व्याध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याधः, पुं, (विध्यति मृगादीन् । व्यध + “स्याद्ब्ब्य- धेति ।” ३ । १ । १४१ । इति णः ।) मृग- हिंसकजातिः । शिकारी इति भाषा । स तु सर्व्वस्विपत्न्यां क्षत्त्रियाज्जातः । यथा, -- “नापिताद्गोपकन्यायां सर्व्वस्वी तस्य योषिति । क्षत्त्राद्वभूव व्याधश्च बलवान् मृगहिंसकः ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥ तत्पर्य्यायः । मृगवधाजीवः २ मृगयुः ३ लुब्धकः ४ । इत्यमरः ॥ मृगावित् ५ द्रोहाटः ६ । इति जटाधरः ॥ मृगजीवनः ७ बलपांशुनः ८ । इति शब्दरत्नावली ॥ (यथा, -- “विद्धा मृगी व्याधशिलीमुखेन मृगोऽपि तत्कातरवीक्षणेन । असून् परित्यज्य गतव्यथा सा मृगस्य जीवावधिराधिरासीत् ॥” इत्युद्भटः ॥) दुष्टः । इति मेदिनी ॥ (यथा, भागवते । ३ । १४ । ३४ । “व्याधस्याप्यनुकम्प्यानां स्त्रीणां देवः सती- पतिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याध पुं।

मृगवधाजीवः

समानार्थक:व्याध,मृगवधाजीव,मृगयु,लुब्धक

2।10।21।1।1

व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः। कौलेयकः सारमेयः कुक्कुरो मृगदंशकः॥

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याध¦ पुंस्त्री॰ व्यध--ण। मृगहिंसके क्षत्रियात् सर्वस्विपत्न्यांजाते

१ सङ्कीर्णजातिभेदे पुंस्त्री॰ स्त्रियां ङीष्।
“ना-पितात् गोपकन्यायां सर्वस्वी तस्य योषिति। क्षत्त्राद्बभूव व्याधश्च बलवान् मृगहिंसकः” ब्रह्मवै॰ व्र॰

१० अ॰।

२ दुष्टे त्रि॰ मेदि॰। भावे घञ्।

३ वेधने

४ पीडने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याध¦ m. (-धः)
1. A hunter, one who lives by killing deer, &c.
2. A low or wicked man. E. व्यध् to pierce, ण aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याधः [vyādhḥ], [व्यध्-ण]

A hunter, fowler (by caste or profession).

A wicked or low man. -Comp. -भीतः a deer.

व्याधं व्याधम् [vyādha] [ṃvyādham], व्याधम् ind. (= विद्ध्वा वद्ध्वा; आभीक्ष्णे णमुल्) Inflicting wounds again and again; व्याधं व्याधममूढौ तौ यमसाच्चक्रतुर्द्विषौ Bk.5.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याध m. " one who pierces or wounds " , a hunter , one who lives by killing deer (said to be the son of a क्षत्रियby a low-caste mother) Mn. MBh. etc.

व्याध m. a low man , wicked person L.

व्याध etc. See. व्यध्, p.1031.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a hunter who attained permanent fame. भा. X. ७२. २१.

"https://sa.wiktionary.org/w/index.php?title=व्याध&oldid=438151" इत्यस्माद् प्रतिप्राप्तम्