सामग्री पर जाएँ

वैशेषिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशेषिकः, पुं, (विशेषं वेत्ति अधीते वा । विशेष + ठक् ।) कणादमुनिकृतदर्शनशास्त्रवेत्ता । तत्- पर्य्यायः । औलुक्यः २ । इति हेमचन्द्रः ॥ (विशेषमधिकृत्य कृतो ग्रन्थः । विशेषः + “अधि- कृत्यकृते ग्रन्थे ।” ४ । ३ । ८७ । इति ठक् ।) कणादमुनिकृतदर्शनशास्त्रविशेषः । स तु विशेष- पदार्थनिरूपकग्रन्थः । अस्य मतं न्यायदर्शनमत- तुल्यम् । अत्र जगतः कारणं परमाणुपर्य्यन्तं निरूपितम् ॥ * ॥ इह खलु निखिलप्रेक्षावन्- निसर्गप्रतिकूलवेदनीयतया निखिलात्मसंवेदन- सिद्धं दुःखं जिहासतस्तद्धानोपायं जिज्ञासुः परमेश्वरसाक्षात्कारमुपायमाकलयति । “यदा चर्म्मवदाकाशं वेष्टयन्तीह मानवाः । तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥” इत्यादिवचननिचयप्रामाण्यात् । परमेश्वरस्य साक्षात्कारश्च श्रवणमननभावनाभिर्भावनीयः । यदाह । “आगमेनानुमानेन ध्यानाभ्यासबलेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥” इति ॥ तत्र मननमनुमानाधीनम् । अनुमानञ्च व्याप्ति- ज्ञानाधीनम् । व्याप्तिज्ञानञ्च पदार्थविवेकसा- पेक्षम् । अतः पदार्थषट्कम् “अथातो धर्म्मं व्याख्यास्यामः ।” इत्यादिकायां दशलक्षण्यां कणभक्षेण भगवता व्यवस्थापि । तत्राह्निकद्बया- त्मके प्रथमेऽध्याये समवेताशेषपदार्थकथनम- कारि । तत्रापि प्रथमाह्रिके जातिमन्निरूपणम् । द्वितीयाह्रिके जातिविशेषयोर्निरूयणम् । आह्निकद्वयात्मके द्बितीये भूतदिक्काललक्षणम् । तत्रापि प्रथमाह्निके भूतविशेषलक्षणम् । द्बितीये दिक्कालप्रतिपादनम् । आह्निकद्वयात्मके तृतीये आत्मान्तःकरणलक्षणम् । तत्राप्यात्मलक्षणं प्रथमे । द्वितीये अन्तःकरणलक्षणम् । आह्निक- द्वययुक्ते चतुर्थे शरीरतदुपयोगिविवेचनम् । तत्रापि प्रथमे तदुपयोगिविवेचनम् । द्बितीये शरीरविवेचनम् । आह्रिकद्वयवति पञ्चमे कर्म्म- प्रतिपादनम् । तत्रापि प्रथमे शरीरसम्बन्धि- कर्म्मचिन्तनम् । आह्रिकद्वयशालिनि षष्ठे श्रौतधर्म्मनिरूपणम् । तत्रापि प्रथमे दानप्रति- ग्रहधर्म्मविवेकः । द्वितीये चातुराश्रम्योचित- धर्म्मनिरूपणम् । तथाविधे सप्तमे गुणसमवाय- प्रतिपादनम् । तत्रापि प्रथमे बुद्धिनिरपेक्षगुण- प्रतिपादनम् । द्वितीये तत्सापेक्षगुणप्रतिपादनं समवायप्रतिपादनञ्च । अष्टमे निर्व्विकल्पक- सविकल्पकप्रत्यक्षप्रमाणचिन्तनम् । नवमे बुद्धि- विशेषप्रतिपादनम् । दशमे अनुमानप्रतिपाद- नम् । तत्र उद्देशो लक्षणं परीक्षा चेति त्रिविधास्य शास्त्रस्य प्रवृत्तिः । इति वैशेषिक- ग्रन्थविवरणम् ॥ * ॥ (न्यायमते आत्मादिगतपारिभाषिकगुणः । यथा, भाषापरिच्छेदे । “बुद्ध्यादिषट्कं स्पर्शान्ताः स्नेहः सांसिद्धिको- द्रवः । अदृष्टभावना शब्दा अमी वैशेषिका गुणाः ॥” विशेष एव । “विनयादिभ्यष्ठक् ।” ५ । ४ । ३४ । इति स्वार्थे ठक् ॥ असाधारणे, त्रि । यथा, महाभारते । ७ । ५ । १५ । “युगपन्नतु ते शक्या कर्त्तुं सर्व्वे पुरःसरा । एक एव तु कर्त्तव्यो यस्मिन् वैशेषिका गुणाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशेषिक पुं।

सप्तपदार्थवादिनः

समानार्थक:वैशेषिक,औलूक्य

2।7।6।4।1

धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः। दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ॥ मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि। वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि। नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः। चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ।

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशेषिक¦ न॰ विशेषं पदार्थभेदमधिकृत्य कृतो ग्रन्थः ठञ्। कणादप्रणीते

१ शास्त्रभेदे। तदधीते अण्।

२ काणाद-शास्त्राभिज्ञे त्रि॰। तस्येदम् अण्।

३ काणादशास्त्रसम्ब-न्धिनि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशेषिक¦ m. (-कः) A follower of the Vais4e4shika doctrine. n. (-कं) The Vais4e4shika doctrine, or branch of the Nya4ya or logical school of philosophy, instituted by KANA4DA. It differs from GAUTAMA'S system in recognizing only seven categories instead of sixteen. E. विशेष difference, (from the original Nya4ya of GAUTAMA,) ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशेषिक [vaiśēṣika], a. (-की f.)

Characteristic, special; विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः (प्राहुर्विषयगोप्तारम्) Mb.12.47.7; 7.5.15.

Belonging to the Vaiśeṣika doctrine. -कः A follower of the Vaiśeṣika doctrine. -कम् [विशेषं पदार्थ- भेदमधिकृत्य कृतो ग्रन्थः ठञ्] One of the six principal Darśanas or systems of Hindu philosophy founded by Kaṇāda; it differs from the Nyāya philosophy of Gautama in that it recognizes only seven instead of sixteen categories or heads of predicables (the earlier writers e. g. Kaṇāda recognizing only six), and lays particular stress upon Viśeṣa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशेषिक mf( ई)n. (fr. वि-शेष, p.990) special , peculiar , specific , characteristic A1past. Sus3r. Bha1sha1p. Hcat.

वैशेषिक mf( ई)n. distinguished , excellent , pre-eminent MBh.

वैशेषिक mf( ई)n. relating or belonging to or based on or dealing with the वैशेषिकdoctrine Bha1sha1p. Madhus.

वैशेषिक m. a follower of the -V वैशेषिकdoctrine Kap. Kusum. Buddh.

वैशेषिक n. peculiarity , distinction Kan2.

वैशेषिक n. N. of the later of the two great divisions of the न्यायschool of philosophy (it was founded by कणा-द, and differs from the , " न्यायproper " founded by गौतम, in propounding only seven categories or topics instead of sixteen ; and more especially in its doctrine of विशेष, or eternally distinct nature of the nine substances , air , fire , water , earth , mind , ether , time , space , and soul , of which the first five , including mind , are held to be atomic) IW. 65 etc.

"https://sa.wiktionary.org/w/index.php?title=वैशेषिक&oldid=292497" इत्यस्माद् प्रतिप्राप्तम्