शनिवार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनिवारः, पुं, (शनिभोग्यः शनेर्वा वारः ।) शनि- भोग्यसावनदिनम् । तत्तु उदयादोदयकालः । यथा, -- “सूतकादिपरिच्छेदो दिनमासाब्दपास्तधा । मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तिताः ॥” दिनाधिपस्य रव्यादेर्भ्योग्यं दिनं वाररूपं सावनगणनोक्तम् । “उदयादोदयाद्भानोर्भौमसावनवासराः ॥” इति तिथ्यादितत्त्वम् ॥ शतभिषानक्षत्रयुक्तमधुकृष्णत्रयोदश्यां शनिवार- योगे महावारुणी स्यात् । यथा । स्कन्दपुराणे । “वारुणेन समातुक्ता मधौ कृष्णा त्रयोदशी । गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा । शनिवारसमायुक्ता सा महावारुणी स्मृता ॥” इति तिथ्यादितत्त्वम् ॥ * ॥ तत्र जातफलं यथा, -- “कृशः सुवेशः कुलकीर्त्तिहीनो ज्वरायुतो मध्यधनोऽङ्गहीनः । तमोगुणः क्लेशकरो नराणां मन्दस्य वारप्रभवोऽतिमन्दः ॥” इति कोष्ठीप्रदीपः ॥ * ॥ तत्र यात्रानिषेधो यथा, -- “संत्यजेद्दिवसे यात्रां सूर्य्यारार्कीन्दुवक्रिणाम् ।” इति ज्योतिस्तत्त्वम् ॥ वारवेलादि शनिशब्दे द्रष्टव्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनिवार¦ पु॰ शनिस्वामिकोवारः। सूर्य्यादिवारमध्ये सप्तमेवारे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनिवार¦ m. (-रः) Saturday. E. शनि the planet, and वार in this and simi- lar compounds, a day.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनिवार/ शनि--वार m. -SSaturn's day , Saturday L.

"https://sa.wiktionary.org/w/index.php?title=शनिवार&oldid=504777" इत्यस्माद् प्रतिप्राप्तम्