शङ्कर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्करः, पुं, (शं कल्याणं करोतीति । शम् + कृ + “शमिधातोः संज्ञायाम् ।” ३ । २ । १४ । इति अच् ।) शिवः । इत्यमरः ॥ अस्य व्युत्- पत्तिर्यथा, -- “सदा ध्यानाच्च भक्तानां पवनं यन्निरामयम् । भूतनाथत्वमप्यस्मात्तेनाहं शङ्करः स्मृतः ॥” इति स्कन्दपुराणम् ॥ अस्य भस्मास्थिधारणकारणं यथा, -- “विसृज्य तान् ब्रह्मविष्णुमयान वृषभवाहनः । आदाय सगणान् सर्व्वान् कामरूपान्तरं ययौ ॥ उग्रतारां ततो देवीं गणांश्च प्राह शङ्करः उत्सारयन्तु सकलान् इमान् लोकान् गणा द्रुतम् । उग्रतारे महादेवि त्वञ्चाप्युत्सारय द्रुतम् ॥ ततो गणाः कामरूपाद्देवी चाप्यपराजिता । लोकानुत्सारयामासुः पीठं कर्त्तुं रहस्यकम् ॥ उत्सार्य्यमाणे लोके तु चतुर्व्वर्णैर्द्विजातिभिः । सन्ध्याचलं गतो विप्रो वशिष्ठः कुपितो मुनिः ॥ सोऽप्युग्रतारया देव्या उत्सारयितुमीशया । गणैः सह धृतः प्राह शापं कुर्व्वन् सुदारुणम् ॥ यस्मादहं धृतो वामे त्वयोत्सारयितुं मुनिः । तस्मात्त्वं वाम्यभावेन पूज्या भव समन्त्रिका ॥ भर्त्स्यन्ति म्लेच्छवद्यस्माद्गणास्ते मन्दबुद्धयः । भवन्तु म्लेच्छास्तस्माद्वै भवत्याः कामरूपके ॥ महादेवोऽपि यस्मान्मां निःसारयितुमुद्यतः । तपोधनं मुनिं दान्तं म्ले ञ्चवद्वेदपारगम् । तस्मात् म्लेच्छप्रियो भूयात् शङ्करश्चास्थिभस्म- धृक् ॥” इति कालिकापुराणे ८३ अध्यायः ॥ * ॥ शङ्करगीता देवीपुराणे ७ अध्याये द्रष्टव्या ॥ शिवावतारविशेषः । यथा, -- “तद्भवान् लोकरक्षार्थमुत्साद्य निखिलान् खलान् । वर्त्म स्थापयतु श्रौतं जगद्येन मुखं व्रजेत् ॥ इत्युक्त्रोपरतान् देवानुवाच गिरिजाप्रियः । मनोरथं पूरयिष्ये मानुष्यमवलम्ब्य वः ॥ दुष्टाचारविनाशाय धर्म्मसंस्थापनाय च । भाष्यं कुर्व्वन् ब्रह्मसूत्रतात्पर्य्यार्थविनिर्णयम् ॥ मोहयन् प्रकृतिद्वैतध्वान्तमध्याह्नभानुभिः । चतुर्भिः सहितः शिष्यैश्चतुरैर्हरिवद्भुजैः ॥ यतीन्द्रः शङ्करो नाम्ना भविष्यामि महीतले । मद्वत्तथा भवन्तोऽपि मानुषीं तनुमाश्रिताः ॥ तं मामनुसरिष्यन्ति सर्व्वे त्रिदिववासिनः । तदा मनोरथः पूर्णो भवतां स्यान्न संशयः ॥” इति माधवीयसंक्षेपशङ्करजये १ सर्गः ॥ * ॥ (अयं हि द्वात्रिंशद्वर्षवयसि भौतिकशरीरं परित्यज्य परब्रह्मणि लीन आसीत् । यथा, तत्रैव । “एवंप्रकारैः किल कल्मषघ्नैः शिवावतारस्य शुभैश्चरित्रैः । द्वात्रिंशदस्योज्ज्वलकीर्त्तिराशेः समा व्यतीयुः किल शङ्करस्य ॥”) मङ्गलकारके, त्रि । यथा, -- “क्षेमङ्करोऽरिष्टतातिः स्यान्मद्रङ्करशङ्करौ ॥” इति त्रिकाण्डशेषः ॥ (यथा च महाभारते । ३ । २२८ । ६ । “हिरण्यगर्भ भद्रं ते लोकानां शङ्करो भव ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्कर पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।30।2।4

शम्भूरीशः पशुपतिः शिवः शूली महेश्वरः। ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्कर¦ पु॰ शं करोति कृ--अच्।

१ महादेवे

२ कल्याणकरेत्रि॰

३ शिवत्न्यां स्त्री ङीष्।

४ सा च मञ्जिष्ठायां शब्दच॰।

५ शम्यां राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्कर¦ mfn. (-रः-रा-रं) Auspicious, propitious, conferring happiness or good fortune. m. (-रः)
1. S4IVA.
2. The name of a celebrated teacher of the Ve4da4nta philosophy. f. (-री)
1. PA4RVATI4, the wife of S4IVA.
2. The S4ami4-tree.
3. Bengal madder. E. शं good fortune, कर making.

शङ्कर¦ mfn. (-रः-रा-रं) Formidable, fearful, frightful. E. शङ्कु fear, रा to give or cause, aff. ड |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्कर See. शंकर, p. 1054 , col. 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAṄKARA I : A synonym of Śiva.


_______________________________
*4th word in left half of page 685 (+offset) in original book.

ŚAṄKARA II : A simpleton, who was killed by his wife. This brahmin had a very mean wife called Kalipriyā. After killing her husband she left the place with her paramour. But, wild animals killed him on their way in the forest. In all repentance Kalipriyā returned home and after worshipping the corpse of her husband she observed Kārttika vrata at the instance of certain women. Thereby she got absolution from sin and attained heaven. (Padma Purāṇa, Brahmakhaṇḍa, Chapter 10).


_______________________________
*5th word in left half of page 685 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शङ्कर&oldid=438258" इत्यस्माद् प्रतिप्राप्तम्