व्याधः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याधः, पुं, (विध्यति मृगादीन् । व्यध + “स्याद्ब्ब्य- धेति ।” ३ । १ । १४१ । इति णः ।) मृग- हिंसकजातिः । शिकारी इति भाषा । स तु सर्व्वस्विपत्न्यां क्षत्त्रियाज्जातः । यथा, -- “नापिताद्गोपकन्यायां सर्व्वस्वी तस्य योषिति । क्षत्त्राद्वभूव व्याधश्च बलवान् मृगहिंसकः ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥ तत्पर्य्यायः । मृगवधाजीवः २ मृगयुः ३ लुब्धकः ४ । इत्यमरः ॥ मृगावित् ५ द्रोहाटः ६ । इति जटाधरः ॥ मृगजीवनः ७ बलपांशुनः ८ । इति शब्दरत्नावली ॥ (यथा, -- “विद्धा मृगी व्याधशिलीमुखेन मृगोऽपि तत्कातरवीक्षणेन । असून् परित्यज्य गतव्यथा सा मृगस्य जीवावधिराधिरासीत् ॥” इत्युद्भटः ॥) दुष्टः । इति मेदिनी ॥ (यथा, भागवते । ३ । १४ । ३४ । “व्याधस्याप्यनुकम्प्यानां स्त्रीणां देवः सती- पतिः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याधः [vyādhḥ], [व्यध्-ण]

A hunter, fowler (by caste or profession).

A wicked or low man. -Comp. -भीतः a deer.

"https://sa.wiktionary.org/w/index.php?title=व्याधः&oldid=299590" इत्यस्माद् प्रतिप्राप्तम्