वैवस्वत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वैवस्वतः, पुं, (विवस्वतोऽपत्यमिति । अण् ।) यमः । इत्यमरः ॥ (यथा, बृहत्संहितायाम् । ६९ । २३ । “एवं शशः सप्ततिहायनोऽयं वैवस्वतस्यालयमभ्युपैति ॥” यथा च ऋग्वेदे । १० । १४ । १ । “वैवस्वतं संगमनं जनानां यमं राजानं हविषादुवस्य ॥” “वैवस्वतं विवस्वतः सूर्य्यस्य पुत्त्रम् ।” इति तद्- भाष्ये सायणः ॥ यथा च राजतरङ्गिण्याम् । ४ । १५१ । “वनराजिश्यामलेन दिशं वैवस्वताङ्किताम् ॥”) रुद्रविशेषः । इति जटाधरः ॥ शनिः । सप्तमो मनुः । (यथा, रघुवंशे । १ । ११ । “वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् ॥”) वर्त्तमानोऽयम् । अस्मिन्मन्वन्तरे वामनोऽव- तारः । पुरन्दरः इन्द्रः । आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः । अश्विनावृषभः । इत्याद्या देवा । कश्यपः अत्रिः वशिष्ठः विश्वामित्रः गोतमः जमदग्निः भरद्वाजः एते सप्तर्षयः । इक्ष्वाकुः नृगः शर्यातिः दिष्टः धृष्टः करूषकः नरिष्यन्तः पृषध्रः नाभागः कविः एते मनुपुत्त्रा दश । इति श्रीभागवतमतम ॥ * ॥ अपि च । “सप्तमञ्च प्रवक्ष्यामि यद्वैवस्वतमुच्यते । अत्रिश्चैव वशिष्ठश्च कश्यपो गौतमस्तथा ॥ भरद्वाजस्तथा योगी विश्वामित्रः प्रतापवान् । यमदग्निश्च सप्तैते सांप्रतं ये महर्षयः ॥ साध्या विश्वाश्च रुद्राश्च मरुतो वसवोऽश्विनौ । आदित्याश्च सुरास्तद्वत् सप्त देवगणाः स्मृताः ॥ इक्ष्वाकुप्रमुखाश्चास्य दशपुत्त्राः स्मृता भुवि । मन्वन्तरेषु सर्व्वेषु सप्त सप्त महर्षयः ॥ कृत्वा धर्म्मव्यवस्थानं प्रयान्ति परमं पदम् ॥” इति मात्स्ये मन्वन्तरानुकीर्त्तनो नाम ९ अः ॥ अन्यच्च । श्रीमार्कण्डेय उवाच । “आदित्या वसवो रुद्राः साध्या विश्वे मरुद्- गणाः । भृगवोऽङ्गिरसश्चाष्टौ यत्र देवगणाः स्मृताः ॥ आदित्या वसवो रुद्रा विज्ञेयाः कश्यपात्मजाः । साध्याश्च मरुतो विश्वे धर्म्मपुत्त्रा गणास्त्रयः ॥ भृगोस्तु भृगवः पुत्त्राः ह्यङ्गिरोऽङ्गिरसः सुताः । एष सर्गस्तु मारीचो विज्ञेयः सांप्रताधिपः ॥ तेजस्वी नाम चेन्द्रोऽपि महात्मा यज्ञभागभुक् । अतीतानागता ये च वर्त्तन्ते ये च सांप्रतम् ॥ सर्व्वे ते त्रिदशेन्द्रास्तु विज्ञेयास्तुल्यलक्षणाः । सहस्राक्षाः कुलिशिनः सर्व्व एव पुरन्दराः ॥ मघवन्तो वृषाः सर्व्वे शृङ्गिणो गजगामिनः । ते शतक्रतवः सर्व्वे भूताभिभवतेजसः ॥ धर्म्माद्यैः कारणैरेतैराधिपत्यगुणान्विताः । भूतभव्यभवन्नाथाः शृणु चैतत् त्रयं द्बिज ॥ भूर्लोकोऽयं स्मृतो भूमिरन्तरीक्षं भुवः स्मृतम् । स्वराख्यश्च तथा स्वर्गस्त्रैलोक्यमिति गद्यते ॥ अत्रिश्चैव वशिष्ठश्च कश्यपश्च महानृषिः । गौतमश्च भरद्बाजो विश्वामित्रश्च कौशिकः ॥ तथैव पुत्त्रो भगवानृचीकस्य महात्मनः । जमदग्निश्च सप्तैते मुनयोऽत्र तथान्तरे ॥ इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च । नरिष्यन्तश्च विख्यातो नाभागो दिष्ट एव च ॥ करूषश्च पृषध्रश्च भूमिपा लोकविश्रुताः । मनोर्व्वैवस्वतस्यैते नव पुत्त्राः प्रकीर्त्तिताः ॥ वैवस्वतमिदं देवि ! कथितं ते मयान्तरम् । अस्मिन् श्रुते नरः सद्यः पठिते चैव सत्तम । मुच्यते पातकैः सर्व्वैः पुण्यञ्च महदश्नुते ॥” इति मार्कण्डेयपुराणे वैवस्वतमन्वन्तरं समाप्तम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वैवस्वत पुं।

यमः

समानार्थक:धर्मराज,पितृपति,समवर्तिन्,परेतराज्,कृतान्त,यमुनाभ्रातृ,शमन,यमराज्,यम,काल,दण्डधर,श्राद्धदेव,वैवस्वत,अन्तक,धर्म,हरि,कीनाश,जीवितेश

1।1।59।1।4

कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः। राक्षसः कौणपः क्रव्यात्क्रव्यादोऽस्रप आशरः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वैवस्वत¦ पु॰ विवस्वतोऽपत्यम् तस्येदं वा अण।

१ यमे अमर-

२ अग्नौ

३ रुद्रभेदे च जटा॰।

४ तत्सम्बन्धिनि त्रि॰
“वैव-स्वतकरक्रिया” इत्युद्भटः।

५ दक्षिणदिशि स्त्री ङीप्।

६ सप्तमे मनुभेदे
“मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः। सप्तमो वर्त्तमानोऽयस्तदपत्यानि मे शृणु!। इक्ष्वाकुर्न[Page4977-b+ 38] भसश्चैव धृष्टः शर्यातिरेव च। नरिष्यन्तोऽथ नाभागःसप्तमो दिष्ट उच्यते। वृषणश्च पृषध्रश्च दशमो बसुमान्स्मृतः। मनोर्वैवस्वतस्यैते दश पुत्राः परन्तप!। आदित्यावसवो रुद्रा विश्वे देवा मरुद्गणाः। अश्विनी वृषभोराजन्! इन्द्रस्तेषां पुरन्दरः। कश्यपोऽत्रिर्वशिष्ठश्चविश्वामित्रश्च गोतमः। यमदग्निर्भरद्वाज इति सप्तर्षयःस्मृताः। अत्रापि भगवज्जन्म कश्यपाददितेरभूत्। आ-दित्यानामवरजो विष्णुर्वामनरूपधृक्। संक्षेपतो मयो-क्तानि सप्त मन्वन्तराणि ते” भाग॰

१२ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वैवस्वत¦ m. (-तः)
1. YAMA.
2. One of the RUDRAS.
3. The seventh MANU [Page693-a+ 60] or the MANU of the present period.
4. The planet Saturn. n. (-तं) The present age, presided over by the seventh MANU. E. विवस्वत् the sun, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वैवस्वतः [vaivasvatḥ], [विवस्वतो$पत्यम् अण्]

N. of the seventh Manu who is supposed to preside over the present age; see under Manu; वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् R.1.11; U.6.18.

N. of Yama; यानं सस्मार कौबेरं वैवस्वतजिगीषया R.15.45.

N. of Agni.

One of the eleven Rudras.

The planet Saturn. -तम् The present age or Manvantara, as presided over by Manu Vaivasvata or the seventh Manu. -Comp. -मन्वन्तरम् N. of the 7th (the present) मन्वन्तर.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वैवस्वत mf( ई)n. (fr. विवस्वत्)coming from or belonging to the sun R.

वैवस्वत mf( ई)n. relating or belonging to यमवैवस्वतKaus3. MBh. Ka1v.

वैवस्वत mf( ई)n. relating to मनुवैवस्वतMBh. Hariv. Pur.

वैवस्वत m. patr. of यमRV. etc.

वैवस्वत m. of a मनुAV. S3Br. etc.

वैवस्वत m. of the planet Saturn L.

वैवस्वत m. N. of one of the रुद्रs VP.

वैवस्वत m. patr. of यमीMW.

वैवस्वत m. the south L.

वैवस्वत m. N. of यमुनाA.

वैवस्वत n. ( scil. अन्तर)N. of the 7th or present मन्व्-अन्तर(as presided over by मनुवैवस्वत) MW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--Seventh Manu, see under Manu; epoch of; फलकम्:F1:  भा. I. 1. १०९; 3. १५; Br. II. १३. ६७; वा. २१. १५; ६२. 4; ६४. 1-2; ९८. ७१.फलकम्:/F a son of ब्रह्मा from the seventh face; फलकम्:F2:  वा. 1. १२७; २३. ११४.फलकम्:/F from ऋकार Svara--the 7th face of the १४ faced god; फलकम्:F3:  Ib. २१. ३९; २६. ३९; ३१. १५.फलकम्:/F eight देवगणस् born of मारीच and कश्यप; फलकम्:F4:  Br. I. 1. १०९; वा. ६४. 1-2.फलकम्:/F sons of, nine. फलकम्:F5:  Ib. ६४. २९-30.फलकम्:/F The great श्राद्- dhadeva. फलकम्:F6:  Vi. III. 1. ३०-33.फलकम्:/F
(III)--Yama, the God of death; overlord of the पितृस्; फलकम्:F1:  M. १७४. ४९; २१३. 7; वा. ७०. 8; Vi. V. २१. ३०.फलकम्:/F offering of पिण्डस् in श्राद्ध to; फलकम्:F2:  Br. III. 8. 8; ११. ९४; १२. ३९; Vi. III. १५. २८.फलकम्:/F resident of Sam- yamana. फलकम्:F3:  वा. ५०. ८८; १०८. ३०; १११. ३९.फलकम्:/F
(IV)--temple of, in सुपक्ष hill. वा. ३९. ६३.
(V)--the planet शनैश्चर with प्रकृति of Rudra. वा. ५३. ३२.
(VI)--a son of सम्ज्ञ; learned and great; antara of, constituting २८ yugas when राजऋषिस् rule at the end [page३-339+ ३०] of which a period of ४० yugas set in; फलकम्:F1:  वा. १००. ५६; ९९. ४३५, ४५७-60; Vi. III. 2. 2.फलकम्:/F offered the kingdom of earth after the epoch of चाक्षुष Manu; the first Manu had nine sons; finding at first that he could not create beings he caused a sacrifice in honour of Mitra and वरुण out of which came इडा or इला. फलकम्:F2:  वा. ८५. 1-7.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Vaivasvata  : nt.: Name of the 7th manvantara (i. e. the present age) which is presided over by Manu Vaivasvata.

An unknown being without a bodily form, stationed in the sky, told Ekata, Dvita and Trita (uvāca khasthaṁ kim api bhūtaṁ tatrāśarīrakam 12. 323. 46) that in the Tretāyuga of the Vaivasvata Antara they would work as helpers of gods for achieving their (gods') purpose (vaivasvate 'ntare viprāḥ prāpte tretāyuge tataḥ/surāṇāṁ kāryasiddhyarthaṁ sahāyā vai bhaviṣyatha) 12. 323. 51.

_______________________________
*2nd word in left half of page p270_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=वैवस्वत&oldid=446568" इत्यस्माद् प्रतिप्राप्तम्