व्यभिचारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यभिचारी, [न्] पुं, (ब्यभिचरतीति । वि + अभि + चर + णिनिः ।) चतुस्त्रिंशत्प्रकार- शृङ्गारभावविशेषः । तद्यथा । निर्व्वेदः २ ग्लानिः २ शङ्का ३ असूया ४ मदः ५ श्रमः ६ आलस्यम् ७ दैन्यम् ८ चिन्ता ९ मोहः १० स्मृतिः ११ धृतिः १२ व्रीडा १३ चपलता १४ हर्षः १५ आवेगः १६ जडता १७ गर्व्वः १८ विषादः १९ औत्सुक्यम् २० निद्रा २१ अपस्मरः २२ सुप्तः २३ विबोधः २४ अमर्षः २५ अवहित्थः २६ उग्रता २७ मतिः २८ उपलम्भः २९ व्याधिः ३० उन्मदः ३१ मरणम् ३२ त्रासः ३३ वितर्कः ३४ । इति हेमचन्द्रः ॥ (अस्य लक्षणादिकं यथा, साहित्यदर्पणे । ३ । १६८ । “विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः । स्थायिन्युन्मग्ननिर्म्मग्नास्त्रयस्त्रिंशच्च तद्भिदाः ॥” के ते इत्याह । “निर्व्वेदावेगदैन्यश्रममदजडता औग्र्यमोहौ विबोधः स्वप्नापस्मारगर्व्वा मरणमलसतामर्षनिद्रा- वहित्थाः ॥ औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसत्रासलज्जा हर्षासूयाविषादाः सधृतिचपलताम्लानिचिन्ता वितर्काः ॥” एतेषां लक्षणादिकं तत्रैव विशेषतो द्रष्टव्यम् ॥) त्रि, व्यभिचारविशिष्टः । (स्वमार्गच्युतः । यथा, कथासरित्सागरे । १५ । ५५ । “लब्धापि मन्त्रिताख्यातिरस्माकं यान्यथा भवेत् । स्वामिसंभावनायाश्च भवेम व्यभिचारिणः ॥” अनित्यः । आगमापायी । यथा, भागवते । ११ । ३ । ३८ । “नात्मा जजान न मरिष्यति नैधतेऽसौ न क्षीयते सवनविद्व्यभिचारिणां हि ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यभिचारिन्¦ पु॰ वि + अभि + चर--णिनि।

१ अलङ्कारोक्तेरसप्रादुर्भवाङ्गे निर्वेदादौ सञ्चारिभावे तल्लक्षणभेदा-दिकं सा॰ द॰ उक्तं यथा
“विशेषादाभिमुख्येन चरन्तोव्यभिचारिणः। स्थायिन्युनग्ननिरंग्नास्त्रयस्त्रिंशत्तुतद्भिदाः। निर्वेदावेगदैन्यश्रममदजडता औग्र्यमौहौविबोधः स्वप्नाषस्मारगर्वामरणमलसतामर्षनिद्राव हित्थाः। ओत्सुक्योन्मादशङ्का स्मृतिमतिसहिता व्याधिसन्त्रास-लज्जा हर्मासूयाविषादाः सधृतिचपलता ग्लानिचिन्तावितर्काः” इति विभज्य लक्षिता यथा
“तत्त्वज्ञानापदी-र्ष्यादेर्निर्वेदः

१ स्वावमानना। दैन्यचिन्ताश्रुनिश्वासवैवर्ण्यो-च्छसितादिकृत्। आवेगः

२ सम्भ्रमस्तत्र वर्षजे पीडिताङ्गता। उत्पातजे स्रस्तताङ्गे धूमाद्याकुलताग्निजे। राजविद्र-वजादेस्तु शस्त्रनागादियोजनम्। गजादेःस्तम्भकम्पादिःपांश्वाद्याकुलतानिलात्। इष्टाद्धर्षाः शुचोऽनिष्टाज्ज्ञे-याश्चान्ये यथायथम्। दौर्गत्याद्यैरनौजस्यं दैन्यं

३ मलि-न तादिकृत्। खेदोरत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमः

४ । सम्मोहानन्दसम्भेदो मदो

५ मद्योपयोगजः। अमुनाचोत्तमः शेते मध्या हसति गायति। अधमप्रकृतिश्चापिपरुषं वक्ति रोदिति। अप्रतिपत्तिर्जडता

६ स्यादिष्टा-निष्टदर्शनश्रुतिभिः। अनिमिषनयननिरीक्षणतूष्णींभा-वादयस्तत्र। शौर्य्यापराधादिभवं मवेच्चण्डत्वमुग्रता

७ । तत्र स्वेदा शिरःकम्पतर्जनाताडनादयः। मोहो

८ विचि-त्तता भीतिदुःखावेगानुचिन्तनैः। घूर्णनामात्रपतनभ्रम-णादर्शनादिकृत्। निद्रापगमहेतुभ्यो विबोध

९ श्चेतनागमः। जृम्भाङ्गभङ्गनयनमीलनाङ्गावलोककृत्। स्वप्नो

१० निद्रा-मुपेतस्य विषयानुभवस्तु यः। कोपावेगभयग्लानिसुख-दुःखादिकारकः। मनःक्षेपस्त्वपस्मारो

११ ग्रहाद्याकेशना-दिन्नः। भूपातकम्पप्रस्वेदफेनलालादिकारकः। गर्वो

१२ मदः प्रभावश्रीविद्यासत्कुलतादिजः। अवज्ञासविला-लाङ्गदर्शनाविनयादिकृत्। शराद्यैर्मरणं

१३ जीवत्यागोऽ-ङ्गपतनादिकृत्। आलस्यं

१४ श्रमगर्भाद्यैर्जाड्यं जृम्भा-क्षुतादिकृत्। निन्दाक्षेपापमानादेरमर्षो

१५ ऽभिनिवि-ष्टता। नेत्ररागशिरःकम्पभ्रू भङ्गोत्तर्जनादिकृत्। चेतः-[Page4982-b+ 38] सम्मीलनं निद्रा

१६ श्रमक्लममदादिजम्। जृम्भाक्षिमी-लनोच्छासगात्रभङ्गादिकारकम्। भयनीरवलज्जादेर्हर्षा-द्याकारगुप्तिरवहित्था

१७ । व्यापारान्तरसक्त्यन्यथाभा-षणविलोकनादिकरी। इष्टानवाप्ते रौत्सुक्यं

१८ कालक्षे-पासहिष्णुता। चित्ततापत्वरास्वेददीर्घनिश्वसितादिकृत्। चित्तसम्मोह उन्मादः

१९ कामशोकभयादिभिः। अस्था-नहासरुदितगीतप्रलपनादिकृत्। परक्रौर्य्यात्मदोषाद्यैःशङ्का

२० ऽनर्थस्य तर्कणम्। वैवर्ण्यकम्पवैस्वर्य्यपार्श्वालो-कास्यशोषकृत्। सदृशज्ञानचिन्ताद्यैंर्भ्रूसमुन्नमनादिकृत्। स्मृतिः

२१ पूर्वानुभूतार्थविषयज्ञानमुच्यते। नीतिमार्गा-नुसृत्यादेरर्थनिर्द्धारणं मतिः

२२ । स्मेरता धृतिसन्तोषौबहुमानश्च तद्भवाः। व्याधि

२३ र्ज्वरादिर्वाताद्यैर्भूमीच्छो-त्कम्पनादिकृत्। निर्घातविद्युदुल्कादैस्त्रासः

२४ कम्पा-दिकारकः। धार्ष्ट्याभावो व्रीडा

२५ वदनानमनादिकृद्दुराचारात्। हर्ष

२६ स्त्विष्टाव्याप्तेर्मनःप्रसादाऽश्रुग-द्गदादिकरः। असूया

२७ ऽन्यगुणर्द्धीनामौद्धत्यादसहि-ष्णुता। दोषोद्वोषभ्रूविभेदावज्ञाक्रोधेङ्गितादिकृत्। उपायाभावजन्मा तु विषादः

२८ सत्त्वसङ्क्षयः। निः-श्वासोच्छासहृत्तापसहायान्वेषणादिकृत्। ज्ञानाभीष्टा-गमाद्यैस्तु सम्पूर्णस्पृहता धृतिः

२९ । सौहित्यवचनोल्ला-ससहासप्रतिभादिकृत्। मात्सर्य्यद्वेषरागादेश्चापल्यं

३० त्वनवस्थितिः। तत्र भत्र्सनपारुष्यस्वच्छन्दाचरणादयः। रत्यायासमनस्तापक्षुत्पिपासादिसम्भवा। ग्लानि

३१ र्गिष्प्रा-णताकम्पकार्श्यानुत्साहतादिकृत्। ध्यानं चिन्ता

३२ हितानाप्तेः शून्यताश्वासतापकृत्। तर्को

३३ विचारःसन्देहाद् भ्रूशिरोऽङ्गुलिनर्त्तकः। रत्यादयोऽप्यनियतेरसे स्युर्व्यभिचारिणः। शृङ्गारवीरयोर्हासो वीरेक्रोधस्तथा मतः। शान्ते जुगुप्सा कथिता व्यभिचारि-तया पुनः। इत्याद्यन्यत्समुन्नेयं स्वयम्भावितबुद्धिभिः”। न्यायोक्ते

२ व्यभिचाररूपदोषवति हेतुपदार्थे च।

३ प-रपुरुषगामिन्यां स्त्रियां स्त्री ङीप्।
“हृताधिकारांमलिनां पिण्डमात्रोपजीविनीम्। परिभूतामधः-शय्यां वासयेद्व्यभिचारिणीम्”।
“सोमः शौचं ददौतासां गन्धर्वश्च शुभां गिरम्। पावकः सर्वभ-क्षत्वं मेध्या वै योषितो ह्यतः” इति तु स्त्रीसामा-न्यविषयम्।
“व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधी-यते। गर्भभर्तृवधे तासां तथा महति पातके” ग-रुडे

९५ अ॰। तस्याः परित्यागादि हेतुमाह हारीतः[Page4983-a+ 38]
“गर्भिणीमधोवर्णगां शिष्यसुतगामिनीं पापव्यसनासक्तांधनधान्यक्षयकरीं वर्जयेत्”। यमः
“स्वच्छन्दगा हिया नारी तस्यास्त्यागो विधीयते। न चैव स्त्रीवधःकार्य्यो न चैवाङ्गवियोजनम्”। वृहस्पतिः
“हीनवर्णोपभुक्ता या त्याज्या बध्यापि वा भवेत्”। विशेषयतिमिताक्षरायां स्मृतिः
“ब्राह्मणक्षत्रियविशां भार्य्याःशूद्रेण सङ्गताः। अप्रजास्ताविशुद्ध्यन्ति प्रायश्चित्तेन ने-तराः”। एतत् बलात्कारविषयम् उद्वा॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यभिचारिन्¦ mfn. (-री-रिणी-रि)
1. Following or doing improper.
2. Going astray, (literally or figuratively.) n. (-रि) A property, or class of properties into which feelings and emotions, as objects of poeti- cal description are classed; or the transitory feeling, (op. to स्थायिन्) which does not pervade a composition but, if properly developed at any stage, strengthens the prevailing sentiment. the BHA4VAS called VYABHICHA4RIS are thirty-two in number, to which two others are sometimes added, making thirty- four, viz:--
1. NIRVEDA, humility, self-abasement;
2. GLA4NI, weakness, exhaustion;
3. S4ANKA4, apprehension;
4. ASU4A4, calumny;
5. MADA, inebriety;
6. S4HRAMA, fatigue;
7. A4LASYA, indolence;
8. DAINYA, indigence, distress.
6. CHINTA4, secret desire; contemplation of the object beloved;
10. MO4HA, loss of sense or presence of mind from fear, anxiety, &c.;
11. SMRITI4, recollection but especially the recollection of an absent or faithless lover exci- ted by present objects;
12. DHRITI4, the enjoyment or consciousness of amatory woe, resignation or abandonment to despair, &c.;
13. VRI4DA, shame;
14. CHAPALATA4, fickleness, unsteadiness, want of firmness and steadiness;
15. HARSA, delight;
16. A4BE4GA, hurry, flurried haste;
17. JARATA4, ignorance, imbecility;
18. GARBA, pride, arrogance;
19. BISHA4DA, want of energy or spirits, depress- ion of mind;
20. AUTSUKYA, regret, painful remembrance of some object lost or absent;
21. NIDRA4, sluggishness, sleepiness;
22. APASMA4RA, epilepsy;
23. S4UPTA, sleep;
24. BIBODHA, waking;
25. AMARSHA, wrathful impatience;
26. ABAHIT'THA4, dissimulation;
27. UGRATA4, passion, rage;
28. MATI, intelligence, knowledge;
29. UPA4LAMBHA, reviling;
30. BYA4DHI, sickness, disease;
31. UNMA4DA, madness, delirium;
32. MARAN4A, death; the other two are,
33. TRA4SA, fear;
34. BITARKA, doubt, deliberation. f. (-रिणी) A wanton woman, an unchaste wife. E. वि and अभि before चर् to go, aff. णिनि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यभिचारिन् [vyabhicārin], a. Straying or deviating from, going astray, erring, trespassing; निगृह्य दापयेच्चैनं समयव्यभिचारिणम् Ms.8.22.

Irregular, anomalous.

Untrue, false; see अव्यभिचारिन्.

Faithless, unchaste, adulterous.

Profligate, wanton.

Departing from its usual meaning, having several secondary meanings (as a word).

Changeable, inconstant; नात्मा जजान न मरिष्यति नैधते$सौ न क्षीयते सवनविद्व्यभिचारिणां हि Bhāg.11.3.38.-m., -व्यभिचारिभावः A transitory feeling, an accessory (opp. स्थायिन् or स्थायिभाव q. v.). (Though like the Sthāyibhāvas these accessories do not form a necessary substratum of any rasa, still they act as feeders to the prevailing sentiment, and strengthen it in various ways, whether openly or covertly. They are said to be 33 or 34 in number; for an enumeration of these, see K. P. Kārikās 31-34, S. D.169 or R. G. first Ānana; cf. विभाव and स्थायिभाव also).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यभिचारिन्/ व्य्-अभिचारिन् mfn. going astray , straying or deviating or diverging from( abl. ) Hariv. Ka1v. Katha1s. etc.

व्यभिचारिन्/ व्य्-अभिचारिन् mfn. following bad courses , doing what is improper , profligate , wanton , unchaste ( esp. said of women) , faithless towards( gen. ) MBh. Ka1v. etc.

व्यभिचारिन्/ व्य्-अभिचारिन् mfn. changeable , inconstant ( opp. to स्थायिन्; See. रि-भावabove ) MBh. Sa1h. Prata1p.

व्यभिचारिन्/ व्य्-अभिचारिन् mfn. ( ifc. )transgressing , violating , breaking(See. समय-व्य्)

व्यभिचारिन्/ व्य्-अभिचारिन् mfn. irregular , anomalous MW.

व्यभिचारिन्/ व्य्-अभिचारिन् mfn. (a word) having a non-primitive or secondary meaning , having several meanings ib.

व्यभिचारिन्/ व्य्-अभिचारिन् n. anything transitory (as feelings etc. ) ib.

"https://sa.wiktionary.org/w/index.php?title=व्यभिचारिन्&oldid=296313" इत्यस्माद् प्रतिप्राप्तम्