शतपुष्पा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतपुष्पा, स्त्री, (शतं पुष्पाणि यस्याः ।) शाक- विशेषः । इति भरतः ॥ शलुफा इति ख्याता । (यथा, बृहत्संहितायाम् । ५१ । १५ । “गन्धमांसिशतपुष्पया वदेत् ॥”) तत्पर्य्यायः । सितच्छत्रा २ अतिच्छत्रा ३ मधुरा ४ मिसिः ५ अवाक्पुष्पी ६ कारवी ७ । इत्य- मरः ॥ शताक्षी ८ शतपुष्पिका ९ मधुरिका १० शताह्वा ११ छत्रा १२ मिशिः १३ मिशी १५ । इति शब्दरत्नावली ॥ माधवी १५ घोषा १६ । इति जटाधरः ॥ अस्या गुणाः । मधु- रत्वम् । वातपित्तहरत्वम् । गुरुत्वञ्च । इति राजवल्लभः ॥ * ॥ क्षुपविशेषः । मौरी इति भाषा । तत्पर्य्यायः । शताह्वा २ मिसिः ३ घोषा ४ पोतिका ५ अतिच्छत्रा ६ अवाक्- पुष्पी ७ माधवी ८ कारवी ९ शिफा १० संघातपत्रिका ११ छत्रा १२ वज्रपुष्पा १३ सुपुष्पिका १४ शतप्रसूना १५ वहला १६ पुष्पाह्वा १७ शतपत्रिका १८ वनपुष्पा १९ भूरिपुष्पा २० सुगन्धा २१ सूक्ष्मपत्रिका २२ मधुरिका २३ अतिच्छत्रा २४ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । स्निग्धत्वम् । श्लेष्माति- सारज्वरनेत्रव्रणनाशित्वम् । वस्तिकर्म्मणि प्रश- स्यत्वञ्च ॥ * ॥ तद्दलगुणाः । उष्णत्वम् । मधु- रत्वम् । गुल्मशूलवातनाशित्वम् । दीपनत्वम् । पथ्यत्वम् । पित्तहारित्वम् । रुचिदायकत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । “शताह्वानिलदाहामशूलतृट्छर्द्दिनाशिनी ।” इति द्रव्यगुणः ॥ अन्यच्च । “शतपुष्पा कटुः स्निग्धा तिक्तोष्णा कफवातकृत् । रुच्या वस्तिहिता नेत्र्या बद्धविट्कृमिशुक्रहृत् । संग्राही शीतला तिक्ता दाहनुत् वातला लघुः ॥” इति भावप्रकाशः । अन्यन्मधुरिकाशब्दे द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतपुष्पा स्त्री।

शतपुष्पा

समानार्थक:शतपुष्पा,सितच्छत्रा,अतिच्छत्रा,मधुरा,मिसि,अवाक्पुष्पी,कारवी

2।4।152।1।1

शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः। अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतपुष्पा¦ स्त्री शतं पुष्पाणि यस्याः। (सुल्फा)

१ शाकभेदे(मौरी)

२ क्षुपभेदे च। कष्। तत्रैव।
“शतपुष्पा कदुः स्निग्धा तिक्तोष्णा कफवातकृत्। रुच्या-वस्तिहिता नेत्र्या बद्धविट् कृमिशुक्रहृत्। संग्राहि-शीतला तिक्ता दाहनुत् वातला लघुः” भावप्र॰। किरा-तार्जनीयग्रन्थकारके भारविकवौ पु॰ त्रिका॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतपुष्पा/ शत--पुष्पा f. Anethum Sowa Sus3r. Var.

"https://sa.wiktionary.org/w/index.php?title=शतपुष्पा&oldid=309863" इत्यस्माद् प्रतिप्राप्तम्