वेष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेषः, पुं, वेवेष्टि व्याप्नोति अङ्गं वेषः पचादित्वादन् मूर्द्धन्यान्तः । विशन्ति नयनमनांस्यत्रेत्याधारे घञि वेशस्तालव्यान्तश्च । इति भरतः ॥ नेप- थ्यम् । (यथा, मनुः । ८ । २ । “विनीतवेषाभरणः पश्येत्कार्य्याणि कार्य्यि- णाम् ॥”) वेश्याजनाश्रयः । “द्वे दारिकाणां निवासस्थाने । विशति यूनां मनः कामुको वा वेशः शौ विश प्रवेशे घञ् । ‘नेपथ्ये गृहमात्रे च वेशो वेश्यागृहेऽपि च ।’ इति तालव्यान्ते रभसः ॥ ‘गृहमात्रे गणिकायाः सद्मनि वेशो भवेत्तु तालव्यः । तालव्यो मूर्द्धन्योऽलङ्करणे कथित आचार्य्यैः ॥’ इत्युष्मविवेकः । वेविषति व्याप्नुवन्ति जनमनांसीति धञि वेषो मूर्द्धन्यान्तोऽपि इत्येके तत्तु न हृद्यं मूर्द्धन्यान्तेषु सर्व्वत्र कोषादावनुपात्तत्वादिति मुकुटः ।” इति च भरतः ॥ (संस्थानविशेषः । यथा, रामा- यणे । १ । १७ । १९ । “यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ॥” “वेषः संस्थानविशेषः ।” इति तट्टिका ॥ * ॥ वेवेष्टि व्याप्नोति कर्त्तॄनिति । पचाद्यच् । कर्म्म । इति निघण्टः । २ । १ ॥ * ॥ विष व्याप्तौ + घञ् । व्याप्तिः । यथा, वाजसनेयसंहितायाम् १ । ६ । “कर्म्मणे वां वेषाय वाम् ।” “वेषायच । विषॢ व्याप्तौ । घञ् वेषो व्याप्तिः । सूचितकर्म्मसु व्याप्त्यर्थं च वां युवामह- माददे ।” इति तद्भाष्ये महीधरः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष पुं।

अलङ्काररचनादिकृतशोभा

समानार्थक:आकल्प,वेष,नेपथ्य,प्रतिकर्मन्,प्रसाधन

2।6।99।2।2

तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुम्मुखे। आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्.।

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष¦ पु॰ विष--अच् घञ् वा। भूषणादिना

१ रूपान्तरकर{??}

२ वेश्याजनालये च भरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष¦ m. (-षः) Ornament, dress, decoration. E. विष् to invest, aff. अच् or घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष [vēṣa], See बेश.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष m. ( ifc. f( आor ई). See. भूत-वेषी; fr. विष्)work , activity , management VS. Kaus3. Ka1tyS3r.

वेष m. dress , apparel , ornament , artificial exterior , assumed appearance (often also = look , exterior , appearance in general) Mn. MBh. etc. ( acc. with कृor आ-स्था, " to assume a dress " , with गम्or वि-धा, " to assume an appearance " ; with आ-च्छाद्य, " concealing one's appearance " , " disguising one's self " ; प्रच्छन्न-वेषेणid. )

वेष m. often w.r. for वेश

वेष mfn. working , active , busy VS. (See. प्रातर्-व्).

"https://sa.wiktionary.org/w/index.php?title=वेष&oldid=504634" इत्यस्माद् प्रतिप्राप्तम्