोऽयं समुदाहृतः ॥” उत्साहं वर्द्धयति इति उत्साहवर्द्धनः नन्द्यादि- त्वादनः । दानधर्म्मयुद्धेषु जीवानपेक्षोत्साह- कारी रसो वीरः । वीरयन्ते अत्र वीरः । वीर तङ्कत् शौर्य्ये घञ् स्फीततयैव स्वाद्यते इति सर्व्व- रसलक्षणं कटाक्षितम् । इति भरतः ॥ * ॥ तान्त्रिकभावविशेषः । यथा, -- “तत्रैव त्रिविधो भावो दिव्यवीरपशुक्रमः । दिव्यवीरैकजः प्रोक्तः सर्व्वसिद्धिप्रदायकः ॥” इति रुद्रयामले ११ पटलः ॥ अपि च । “भावस्तु त्रिविधः प्रोक्तो दिव्यवीरपशुक्रमात् । गुरवश्च त्रिधा चात्र तथैव मन्त्रदेवता ॥” इति तत्रैव ६ पटलः ॥ अन्यच्च । “पशुभावं हि प्रथमे द्बितीये वीरभावकम् । तृतीये दिव्यभावञ्च इति भावत्रयं क्रमात् ॥ आदौ दशमदण्डेन पशुभावमथापि वा । मध्याह्ने दशदण्डेन वीरभावमुदाहृतम् । सायाह्ने दशदण्डे तु दिव्यभावं शुभप्रदम् ॥” इति च तत्रैव ११ पटलः ॥ अन्यच्च । “जन्ममात्रं पशुभावं वर्षषोडशकावधि । ततश्च वीरभावस्तु यावत् पञ्चाशतो भवेत् ॥ द्वितीयांशे वीरभावस्तृतीये दिव्यभावकः । एवं भावत्रयेणैव भावमैक्यं भवेत् प्रिये ॥” इति वामकेश्वरतन्त्रे ५१ पटलः ॥ वीराचारविशिष्टः । यथा, -- “कुलाचाररतो वीरः कुलसङ्गी सदा भवेत् । संविदासेवनं कुर्य्यात् सोमपानं महेश्वरि ॥ सर्व्वथा कुरुते देवि वीरश्चोद्धतमानसः । दिव्यस्तु देवता प्रायश्चन्दनागुरुलेपनैः । रक्तचन्दनगन्धैश्च सुदिग्धो नात्र संशयः ॥ भस्माङ्गधूसरो वीर उन्मत्तवद्विचेष्टितः । सुरापाणरतो नित्यं वलिपूजापरायणः ॥ नरश्छागश्च महिषो मेषः शूकर एव च । शशकः शल्लकी गोधा खड्गी कूर्म्मी दश स्मृताः ॥ वानरश्च खरश्चैव गजाश्वादिविहङ्गमाः । इत्यादिभिर्व्वलेर्दानैः पूजयेत् स्वेष्टदेवताम् ॥ सिद्धमन्त्रो भवेत् वीरो न वीरो मद्यपानतः । कलौ तु भारते वर्षे लोका भारतवासिनः । गृहे गृहे सुरां पीत्वा वर्णभ्रष्टा भवन्ति हि ॥” इत्युत्पत्तितन्त्रम् ॥ * ॥ कलौ तदाचारनिषेधो यथा, -- “दिव्यवीरमयो भावः कलौ नास्ति कदाचन । केवलं पशुभावेन मन्त्रसिद्धिर्भवेन्नृणाम् ॥” इति महानिर्व्वाणतन्त्रम् ॥ * ॥ तण्डुलीयः । वराहकन्दः । लताकरञ्जः । करवीरः । अर्ज्जुनः । इति राजनिर्घण्टः ॥ यज्ञाग्निः । इति वीरहाशब्दटीकायां भरतः ॥ उत्तरः । सुभटः । इति मेदिनी ॥

वीरः, त्रि, श्रेष्ठः । इति हेमचन्द्रः ॥ (कर्म्मठः । यथा, ऋग्वेदे । ८ । २३ । १९ । “इमं धा वीरो अमृतं वीरं कृण्वीतमर्त्त्यः ॥” “वीरः कर्म्मणि समर्थः ।” इति तद्भाष्ये सायणः ॥ यथा च । तत्रैव । ६ । २३ । ३ । “कर्त्ता वीराय सुष्वय उलोकं दाता वसु स्तुवते कीरये चित् ॥” “वीराय यज्ञादि कर्म्मसु दक्षाय ।” इति तद्भाष्ये सायणः ॥ प्रेरयिता । यथा, तत्रैव । ६ । ६५ । ४ । “इदा हि वो विधते रत्नमस्तीदा वीराय दाशुष उषासः ॥” “वीराय प्रेरयित्रे ।” इति तद्भाष्ये सायणः ॥)

"https://sa.wiktionary.org/w/index.php?title=वीरः&oldid=504553" इत्यस्माद् प्रतिप्राप्तम्