शतघ्नी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतघ्नी, स्त्री, (शतं हन्तीति । हन + टक् । ङीप् ।) शस्त्रभेदः । अस्य लक्षणम् । यथा, -- “अयःकण्टकसंछन्ना शतघ्नी महती शिला ।” इति विजयरक्षितः ॥ “दुर्गञ्च परिखोपेतं चयाट्टालकसंयुतम् । शतघ्नीयन्त्रमुख्यैश्च शतशश्च समावृतम् ॥ गोपुरं सकवाटञ्च तत्र स्यात् सुमनोहरम् । सपताकं गजारूढो येन राजा विशेत् पुरम् ॥” इति मात्स्ये राजधर्म्मे दुर्गसम्पत्तिर्नाम १९१ अध्यायः ॥ * ॥ (यथा, रघुः । १२ । ९५ । “अयःशङ्कुचितां रक्षः शतघ्नीमथ शत्रवे । हृतां वैवस्वतस्यैव कूटशाल्मलिमक्षिपत् ॥” “अथ रक्षो रावणः अयसः शङ्कुभिः कीलै- श्चितां कीर्णां शतघ्नीं लौहकण्टककीलितयष्टि- विशेषाम् । शतघ्नी तु चतुस्ताला लोहकण्टक- सञ्चिता । यष्टिः -- ॥ इति केशवः ॥” इति तट्टीकायां मल्लिनाथः ॥) वृश्चिकाली । करञ्जकः । इति मेदिनी ॥ गलरोगविशेषः । अस्य निदानलक्षणचिकित्साः रोहिणीशब्दे द्रष्टव्याः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतघ्नी¦ स्त्री शतं हन्ति हन--टक्।

१ अस्त्रभेदे
“अयःकण्ट-कसंछन्ना शतघ्नी महती शिला” विजयरक्षितः।

२ वृश्चिकाल्यां

३ करञ्जे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतघ्नी¦ f. (-घ्नी)
1. A weapon; it is generally supposed to be a sort of fire-arms, or the ancient Indian rocket, but it is also described as a stone set round with iron spikes.
2. A female scorpion.
3. A plant, (Galedupa arborea.)
4. A disease of the throat, apparently enlarge- ment of the tonsils. E. शत a hundred, हन् to kill, affs. अण् and ङीष् and the radical letters changed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतघ्नी/ शत--घ्नी f. (See. -हन्, p.1050) a partic. deadly weapon (used as a missile , supposed by some to be a sort of fire-arms or rocket , but described by the Comm. on the महाभारतas a stone or cylindrical piece of wood studded with iron spikes) MBh. Hariv. Ka1v. etc.

शतघ्नी/ शत--घ्नी f. a deadly disease of the throat Sus3r. S3a1rn3gS.

शतघ्नी/ शत--घ्नी f. Tragia Involucrata L.

शतघ्नी/ शत--घ्नी f. Pongamia Glabra L.

शतघ्नी/ शत--घ्नी f. a female scorpion W.

शतघ्नी/ शत--घ्नी f. N. of शिव(m.) MW.

शतघ्नी/ शत--घ्नी f. See. p.1049.

"https://sa.wiktionary.org/w/index.php?title=शतघ्नी&oldid=504764" इत्यस्माद् प्रतिप्राप्तम्