वृद्धत्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृद्धत्वम्, क्ली, (वृद्ध + त्व ।) वृद्धस्य भावः । तत्- पर्य्यायः । स्थाविरम् २ । इत्यमरः ॥ वार्द्धक्यम् ३ वार्द्धकम् ४ । इति शब्दरत्नावली ॥ (यथा, रघुः । १ । २३ । “अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः । तस्य धर्म्मरतेरासीद्वृद्धत्वं जरसा विना ॥”) बाल्यादेरवधिमाह सुश्रुतः । “वयस्तु त्रिविधं बाल्यं मध्यमं वार्द्धकं तथा । ऊनषोडशवर्षस्तु नरो बालो निगद्यते ॥ त्रिविधः सोऽपि दुग्धाशी दुग्धान्नाशी तथान्न- भुक् । दुग्धाशी वर्षपर्य्यन्तं दुग्धान्नाशी शरद्द्वयम् ॥ तदुत्तरं स्यादन्नाशी एवं वालस्त्रिधा मतः ॥ मध्ये षोडशसप्तत्योर्मध्यमः कथितो बुधैः । चतुर्धा मध्यमं प्राहुर्युवा द्वात्रिंशतो मतः ॥ चत्वारिंशत्समा यावत्तिष्ठेद्वीर्य्यादिपूरितः । ततः क्रमेण क्षीणः स्याद्यावद्भवति सप्ततिः ॥” वीर्य्यादीत्यादिशब्देन रसादिसर्व्वधात्विन्द्रिय- बलोत्साहा उच्यन्ते । क्षीणः सर्व्वधात्विन्द्रिय- बलोत्साहैर्हीनः । “ततस्तु सप्ततेरूर्द्ध्वं क्षीणधातुरसादिकः । क्षीयमाणेन्द्रियबलः क्षीणरेता दिने दिने ॥ वलीपलितखालित्ययुक्तः कर्म्मसु चाक्षमः । कासश्वासादिभिः क्लिष्टो वृद्धो भवति मानवः ॥ बाल्ये विवर्द्धते श्लेष्मा पित्तं स्यान्मध्यमे- ऽधिकम् । वार्द्धक्ये वर्द्धते वायुर्विचार्य्यैतदुपक्रमेत् ॥” उपक्रमेत् चिकित्सेत् । तन्त्रान्तरे तु । “बाल्यं वृद्धिश्छविर्मेधा त्वग्दृष्टिः शुक्रविक्रमौ । बुद्धिः कर्म्मेन्द्रियं चेतो जीवितं दशतो ह्रसेत् ॥” इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृद्धत्व नपुं।

वृद्धत्वम्

समानार्थक:स्थाविर,वृद्धत्व

2।6।40।2।2

शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे। स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघेऽपि वार्धकम्.।

वैशिष्ट्य : वृद्धः

पदार्थ-विभागः : , सामान्यम्, अवस्था

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृद्धत्व¦ n. (-त्वं) Old age. E. वृद्ध old, त्व aff. of the abstracts; also वृद्धता |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृद्धत्व/ वृद्ध--त्व n. old age MBh.

"https://sa.wiktionary.org/w/index.php?title=वृद्धत्व&oldid=280787" इत्यस्माद् प्रतिप्राप्तम्