सामग्री पर जाएँ

शक्तिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तिः, स्त्री, (शक + क्तिन् ।) कायजनन- सामर्थ्यम् । यथा, -- “या देवी सर्व्वभूतेषु शक्तिरूपेण संस्थिता ।” इति देवीमाहात्म्यस्य टीकायां नागोजीभट्टः ॥ शक्यते जेतुमनया । सा प्रभावोत्साहमन्त्रज- भेदात्त्रिविधा । तत्र प्रभुत्वे साधकत्वात् कोष- दण्डौ प्रभुशक्तिः १ । विक्रमेण स्वशक्त्या विस्फु- रणमुत्साहशक्तिः २ । सन्ध्यादीनां सामादी- नाञ्च यथावस्थानं मन्त्रशक्तिः ३ ॥ सामर्थ्य- मात्रम् । तत्पर्य्यायः । द्रविणम् २ तरः ३ सहः ४ बलम् ५ शौर्य्यम् ६ स्थाम ७ शुष्मम् ८ परा- क्रमः ९ प्राणः १० । इत्यमरः ॥ शुष्म ११ सहम् १२ । इति शब्दरत्नावली ॥ ऊर्ज्जः १३ । इति जटाधरः ॥ कासूः । सा तु शर्व्वलानामास्त्रम् । इति नानार्थे अमरभरतौ ॥ गौरी । इति मेदिनी ॥ लक्ष्मीः । इति शब्दमाला ॥ * ॥ त्रिशक्तयो यथा, -- “एषा त्रिशक्तिरुद्दिष्टा नयसिद्धान्तगामिनी । एषा श्वेता परा सृष्टिः सात्त्विकी ब्रह्मसंस्थिता ॥ एषैव रक्ता रजसि वैष्णवी परिकीर्त्तिता । एषैव कृष्णा तमसी रौद्री देवी प्रकीर्त्तिता ॥ परमात्मा यथा देवो एक एव त्रिधा स्थितः । प्रयोजनवशाच्छक्तिरेकैव त्रिविधाभवत् ॥” इति वाराहे त्रिशक्तिमाहात्म्यनामाध्यायः ॥ * ॥ अपि च । “बिन्दुः शिवात्मकस्तत्र बीजं शक्त्यात्मकं स्मृतम् । तयोर्योगे भवेन्नादस्तेभ्यो जातास्त्रिशक्तयः ॥” इति क्रियासारः ॥ अन्यच्च । “इच्छा क्रिया तथा ज्ञानं गौरी ब्राह्मी तु वैष्णवी । त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योतिरो- मिति ॥” इति गोरक्षसंहिता ॥ * ॥ अष्ट शक्तयो यथा, -- “इन्द्राणी वैष्णवी शान्ता ब्रह्माणी ब्रह्मवादिनी । कौमारी नारसिंही च वाराही विकटाकृतिः ॥ माहेश्वरी महामाया भैरवी भीरुरूपिणी । अष्टौ च शक्तयः सर्व्वा रथस्थाः प्रययुर्मुदा ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे बाणयुद्धं नाम ११९ अध्यायः ॥ * ॥ प्रकृतिः । यथा, -- “प्रधानं प्रकृतिः शक्तिर्नित्या चाविकृतिस्तथा । एतानि तस्या नामानि पुरुषं या समाश्रिता ॥” तस्या गुणानाह । “सत्त्वं रजस्तमस्त्रीणि विज्ञेयाः प्रकृतेर्गुणाः ।” इति भावप्रकाशः ॥ * ॥ शक्तिविषयकपुष्पाणि यथा, -- “अथ पुष्पं प्रवक्ष्यामि कर्म्मयोगे महेश्वरि । शृणुष्व परया भक्त्या यथोक्तं ब्रह्मणा पुरा ॥ कमले करवीरे द्वे कुसुम्भे तुलसीद्वयम् । जात्यशोके केतकी द्वे कुमारीचम्पकोत्पलम् ॥ कुन्दमन्दारपुन्नागपाटलानागचम्पकम् । आरग्वधं कर्णिकारं पावन्ती नवमल्लिका ॥ सौगन्धिकं सकोरण्डं पलाशाशोकसर्ज्जकाः । सिन्धुवारो ह्यपामार्गवापुलीकञ्च कामजम् ॥ व्याघ्रचेलं दमनकं मरुवकं ततः परम् । लवङ्गं जलकर्पूरं तगरञ्च जवा तथा ॥ शिवपुष्पं द्रोणपुष्पं कामराजं सुकेतकम् । अन्यानि वनपुष्पाणि जलजस्थलजानि च । गिरिजानि देशजानि नानापुष्पाण्यतः परम् ॥” इति प्रपञ्चसारः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तिः [śaktiḥ], f. [शक्-क्तिन्]

(a) Power, ability, capacity, strength, energy, prowess; दैवं निहत्य कुरु पौरुषमात्मशक्त्या Pt.1.361; ज्ञाने मौनं क्षमा शक्तौ R.1.22; so यथाशक्ति, स्वशक्ति &c. (b) Faculty, capacity; स्मरण- शक्ति 'retentive faculty or memory'.

Regal power; (it has three parts or elements; 1 प्रभुशक्ति or प्रभावशक्ति' the majesty or pre-eminent position of the king himself'; 2 मंत्रशक्ति 'the power of good counsel'; and 3 उत्साहशक्ति 'the power of energy'); राज्यं नाम शक्तित्रयायत्तम् Dk.; त्रिसाधना शक्तिरिवार्थसंचयम् R.3.13;6.33;17.63; Śi.2.26.

The power of composition, poetic power or genius; शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् K.P.1; see explanation ad loc.

The active power of a deity, regarded as his wife, female divinity; (these are variously enumerated, 8, 9 or even 5 being mentioned); स जयति परिणद्धः शक्तिभिः शक्तिनाथः Māl.5.1; Ś.7.35.

A kind of missile; शक्तिखण्डामर्षतेन गाण्डीविनोक्तम् Ve. 3; ततो विभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् R.12.77.

A spear, dart, pike, lance.

(In phil.) The relation of a term to the thing designated.

The power inherent in cause to produce its necessary effect.

(In Rhet.) The power or signification of a word; (these are three अभिधा, लक्षणा and व्यञ्जना); तिस्रः शब्दस्य शक्तयः S. D.11.

The expressive power or denotation of a word (opp. लक्षणा and व्यञ्जना); it is thus defined: अस्माच्छब्दादयमर्थो बोद्धव्य इत्याकारको$नादिसंकेतः शक्तिः Tarka. K.

The female organ, the counterpart of the Phallus of &Saucte;iva worshipped by a sect of people called Śāktas.

A sword.

An implement in gambling.-Comp. -अर्धः perspiring and panting through fatigue or exertion. -अपेक्ष, -अपेक्षिन् a. having regard to strength; षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षो रसायनम् Śi.2.93.-कुण्ठनम् the deadening of a power. -ग्रह a.

apprehending the force or meaning.

armed with a spear.

(हः) apprehension of the force, meaning, or acceptation of a word.

a spearman, lancer.

an epithet of Śiva.

of Kārtikeya. -ग्राहक a. determining or establishing the meaning of a word. (-कः) epithet of Kārtikeya. -त्रयम् the three constituent elements of regal power; see शक्ति (2) above. -धर a. strong, powerful.

(रः) a spearman.

an epithet of Kārtikeya; ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः Rām. 7.8.11. -ध्वजः N. of Kārtikeya; शक्तिध्वजशिखरशूलोत्सेधं सौधमागतम् Dk.2.5. -नाथः N. of Śiva; स जयति परिणद्धः शक्तिभिः शक्तिनाथः Māl.5.1. -पर्णः Alstonia Scholaris. (Mar. सातवीण). -पाणिः, -भृत् m.

a spearman.

an epithet of Kārtikeya.

पातः prostration of strength.

In Yoga philosophy, a spiritual procedure, by which the preceptor puts his strength (spiritual power) in his pupil. -पूजकः a Śākta q. v. -पूजा the worship of Śakti. -पूर्वः an epithet of Parāśara.-वैकल्यम् loss of strength, debility, incapacity. -हीनa. powerless, weak, impotent. -हेतिकः a lancer, spearman.

"https://sa.wiktionary.org/w/index.php?title=शक्तिः&oldid=306398" इत्यस्माद् प्रतिप्राप्तम्