शकुनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनम्, क्ली, (शक्नोति शुभाशुभं विज्ञातुमनेनेति । शक् + “शकेरुनोन्तोन्त्युनयः ।” उणा० ३ । ४९ । इति उनः ।) शुभशंसिनिमित्तम् । इति मेदिनी ॥ सगुन् इतिहिन्दीभाषा । फललक्षणम् । इत्यजयपालः ॥ * ॥ अथ शुभशकुनानि । “कीर्त्तनात् श्रवणतो विलोकनात् स्पर्शनात् समधिकं समोत्तरम् । मङ्गलाय दधिचन्दनादिकं स्यात् प्रवासभवनप्रवेशयोः ॥ दध्याज्यदूर्व्वाक्षतपूर्णकुम्भाः मिद्धान्नसिद्धार्थकचन्दनानि । आदर्शशङ्खामिषमौनमृत्सा- गोरोचनागोमयगोमधूलिः । उग्रं भवेद्रोदनमग्रभागे भयं भवेद्बह्निविभागभूते नैरृत्यकोणे रणमार्गरोधो वायव्यकोणे रुदितं समृद्ध्यै ॥ मृत्युः सुतानां रुदितेन पृष्ठे लाभो भवेत्तत्र निवर्त्तनेन । मृत्युस्तदाग्रे रुदितेन गन्तुः सिद्धिं विधत्ते रुदितं रिपूणाम् ॥” इति वसन्तराजशाकुने नराङ्किते उपश्रुति- प्रकरणम् ॥ * ॥ वकचक्रवाकटङ्कटिट्टिभकार- ण्डवभासभारद्वाजमयूरकपिञ्जल-लावकगृध्रो- लूककपोतगोवत्सकुक्कुटकलविङ्कभारतीचास- खञ्जनकाकपिङ्गलारूपाणि शकुनानि घोटक- वृषमहिषखरगोमहिष्यजाजमेषैडकोष्ट्रछुच्छुन्द- रीमूषिकमार्जारवानरमृगवराहकृकलासनकु- लवृश्चिकपिपीलिकापल्ली-कुक्कुरादिरूपशकुना- निच वसन्तराजशाकुने द्रष्टव्यानि । हस्ति- शशकशृगालषट्पदशरभसर्परूपाणि शकुनानि तत्तच्छब्दे द्रष्टव्यानि ॥

"https://sa.wiktionary.org/w/index.php?title=शकुनम्&oldid=169376" इत्यस्माद् प्रतिप्राप्तम्