वेदव्यासः

विकिशब्दकोशः तः

वेदव्यास: व्यास मुनि, Vyaasa - the author of Vedas.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदव्यासः, पुं, (वेदं व्यस्यति पृथक् करोतीति । वि + अस + अण् । निरुक्तिस्तु परत्र द्रष्टव्या ।) मुनिविशेषः । तत्पर्य्यायः । माठरः २ द्वैपायनः ३ पाराशर्य्यः ४ कानीनः ५ वादरायणः ६ व्यासः ७ । इति हेमचन्द्रः ॥ कृष्णद्वैपायनः ८ सत्यभारतः ९ पाराशरिः १० सात्यवतः ११ । इति त्रिकाण्डशेषः ॥ वादरायणिः १२ सत्य- वतीसुतः १३ सत्यरतः १४ पाराशरः १५ । इति शब्दरत्नावली ॥ (यथा, विष्णपुराणे । “वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर्विभुः । करोति बहुलं भूयो वेदव्यासस्वरूपधृक् । द्वापरे तु युगे विष्णुर्व्यासरूपी महामुने । वेदमेकं स बहुधा कुरुते जगतो हितः ॥ यया च कुरुते तन्वा वेदमेकं पृथक् प्रभुः । वेदव्यासाभिधाना तु सा सा मूर्त्तिर्मधुद्विषः ॥”) अस्यान्यत् विवरणं व्यासशब्दे द्रष्टव्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=वेदव्यासः&oldid=506986" इत्यस्माद् प्रतिप्राप्तम्