सामग्री पर जाएँ

वैतरणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैतरणिः, स्त्री, नरकसिन्धुः । इत्यमरः ॥ “वित- रणेन दानेन तीर्य्यते वैतरणी । ष्णः षित्त्वादीप् ष्णौ वैतरणिश्च । अटविपटिघाटी- वैतेरण्यर्च्चिशुण्ठीरिति ह्नस्वान्तेषु रुद्रः । ततो- ऽपि पाच्छोणादीति वा ईप् । विरुद्धं तरणं वितरणं तदस्यामस्तीति वैतरणीत्यन्ये । वित- रणौ विसूर्य्ये पाताले भवा वैतरणीत्यन्ये । वितरणिर्विनौका तरणशून्येत्यर्थः स्वार्थे ष्णे वैतरणीत्येके । सिन्धुर्नदी ।

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैतरणि(णी)¦ स्त्री वितरणेन दानेन लङ्घ्यते अण् ङीप्वा पृषो॰ ह्रस्वः। यमद्वारस्थे नदीभेदे
“नदी वैतरणीनाम दुर्गन्धा रुधिरावहा। उष्णतोया महावेगाअस्थिकेशतरङ्गिणी” प्रा॰ वि॰ जमदग्निः। तस्या उत-पत्त्यादि कालिकापु॰

१८ अ॰ उक्तं यथा(
“शनैश्चरोऽपि भूतेशमासाद्यान्तर्हितस्तदा। वाष्पवृष्टिंदुराधर्षामवजग्राह मायया। यदा स नाशकत् वाष्पान्सन्धारयितुमर्कजः। तदा महागिरौ क्षिप्ता वाष्पास्ते[Page4972-a+ 38] जलधारके। लोकालोकस्य निकटेजलधाराह्वयो गिरिः। पुष्करद्वोपपृष्ठस्थस्तोयसागरपश्चिमे। स तु सर्वप्रमाणेनमेरुपर्वतसन्निभः। तस्मिन् विन्यस्तवान् वाष्पान् न धर्त्तुंक्षम ईशितुः। विदीर्णस्तैस्तु वाष्पोघैर्मग्नमध्योऽभवद्-दुतम्। ते वाष्पाः पर्वतं भित्त्वा विविशुस्तोयसागरम्। सागरोऽपि ग्रहीतुं तान्न शशाक खरानति। ततस्तुसागरं मध्ये भित्त्वा वाष्पाः समागताः। तोयधेः प्राग्-भवां वेलां स्पर्शमात्राद्बिभेद ताम्। विभिद्यं वेलां तेवाष्पाः पुस्करद्वीपमध्यगाः। नदी वैतरणी भूत्वा पूर्व-सागरगाऽभवत्। जलधारस्य वेगेन संसर्गात् सागरस्यच। अवाप्य सौम्यतां किञ्चिद् वाष्पास्ते नाभिदन् क्षि-तिम्। तद्वाष्पव्याकुला पृथ्वी विदीर्णा स्यान्न चेच्छनिः। अवजग्राह तान् वाष्पान् सोऽपि कृष्णोऽभवद्धठात्। शनै-श्चरेण तं वोढुमसमर्थेन लोतकैः। क्षिप्तैर्विदारितः सो-ऽसौ जलधारो महागिरिः। विभिद्य पर्वतं शम्भोर्वा-ष्पास्ते सागरं ययुः। वैवस्वतपुरद्वारे योजनद्वयविस्तृता। अद्यापि तिष्ठत्यापगा हरलोतकसम्भवा। भित्त्वा वेलांततः पृथ्वीं विभिद्याशु तरङ्गिणीम्। चक्रुर्वैतरणीं नाम्नपूर्वसागरगामिनीम्। नानायानविमानेन न द्रौण्यास्यन्दनेन च। तर्त्तुंशक्या सा तु नदी तप्ततोया विभी-षणा। दुःखेन तां तु पृथिवी बिभर्त्ति महताधुना। सदाचोर्द्ध्वगतैर्वाष्पैर्विक्षिपन्ति नभश्चरान्। तस्या उपरि नोयान्ति देवा अपि भयाद्धरात्। यमद्वारं समावृत्य योजनद्वयविस्तृता। निम्नं वहति संपूर्णा भीषयन्ती जगत्त्रयम्”

२ पितृकन्याभेदे
“अयज्वानश्च यज्वानः पितरो ब्रह्मणःस्मृताः। अग्निष्वात्ता बर्हिषदो द्विधा तेर्षा व्यवस्थितिः। तेभ्यः स्वधा, स्वधा जज्ञे मेनां वैतरणीं तथा” कूर्म्मपु॰

१२ अ॰। वितरत्यनया तॄ--करणे ल्युट् ङीप्। आसन्नमृत्युकाले दातव्यायां

३ गवि च
“आसन्नमृत्युना देया गौःसवत्सा च पूर्ववत्। तदभावे च गौरेका नरकोद्धारणायवे। तदा यदि न शक्नोति दातुं वैतरणीञ्च गाम्। शक्तोऽन्योऽरुक् तदा दत्त्वा श्रेयो दद्यान्मृतस्य च”। पूर्ववत् हेमशृङ्गादिना अत्र मृतस्य सेति चकारश्रवणात्एकादशाहेऽपि वैतरणीदानाचारः” शु॰ त॰ रघु॰।
“यमद्वारे महाघोरे तप्ता वैतरणी नदी। ताञ्च तर्त्तुंददाम्येनां कृष्णां वैतरणीञ्च गाम्” शु॰ त॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैतरणि¦ f. (-णिः-णी)
1. The river of hell.
2. Name of a river in the KALINGAS.
3. The mother of the Ra4kshasas. E. वि various, तरण crossing, aff. इञ् or अण्, and ङीष् aff.; or वि prohibitive, तरणी crossing; or वितरण giving, (liberality in life securing a passage;) or वि priv., तरणी a boat, passed without a boat; the aff. is same.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैतरणिः [vaitaraṇiḥ] णी [ṇī], णी f.

N. of the river of hell; पश्यञ्जनं पतितं वैतरण्याम् Bhāg.2.2.7.

N. of a river in the country of the Kaliṅgas.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैतरणि f. =next Un2. ii , 103 Sch.

"https://sa.wiktionary.org/w/index.php?title=वैतरणि&oldid=288684" इत्यस्माद् प्रतिप्राप्तम्