वैद्य

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैद्यः, पुं, (विद्यां वेदेति । विद्या + “तदधीते तद्वेद ।” ४ । २ । ५९ । इति अण् ।) पण्डितः । यथा । कात्यायनः । “नाविद्यानान्तु वैद्येन देयं विद्याधनं क्वचित् । समविद्याधिकानान्तु देयं वैद्येन तद्धनम् ॥” तद्वंश्याः सांप्रतं सन्ति हिमोडायाजिगा~पुरे ॥” इति करवंश्यनिर्णयः ॥ “मेढ्यशासनसंभूतौ राजवंशोद्भवावुभौ । शशिराजमसीराजौ वात्स्यगोत्रसमुद्भवौ ॥ एलाचिधामनगरे शशिराजः कृताश्रयः । मसीराजः खेपडीयो वङ्गभूमौ च संस्थितः ॥” इति राजवंश्ये द्बिविधनिर्णयः ॥ “मालग्रामसमुद्भूतो धर्म्मसोमो महामतिः । जातः कौशिकगोत्रे च तद्वंश्या बहुदेशगाः ॥” इति सोमवंश्यनिर्णयः ॥ इति राढाप्रसिद्धाना- मष्टानां सेनादीनां भेदेन वंश्यनिर्णयः ॥ * ॥ “अपरे ये नन्दिचन्द्रौ धरकुण्डौ च रक्षितः । वारेन्द्रा अपि पञ्चैते प्रसिद्धास्तत्र ते पुनः ॥” इति त्रयोदशगृहाणां वैद्यानां यथाक्रमभेदेन कुलनिर्णयः ॥ * ॥ अथ सेनादीनां सामान्यतः सम्बन्धलिखनानुरोधाद्वसतिस्थानमाह । “श्रीखण्डनामनगरी राढे वङ्गे च विश्रुता । सर्व्वेषामेव वैद्यानामाश्रयो यत्र विद्यते ॥ यत्र गोष्ठी कृता वैद्यैर्यः खण्डोऽभूद्भिषक्प्रियः । विशेषतः कुलीनानां सर्व्वेषामेव वासभूः ॥” इति सामान्यतः सकलवैद्यानां वासस्थान- मुक्तम् ॥ * ॥ इति गौराङ्गमल्लिकात्मजभरत- सेनकृतवैद्यकुलतत्त्वम् ॥

वैद्यः, त्रि, वेदसम्बन्धीयः । वेदशब्दात् ष्ण्यप्रत्ययेन निष्पन्नमेतत् ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैद्य पुं।

वैद्यः

समानार्थक:रोगहारिन्,अगदङ्कार,भिषज्,वैद्य,चिकित्सक

2।6।57।1।4

रोगहार्यगदङ्कारो भिषग्वैद्यौ चिकित्सके। वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात्.।

सम्बन्धि1 : रोगी

वृत्ति : रोगनिवारणः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैद्य¦ पु॰ विद्याऽस्त्यस्य अण्।

१ पण्डिते
“नाविद्यानान्तु वैद्येनदेयं विद्याधनात् क्वचित्” दायभा॰।

२ भिषजि अमरः। तदुपकारके

३ वासकवृक्षे च शब्दच॰। वैद्योत्पत्तिश्च
“वैद्योऽश्विनीकुमारेण जातश्च विप्रयोषिति। वैद्यवी-र्य्येण शूद्रायां बभूवुर्बहवो जनाः। ते च ग्रामगुण-ज्ञाश्च मन्त्रोषधिपरायणाः। तेभ्यश्च जाताः शूद्रायांते व्यालग्राहिणो भुवि”। शौनक उवाच
“कथं ब्रा-ह्मणपत्न्यान्तु सूर्य्यपुत्रोऽश्विनीसुतः। अहो केन विपा-केन वीर्य्याधानं चकार सः”। सौतिरुवाच
“गच्छन्तींतीर्थयात्रायां ब्राह्मणीं रविनन्दनः। ददर्श कामुकींकान्तः पुष्पोद्याने मनोहरे। तया निवारितो यत्नात्बलेन बलवान् सुरः। अतीव सुन्दरीं दृष्ट्वा वीर्य्यातानंचकार सः। द्रुतं तत्याज गर्भं सा पुष्पाद्याने ममोरमे[Page4974-a+ 38] सद्यो बभूव पुत्रश्च तप्तकाञ्चनसन्निमः। सपुत्रा स्वा-मिनो गेहं जगाम व्रीडिता तदा। स्वामिनं कथया-मास यस्माद्दैवादिसङ्कटम्। विप्रोरोषेण तत्याज तञ्चपुत्रं स्वकामिनीम्। सरिद् बभूव योगेन सा च गोदा-वरी स्मृता। पुत्रं चिकित्साशास्त्रञ्च पाठयामास य-त्नतः। नानाशिल्पञ्च शस्त्रञ्च स्वयं स रविनन्दनः। विप्रश्च ज्योतिर्गणनात् वेदनाच्च निरन्तरम्। वेदधर्मप-रित्यक्तो बभूव गणको भुवि”। ब्रह्मवै॰ पु॰

१० अ॰। नरकभोगान्ते वैद्यजन्म यथा
“यः करोत्यपहारञ्च देवब्राह्मणयोर्धनम्। पातयित्वा स्वपुरुषान् दश पूर्वान् दशापरान्। स्वयं याति च धूमान्धं धूमध्वान्तसम-न्वितम्। धूमक्लिष्टो धूमभोगी वसेत्तत्र चतुर्युगम्। ततो मूषिकजातिश्च शतजन्मानि भारते। ततो नाना-विधाः पक्षिजातयः कृमिजातयः। ततो नानाविधाःवृक्षजातयश्च ततो नरः। भार्य्याहीनो वंशहीनः शवरोव्याधिसंयुतः। ततो भवेत् स्वर्णकारः स सुवर्णवणिक्ततः। ततो जवनसेवी च ब्राह्मणो गणकस्ततः। विप्रो दैवज्ञोपजीवी वैद्यजीवी चिकित्सकः”।
“लाक्षालोहादिव्यापारी रसादिविक्रयी च यः। स-याति{??}गवेष्टञ्च सर्पैर्वेष्टित एव च। वसेत् सलोममा-नाव्द तत्रैव नागदंशितः। ततो भवेत् स गणकी वैद्यश्चसप्तजन्मसु। गोपश्च कर्मकारश्च रङ्गकारस्ततः शुचिः”। ब्र-ह्मवै॰ पु॰

२८ अ॰। राजवैद्यस्य लक्षणं यथा
“परं पार-ङ्गतो यः स्यादष्टाङ्गे तु चिकित्सिते। अनाहार्य्यः सवैद्यः स्याद्धर्मात्मा च कुलोद्गतः। प्राणावार्य्यः स वि-ज्ञेयो वचनं तस्य भूभुजः। राजन्! राज्ञा सदा कार्य्यंयथाकार्य्यं पृथग्जनैः”। मात्स्ये

१८

९ अ॰।
“चि-कित्सां कुरुते यस्तु स चिकित्सक उच्यते। स चयादृक् समीचीनस्तादृशोऽपि निगद्यते। तत्त्वा-धिगतशास्त्रार्थो दृष्टकर्मा स्वयं कृती। लघुहस्तः शुचिःशूरः स्वच्छोपस्करभेषजः। प्रत्युत्पन्नमतिर्धीमान् व्यव-सायी प्रियंवदः। सत्यधर्मपरोयश्च वैद्य ईदृक् प्रशस्यते”। दृष्टकर्मा दृष्टा परेण कृता चिकित्सा येन सः। स्वयंकृती स्वयं चिकित्साकुशलः। लघुहस्तः सिद्धिमद्धस्तः। निषिद्धवैद्यो यथा
“कुचेलः कर्कशः स्तब्धः ग्रामीणः स्व-यमागतः। पञ्च वैद्या न पूज्यन्ते धन्वन्तरिसमा अपि”। वर्कशः अपियवादी। स्तब्धः साभिमानः। ग्रामीणःव्यवहा{??}चतुरः। अथ वैद्यस्य कर्म आह
“व्याधेस्तत्त्व-[Page4974-b+ 38] परिज्ञानं वेदनायाश्च निग्रहः। एतद्वैद्यस्य वैद्यत्वं नवैद्यः प्रभुरायुषः” भावप्र॰
“सत्यत्रेताद्वापरेषु युगेषु ब्रा-ह्मणाः किल। ब्रह्मक्षत्रियविट्शूद्रकन्यका उपयेमिरे। तत्र वैश्यसुतायां ये जज्ञिरे तनया अमी। सर्वे ते मुनयःख्याता वेदवेदाङ्गपारगाः। तेषां मुख्योऽमृताचार्य्य-स्तस्थावम्बाकुले हि यत्। अम्बष्ठ इत्यसाव्क्तस्ततो जातिप्रवर्त्तनाद्। परे सर्वेऽपि चाम्बष्ठा वैश्याब्राह्मणस-म्भवाः। जननीतो जनुर्लब्धा यज्जाता वेदसंस्कृतैः। अम्बष्ठास्तेन ते सर्वे द्विजा वैद्याः प्रकीर्त्तिताः। अथरुक् प्रतिकारित्वाद्भिषजस्ते प्रकीर्त्तिताः। सत्ये वैद्याःपितुस्तुल्यास्त्रेतायाञ्च तथा स्मृताः। द्वापरे क्षत्रवत्प्रोक्ताः कलौ वैश्योपमाः स्मृताः” कुलच॰। आयुर्वेद-शब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैद्य¦ mfn. (-द्यः-द्यी-द्यं)
1. Medical, practising or relating to medicine.
2. Relating or conformable to the Ve4das. m. (-द्यः)
1. A physician.
2. A tree, (Justicia ganderussa, &c.)
3. A learned man.
4. A follower of the Ve4das, or one well in them.
5. A man of a mixed class, the offspring of a Bra4hmana by a Vais4ya woman. f. (-द्या) A drug, commonly KA4KOLI
4. E. वेद the medical or A4yur-Ve4das or the Ve4das in general, and यञ् or ष्यञ् aff.; or विद्याऽस्त्यस्य अण् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैद्य [vaidya], a. (-द्यी f.)

Relating to the Vedas, spiritual.

Relating to medicine, medical. -द्यः [विद्या अस्त्यस्य अण्]

A learned man, scholar, doctor.

A medical man, physician; वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुमत्यगात् R.19. 53; वैद्यानामातुरः श्रेयान् Subhaṣ.

A man of the medical caste, supposed to be one of the mixed classes; (the offspring of a Brāhmaṇa by a Vaiśya woman). Cf. Mb.13.49.9.

A man of a lower mixed tribe (the offspring of a Śūdra father by Vaiśya mother).-Comp. -क्रिया a doctor's profession, practice of medicine.

नाथः N. of Dhanvantari.

of Śiva.

N. of a country. -बन्धुः Cassia Fistula (Mar. बाहवा).-मातृ, -सिंहा Gendarussa Vulgaris (Mar. अड्ळसा).-विद्या the science of medicine; also वैद्यशास्त्रम्.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैद्य mfn. (fr. विद्या, and in some meanings fr. वेद)versed in science , learned A1s3vGr2. Ka1ty. Mn. etc.

वैद्य mfn. relating or belonging to the वेदs , conformable to the -V वेदs , Vedic W.

वैद्य mfn. medical , medicinal , practising or relating to medicine W.

वैद्य mfn. w.r. for वेद्यMBh.

वैद्य m. a learned man , Pandit W.

वैद्य m. follower of the वेदs or one well versed in them ib.

वैद्य m. an expert (versed in his own profession , esp. in medical science) , skilled in the art of healing , a physician (accounted a mixed caste) MBh. Ka1v. etc.

वैद्य m. Gendarussa Vulgaris L.

वैद्य m. N. of a ऋषिMBh. ( w.r. for रैभ्य)

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of वरुण and सुनादेवी; father of घृणि and Muni, both of whom ate each other and died. Br. III. ५९. 6; वा. ८४. 6-8.
(II)--a Sukha god. Br. IV. 1. १८.
(III)--the king's physician skilled in अष्टाङ्ग; फलकम्:F1:  M. २१५. ३४.फलकम्:/F residence of. फलकम्:F2:  Ib. २५४. २६.फलकम्:/F [page३-331+ २५]
(IV)--a mukhya गण. वा. १००. १८.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAIDYA : One of the sons born to Varuṇa by his wife Sunādevī. His sons Ghṛṇi and Muni fought with each other and died. (Vāyu: 84: 6-8).


_______________________________
*5th word in left half of page 819 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वैद्य&oldid=504651" इत्यस्माद् पुनः प्राप्तिः